मात्राभूतेन लौकिकानन्दजातेनावगन्तव्यं ब्रह्मानन्दं दर्शयति –
निरस्ते त्विति ।
साधनसम्पत्तिकृतवृत्तिविशेषोपहितस्वरूपानन्दो विषयः, तदनुभविता जीवो विषयी, तयोर्विभागो मूलाविद्याप्रयुक्तः ; तस्मिन्नविद्याकृते ब्रह्मात्मैक्यविद्यया निरस्ते सति य आनन्दः समाधावभिव्यज्यते स एव स्वाभाविकः पिरपूर्ण एकरूपो ब्रह्मानन्द इत्यवगतो भवतीत्यर्थः । एतदुक्तं भवति - यथोक्ताः सर्वे लौकिकानन्दा यस्य मात्राः समुद्राम्भस इव विप्रुषः, स स्वाभाविक आनन्दो विद्वत्प्रत्यक्षसिद्धोऽस्ति, स एव ब्रह्मानन्द इत्येवं मात्रारूपलौकिकानन्दैर्नित्यो ब्रह्मानन्दो विदितो भवतीति ।
एतमर्थमिति ।
अद्वैतानन्दावगमोपायभूतं लौकिकानन्दं विभावयिष्यन्प्रदर्शयिष्यन्नाह श्रुतिरित्यर्थः ।
प्रथमवया इति ।
पूर्ववया इत्यर्थः । साधुर्यथोक्तकारी ।
आशुतम इति ।
भोग्येषु वस्तुषु यथाकालमविलम्बेन प्रवृत्तिमानिति यावत् ।
दृढतम इति ।
युद्धादिषु प्रवृत्तौ मनोधैर्यवानित्यर्थः ।
बलवत्तम इति ।
कायिकबलातिशयविशेषवानित्यर्थः ।
'युवा स्यात्’ इत्यादेः पिण्डितार्थमाह –
एवमाध्यात्मिकेति ।
आत्मानं देहमधिकृत्य यानि साधनानि सम्भाव्यन्ते तैः सर्वैः सम्पन्न इत्यर्थः ।
वित्तस्य दृष्टार्थत्वमेव विवृणोति –
उपभोगेति ।
अदृष्टार्थत्वविवरणम् –
कर्मेति ।
मनुष्याः सन्त इति ।
अस्मिन्कल्पे मनुष्याः सन्त इत्यर्थः ।
तेषामानन्दोत्कर्षे हेतुमाह –
ते हीति ।
आकाशगमनादिशक्तिसङ्ग्रहार्थमादिग्रहणम् । उक्तशक्त्यादिसम्पत्तिः शास्त्रप्रसिद्धेति सूचनार्थो हि-शब्दः । कार्यकरणानां सूक्ष्मत्वं प्रायेण शीतोष्णादिद्वन्द्वाभिघातायोग्यत्वम् ।
तस्मादिति ।
सूक्ष्मकार्यकरणवत्त्वादित्यर्थः ।
द्वन्द्वेति ।
अल्पानां द्वन्द्वानां प्राप्तावपि तेषां प्रतिघाते निवारणे या शक्तिः या च स्रक्चन्दनादीनामानन्दसाधनानां सम्पत्तिः सा चास्तीत्यर्थः ।
फलितमाह –
अत इति ।
प्रसादो विक्षेपराहित्यम् , शुद्धिविशेष इति यावत् । मनुष्यगन्धर्वाणां स्वरूपं वार्तिके दर्शितम् - ‘सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः । नृत्तगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः’ इति ।
देवगन्धर्वादीनामपि यथोक्तसामग्र्युत्कर्षतारतम्यकृतचित्तप्रसादविशेष आनन्दोत्कर्षतारतम्यप्रयोजक इत्यतिदिशति –
एवमिति ।
भूमिः पदम् , देवगन्धर्वत्वाद्यवस्थेति यावत् ।
'स एको मानुष आनन्दः’ इत्यत्र प्रथमपर्याये ‘श्रोत्रियस्य चाकामहतस्य’ इति कुतो न पठ्यते ? तत्राह –
प्रथममिति ।
मनुष्येति ।
