असत्सम एव भवतीति ।
वन्ध्यापुत्रसम एव भवतीत्यर्थः ।
तदेव साम्यं प्रपञ्चयति –
यथेति ।
ब्रह्मणो नास्तित्वे स्वयमपि नास्त्येवेति पर्यवस्यति, सर्वेषां तत्स्वरूपत्वात् , तथा च असत्त्वमापन्नस्य ब्रह्मासत्त्ववेदिनो युक्तमेव वन्ध्यापुत्रस्येव भोगाद्यसम्बन्धित्वापादनमिति मन्तव्यम् । तद्विपर्ययेण अस्ति ब्रह्मेति वेद चेदिति सम्बन्धः ।
तदस्तित्वे लिङ्गं सूचयति –
सर्वविकल्पास्पदमिति ।
सर्वस्य विकल्पस्य द्वैतस्याधिष्ठानमित्यर्थः । विमतं जगत्सदधिष्ठानं कल्पितत्वाद्रज्जुसर्पादिवदिति लिङ्गेन तदस्तित्वसिद्धिरिति भावः ।
तत्रैव लिङ्गान्तरं सूचयति –
सर्वप्रवृत्तिबीजमिति ।
सर्वसृष्टिकर्त्रित्यर्थः । क्षित्यादिकं चेतनकर्तृकं कार्यत्वाद्घटवदिति रीत्या सर्वजगत्कर्तृत्वेन च तदस्तित्वसिद्धिरिति भावः ।
सर्वलयाधारत्वेनापि तदस्तित्वं सूचयति –
सर्वविशेषेति ।
सर्वे विशेषाः प्रत्यस्तमिता विलीना यस्मिन्निति विग्रहः ।
ननु यद्युक्तप्रमाणबलादस्ति ब्रह्म कथं तत्र नास्तित्वाशङ्का हेत्वभावादित्याक्षिप्य समाधत्ते –
का पुनरित्यादिना ।
तदेव प्रपञ्चयति –
व्यवहारविषये हीत्यादिना ।
विकारमात्रे अस्तित्वभावनोपेता लोकबुद्धिः व्यवहारविषये अस्तित्वमिव तद्विपरीते शशशृङ्गादौ नास्तित्वमपि व्यवहारकाले निश्चिनुयादित्यर्थः ।
अस्मिन्नर्थे हि-शब्दसूचितां प्रसिद्धिमुदाहृत्य दर्शयति –
यथा घटादिरिति ।
एवमिति ।
तैः शशशृङ्गादिभिः सह इहापि ब्रह्मण्यपि व्यवहारातीतत्वस्य समानत्वादेवं शशशृङ्गादीनामिव बह्मणोऽपि नास्तित्वमिति निश्चयो भवतीत्यर्थः ।
तस्मादुच्यत इति ।
यस्माद्ब्रह्मण्यसत्त्वाशङ्का जायते तस्मात्तन्निराकरणार्थमस्तित्वमुच्यत इत्यर्थः ।
स इति ।
सर्वप्रत्यग्भूतं ब्रह्मास्तीति श्रुत्युपपत्तिभ्यां यो विजानाति स ब्रह्मवित्त्वेनान्येषां वेदनीयो भवतीत्यर्थः ।
ननु वस्तुतः सद्रूपे ब्रह्मण्यसत्त्ववेदनमात्राद्वेदितुरसत्त्वं नोपपद्यत इत्यस्वरसादाह –
अथ वेति ।
सन्मार्गस्य नास्तित्वमेव निश्चिनुयादित्यत्र हेतुमाह –
ब्रह्मेति ।
सन्मार्गेण निष्कामनयानुष्ठितेन प्राप्तव्यं यन्मोक्षरूपं फलं तद्ब्रह्मैव तदपलापे नास्तिकः स्यादित्यर्थः ।
तस्मादिति ।
ब्रह्मनास्तित्ववेदिनो नास्तिकत्वाद्यापत्तेरित्यर्थः ।
अस्य मन्त्रस्यानन्दमयविषयत्वं वृत्तिकाराभिमतं निराकृतमपि दार्ढ्यार्थं पूनर्निराकरोति –
तं प्रतीति ।
आनन्दमयं प्रति या आशङ्का आनन्दमयनास्तित्वगोचरा वृत्तिकारैर्वक्तव्या सा कास्ति नास्त्येव, प्रियादिविशिष्टस्य तस्य प्रत्यक्षसिद्धत्वादित्यर्थः ।
तस्य स्वाभिमतं पुच्छवाक्यनिर्दिष्टब्रह्मविषयकत्वं निषप्रत्यूहं ब्रह्मण्यानन्दमयविलक्षणे नास्तित्वशङ्काया उपपादितत्वादित्याशयेनाह –
अपोढेति ।
ननु ब्रह्मणि सर्वव्यवहारापोहोऽसिद्धः विद्वद्व्यवहारविषयत्वादित्याशङ्क्याह –
