तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहातस्य ॥ ४ ॥
तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसम्पत्तिनिमित्त उत्कृष्टः । सः य एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसिद्धेन आनन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते । लौकिकोऽप्यानन्दः ब्रह्मानन्दस्यैव मात्रा ; अविद्यया तिरस्क्रियमाणे विज्ञाने उत्कृष्यमाणायां च अविद्यायां ब्रह्मादिभिः कर्मवशात् यथाविज्ञानं विषयादिसाधनसम्बन्धवशाच्च विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः सम्पद्यते ; स एव अविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु अकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति ॥

ननु ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि मानुषाद्यानन्दोपन्यासः ? तत्राह –

तत्र लौकिक इति ।

बाह्यसाधनानि विषयाः, आध्यात्मिकानि साधनानि देहमधिकृत्य वर्तमानानि यौवनादीनि, तेषां द्विविधानां साधनानां सम्पत्तिर्मेलनं निमित्तं यस्यानन्दस्य स तथा । अत एवानन्दस्योत्कर्षो निर्दिश्यते ‘स एको मानुषः’ इत्यादिनेति शेषः ।

ब्रह्मानन्दानुगमार्थमिति ।

लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदित्यानन्दतारतम्यावधित्वेन निरतिशयस्वाभाविकानन्दरूपब्रह्मानन्दानुमानार्थं लौकिक आनन्दो निर्दिश्यत इत्यर्थः ।

अनुगममेव विशदयति –

अनेन हीति ।

ब्रह्मानन्दस्य विषयानुसन्धानविमुखविद्वद्बुद्धिविषयत्वाच्च न विषयविषयिसम्बन्धजनितत्वमित्याशयेनाह –

व्यावृत्तेति ।

व्यावृत्ता निवृत्ता विषया यस्या बुद्धेः सकाशात्सा तथा ।

प्रकारान्तरेण लौकिकानन्दानां ब्रह्मानन्दावगमोपायत्वमभिप्रेत्याह –

लौकिकोऽपीति ।

मात्रा अवयवः । लोकिकानन्दानां हिरण्यगर्भानन्दादर्वाक्तारतम्येन निकर्षः, मानुषानन्दादूर्ध्वं तारतम्येनोत्कर्ष इति व्यवस्था ।

तत्र लौकिकानन्दस्य ब्रह्मानन्दमात्रारूपत्वं प्रपञ्चयन्नादौ तत्र निकर्षप्रयोजकमाह –

अविद्ययेति ।

तिरस्क्रियमाणे विज्ञान इति ।

विवेके तारतम्येनाभिभूयमान इत्यर्थः ; तथा च विवेकाभिभव एको निकर्षप्रयोजक इति भावः ।

तत्र प्रयोजकान्तरं सूचयति –

उत्कृष्यमाणायां चेति ।

कामक्रोधादिलक्षणैः स्वकार्यविशेषैर्निबिडायामित्यर्थः ।

कर्मापकर्षतारतम्यमप्यपकर्षप्रयोजकमित्याशयेनाह –

कर्मवशादिति ।

यथाविज्ञानं विभाव्यमान इति सम्बन्धः ।

विषयापकर्षादिकमपि तत्र प्रयोजकमित्याशयेनाह –

विषयादीति ।

चलः क्षणिकः, अनवस्थितः अनेकरूपः, अपकर्षतारतम्योपेत इति यावत् । सम्पद्यते, ब्रह्मानन्दो लौकिकः सम्पद्यत इत्यर्थः । योऽयं ब्रह्मानन्दस्य विषयविशेषादिकृतवृत्त्युपहितो भागः एष एव मात्राशब्दितो लौकिकान्द इति भावः ।

स एवेति ।

व्यावृत्तविषयबुद्धिगम्य इत्यत्र अकामहतविद्वच्छ्रोत्रियप्रत्यक्षगम्यत्वेन प्रकृतो ब्रह्मानन्द एव मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु ब्रह्मण आनन्द इत्यन्तासु शतगुणोत्तरोत्कर्षेण विभाव्यत इति सम्बन्धः ।

उत्तरोत्तरमानन्दोत्कर्षे पूर्वोक्तानामविद्यादीनामपकर्षतारतम्यं प्रयोजकमाह –

अविद्याकामकर्मापकर्षेणेति ।

अकामहतेति ।

अकामहतविद्वच्छ्रोत्रियपदानां कर्मधारयः । ‘श्रोत्रियस्य चाकामहतस्य’ इत्यत्राकामहतत्वं सातिशयमिति वक्ष्यति, तद्वदत्रापीति शङ्कानिरासार्थं विद्वत्पदम् , तच्च ब्रह्मसाक्षात्कारवत्परमिति मन्तव्यम् ।

ब्रह्मण इत्यस्य विवरणम् –

हिरण्यगर्भस्येति ॥