मनुष्यस्य सार्वभौमस्य यो विषयभोगः विषयानन्दः तद्गोचरकामरहितस्य मनुष्यगन्धर्वानन्दप्राप्तिसाधनंसपत्तिं विनैव तमानन्दमत्रैव लोके कामयमानस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणितेन मनुष्यगन्धर्वानन्देन तुल्यः सन्नानन्दो भवतीति वक्तव्यमित्येतदर्थमित्यर्थः । मानुषानन्दे कामाभावप्रयोजकविवेकोपयोगित्वेन मनुष्यगन्धर्वानन्दे कामोपयोगिगुणदर्शनोपयोगित्वेन च साङ्गाध्ययनवत्त्वरूपं श्रोत्रियत्वमुपात्तमिति मन्तव्यम् । ननु मनुष्यगन्धर्वस्य नृत्तगीतादिसामग्रीविशेषमहिम्ना यो हर्षविशेषो भवति स कथमत्रैवाकामहतश्रोत्रियस्य भवेदिति चेत् , अत्राहुः - मा भूदयं हर्षविशेषः तस्य क्षणिकस्य मुख्यानन्दत्वाभावात् , कस्तर्हि तस्य मुख्यानन्दः ? उच्यते - मनुष्यगन्धर्वस्य स्वोचितविषयप्राप्त्या तदिच्छायां शान्तायां नृत्तगीतादिजनितहर्षविशेषेषु च शान्तेषु या तृप्तिरनुगच्छति सैव मुख्य आनन्दः, तथा च स्मर्यते - ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’ इति । स च तृप्तिरूपो मुख्यानन्दो मनुष्यगन्धर्वेण समानः श्रोत्रियस्य सम्भवति । न चास्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दे कामनावत्त्वान्न तृष्णाक्षय इति वाच्यम् , तथापि मनुष्यगन्धर्वाणां तत्पर्यायपठितश्रोत्रियस्य च मानुषानन्दगोचरतृष्णाक्षयसाम्येन तृप्तिलक्षणानन्दसाम्ये बाधकाभावादिति । मनुष्यगन्धर्वपर्याये पठितस्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दगोचरकामनावत्त्वम् ‘मनुष्यविषयभोग - - ‘ इति भाष्ये मनुष्यग्रहणसूचितम् , वार्तिकेऽपि स्पष्टमेव दर्शितम् - ‘मार्त्याद्भोगाद्विरक्तस्य ह्युत्तराह्लादकामिनः’ इति । एवमुत्तरत्रापि तत्तत्पर्यायपठितस्य श्रोत्रियस्य तत्पूर्वपूर्वभूम्यन्तानन्देषु कामानभिभूतत्वं तत्तद्भूमिगतानन्दकामनावत्त्वं चोहनीयम् ।
ननु सार्वभौमस्याश्रोत्रियत्वात्पूर्वे वयस्यतिक्रान्तमर्यादत्वाच्च न तस्य मानुषानन्दः सम्पूर्ण इत्याशङ्कावारणायोक्तं स्मारयति –
साध्विति ।
साधुपदाद्यथोक्तकारित्वरूपमवृजिनत्वं गृह्यते, ततो न तस्यातिक्रान्तमर्यादत्वाशङ्का, तथा अध्यायकपदाच्छ्रोत्रियत्वं गृह्यत इत्यर्थः । एवम् ‘श्रोत्रियस्य चाकामहतस्य’ इति प्रतिपर्यायं श्रुतस्य श्रोत्रियस्यापि यथोक्तकारित्वरूपमवृजिनत्वमपेक्षितम् , अन्यथा अधीतसाङ्गस्वाध्यायत्वेन श्रोत्रियस्यापि तस्य यथोक्तकारिभिः श्रोत्रियैर्निन्द्यमानस्य मनुष्यगन्धर्वादितुल्यानन्दप्राप्त्यसम्भवप्रसङ्गाद् , अत एव श्रुत्यन्तरे तदपि पठ्यते - ‘यश्च श्रोत्रियोऽवृजिनोऽकामहतः’ इति ।
ननु द्वितीयपर्यायमारभ्य श्रुतानां श्रोत्रियाणां मध्ये कस्यचिन्मनुष्यगन्धर्वानन्देन तुल्य आनन्दः कस्यचित्तु देवगन्धर्वानन्देनेत्यादिलक्षणो विशेषः किङ्कृतः श्रोत्रियत्वावृजिनत्वाकामहतत्वानामानन्दसाधनानामेकरूपत्वादिति ; नेत्याह –
ते हीति ।
हि-शब्दोऽवधारणार्थः । सर्वत्र सर्वेषु श्रोत्रियेषु श्रोत्रियत्वावृजिनत्वे एवाविशिष्टे तुल्ये, न त्वकामहतत्वमपि, तत्तु तत्तत्पर्यायगतस्य श्रोत्रियस्य विशिष्यते भिद्यते ।
