तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
अन्नात् रसादिभावपरिणतात् , वै इति स्मरणार्थः, प्रजाः स्थावरजङ्गमात्मकाः, प्रजायन्ते । याः काश्च अविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रिताः, ताः सर्वा अन्नादेव प्रजायन्ते । अथो अपि, जाताः अन्नेनैव जीवन्ति प्राणान्धारयन्ति, वर्धन्त इत्यर्थः । अथ अपि, एनत् अन्नम् , अपियन्ति अपिगच्छन्ति, अपि शब्दः प्रतिशब्दार्थे, अन्नं प्रति लीयन्त इत्यर्थः ; अन्ततः अन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ । कस्मात् ? अन्नं हि यस्मात् भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अन्नमयादीनां हि इतरेषां भूतानां कारणमन्नम् ; अतः अन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः । यस्माच्चैवम् , तस्मात् सर्वौषधं सर्वप्राणिनां देहदाहप्रशमनमन्नमुच्यते ॥

अन्नादिति ।

विराडात्मकादित्यर्थः ।

स्थावरेति ।

व्यष्ट्यन्नमयकोशा इत्यर्थः ।

कदा लीयन्त इत्याकाङ्क्षायामाह –

अन्त इति ।

विराजोऽस्मदादिकारणत्वे हेतुपरमन्नं हीति वाक्यं हि-शब्दयोगादिति मत्वा तदाकाङ्क्षापूर्वकमवतार्य व्याचष्टे –

कस्मादित्यादिना ।

अन्नशब्दितस्य विराजः प्रथमजत्वे फलितमाह –

अन्नमयादीनां हीति ।

प्राणमयादीनामन्नविकारत्वाभावेऽप्यन्नोपचितत्वमस्तीति मत्वात्रादिपदं प्रयुक्तम् । अन्नं विराडात्मकं यतः प्रथममेव जातं सत्स्वव्यतिरिक्तानां भूतानां कारणं कारणत्वयोग्यम् अतोऽन्नप्रभवा इत्यर्थः । प्रथममुत्पन्नस्य पश्चादुत्पद्यमानकार्यं प्रति कारणत्वयोग्यतासम्भवसूचनार्थो हि-शब्दः ।

यस्माच्चैवमिति ।

चोऽवधारणे । यस्मादन्नजीवना एव प्रजाशब्दवाच्याः प्राणिन इत्यर्थः ।

दाहेति ।

जाठरकृता क्षुद्दाहः, तत्प्रशामकमित्यर्थः ॥