सर्वसमत्वाच्चेति ।
च-शब्दः शङ्कानिरासार्थः । ब्रह्मणः सर्वजीवसाधारणत्वात्सर्वान्प्रति तस्य व्यवहार्यत्वं स्यात् , न चैतदस्तीत्यतः सर्वसाधारण्येन व्यवहारविषयत्वाभावात्तत्रासत्त्वशङ्का युक्तेत्यर्थः ।
यस्मादेवमिति ।
सर्वसमं ब्रह्मेत्येवंशब्दार्थः ।
अतस्तस्मादिति ।
अयमतःशब्दः श्रुतिगत इति बोद्धव्यम् ।
आचार्योक्तिमिति ।
ब्रह्मविद्ब्रह्म प्राप्नोति, विद्याप्राप्यं च ब्रह्म सर्वकारणं सर्वात्मकमित्येवमाद्याचार्योपदेशमित्यर्थः ।
श्रुतावविदुषो ब्रह्मप्राप्तिप्रश्नो दृश्यते, तस्यालम्बनमतःशब्दोपात्तं विवृणोति –
सामान्यं हीति ।
समानमित्यर्थः ।
विद्वदविदुषोः समानं ब्रह्मेत्यत्र हि-शब्दसूचितं हेतुमाह –
आकाशादीति ।
प्रकृतस्याकाशादिकारणभूतब्रह्मणः सर्वप्रत्यक्तया पुच्छवाक्ये प्रतिष्ठापदेनोक्तत्वादित्यर्थः । यद्वा आकाशादिक्रमेण सर्वभूतकारणत्वात्कार्यभूतानां विदुषामविदुषां च साधारणं ब्रह्मेत्यर्थः । जीवानां स्वतः कार्यत्वाभावेऽपि स्थूलसूक्ष्मोपाधिविशिष्टतया कार्यत्वाभ्युपगमादिति भावः ।
अमुमिति ।
बुद्ध्यादिसाक्षितया प्रत्यक्षसिद्धस्यापि परमात्मन इन्द्रियागोचरत्वविवक्षया अदःशब्देन परोक्षतया निर्देश इति बोध्यम् ।
लोकमिति ।
लोकनं लोक इति व्युत्पत्त्या चैतन्यैकरसमित्यर्थः ।
इतः प्रेत्येति ।
मृत्वेत्यर्थः ।
नन्वविद्वानपि किं ब्रह्म गच्छति किं वा न गच्छतीति कोटिद्वयोपेतः प्रश्न एक एव यथा विष्णुमित्रो विष्ण्वालयं गच्छति न वेत्यादौ, ततश्च कथं तस्य द्वित्वकल्पनमित्याशङ्क्य बहुवचनानुरोधादित्याह –
अनुप्रश्ना इतीति ।
अन्यौ द्वाविति ।
न्यायसाम्यादिति भावः ।
ननु विदुषो ब्रह्मप्राप्त्यभावशङ्का निरालम्बनेत्याशङ्क्याह –
यद्यविद्वानिति ।
विष्णुमित्रविषयकप्रश्नन्यायमनुसरति –
द्वाविति ।
बहुवचनस्य गतिमाह –
बह्विति ।
पूर्वत्रास्तित्वनास्तित्वरूपकोटिद्वयश्रवणसामर्थ्यप्राप्तं प्रश्नान्तरमपेक्ष्य बहुवचनं भविष्यतीत्यर्थः । तु-शब्दोऽस्य पक्षस्य श्रुत्यभिमतत्वरूपविशेषद्योतनार्थः । प्रथमव्याख्याने हि ‘सोऽकामयत’ इत्यारभ्यैव विद्वदविद्वद्विषयप्रश्ननिर्णय एव कर्तव्यतया प्राप्नोति ; न चासौ ‘सोऽकामयत’ इत्यारभ्य दृश्यते, तस्मात् ‘सोऽकामयत’ इत्यादेरसङ्गतत्वपरिहारायायमेव पक्षः श्रुत्यभिमत इति गम्यत इति मन्तव्यम् ।
सामर्थ्यप्राप्तेत्येतदेव विवृणोति –
असदित्यादिना ।
यद्यपि पूर्वत्रासत्त्ववेदने दोषाभिधानेन सत्त्ववेदने गुणाभिधानेन च ब्रह्मणः सत्त्वं निर्णीतं निर्णीतत्वाच्च न संशयो नापि तन्मूलकः प्रश्नो घटते, तथापि तर्केषु प्रविणस्य ब्रह्मजिज्ञासोरल्पोपत्तिमात्रेणापरितुष्यतः श्रुत्युपदर्शितास्तित्वनास्तित्वरूपकोटिद्वयं चोपशृण्वतः संशयो न निवर्तत इति तन्मूलकः प्रश्नः श्रुत्यभिमत इति भावः ।
अपक्षपातित्वादिति ।
विद्वदविद्वत्साधारण्यत्वादित्यर्थः ॥