तद्भेदे हेतुः –
विषयेति ।
मनुष्यगन्धर्वपर्यायस्थश्रोत्रियस्य मानुषानन्दमात्रे कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् , तथा देवगन्धर्वपर्यायस्थस्य श्रोत्रियस्य मानुषानन्दे मनुष्यगन्धर्वानन्दे च विषये कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् । एवमुत्तरत्रापि । एतदुक्तं भवति – कामस्य विषयबाहुल्यरूपोत्कर्षे सति तन्निवृत्तिरूपस्याकामहतत्वस्यापकर्षरूपो विशेषो भवति, कामस्य विषयाल्पत्वरूपापकर्षेसति तन्निवृत्तिरूपस्याकामहतत्वस्योत्कर्षरूपो विशेषो भवतीति । तथा चाकामहतत्वोत्कर्षादुत्तरोत्तरमानन्दोत्कर्षः श्रोत्रियाणामिति स्थितम् ।
एवं यावद्यावदकामहतत्वोत्कर्षस्तावत्तावच्छ्रोत्रियानन्दोत्कर्ष इति श्रुत्यर्थे स्थिते फलितं श्रुतितात्पर्यमाह –
अत इति |
तद्विशेषत इति ।
अकामहतत्वविशेषतः श्रोत्रियेष्वान्दोत्कर्षोपलब्ध्या सर्वात्मना कामोपशमे सति सर्वोत्कृष्टः परमानन्दः प्राप्तो भवेदिति यतः प्रतिभाति अतः अकामहतग्रहणं निरतिशयस्याकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थमिति गम्यत इत्यर्थः ।
'ते ये शतं मनुष्यगन्धर्वाणामानन्दाः’ इत्यादिपदजातं न व्याख्येयं प्रथमपर्यायव्याख्यानेन गतार्थत्वादित्याशयेनाह –
व्याख्यातमन्यदिति ।
जातित इति ।
जन्मत इत्यर्थः । एतदुक्तं भवति – कल्पादावेव देवलोके जाता गायका देवगन्धर्वा इति ।
कर्मदेवत्वं विवृणोति –
ये वैदिकेनेति ।
केवलेनेति ।
उपासनासमुच्चयरहितेनेत्यर्थः । देवानपियन्ति देवैश्चन्द्रादिभिरधिष्ठिताल्लोँकान्यान्तीत्यर्थः ।
'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः’ इत्यत्रानन्दस्य परिमाणकथनलिङ्गेन ब्रह्मशब्दस्य हिरण्यगर्भपरत्वमाह –
समष्टीत्यादिना ।
समष्टिव्यष्टिरूपः व्याप्यव्यापकरूपः । तत्र कार्यात्मना व्याप्यः कारणात्मना व्यापक इत्यर्थः ।
तदीयव्याप्तेरवधिमाह –
संसारेति ।
ब्रह्माण्डव्यापीत्यर्थः ।
यत्रैत इति ।
यत्र हिरण्यगर्भे प्रकृता आनन्दविशेषाः पारिमाणत एकत्वमिव गच्छन्ति सांसारिकानन्दोत्कर्षसर्वस्वं यत्रेत्यर्थः । तन्निमित्त इति । तस्यानन्दोत्कर्षसर्वस्वभूतस्य फलस्य निमित्तभूतो धर्मश्च यत्र निरवधिक इत्यर्थः ।
तद्विषयमिति ।
यथोक्तफलतन्निमित्तधर्मादिविषयकं ज्ञानं च यत्र निरतिशयमित्यर्थः ।
अकामहतत्वं चेति ।
हिरण्यगर्भस्य तावत्पूर्वभूमिषु नास्ति कामना, स्वभूम्यपेक्षया तासामत्यन्तनिकृष्टत्वात् ; स्वभूमावपि नास्ति कामना, तस्याः प्राप्तत्वात् , अप्राप्तवस्तुगोचरत्वात्कामनायाः ; अतस्तस्याकामहतत्वमपि निरतिशयमित्यर्थः । तथा च स्मृतिः ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्’ इति । ननु मानुषानन्दोऽस्माकं प्रसिद्ध एव, मनुष्यस्य प्रत्यक्षत्वेन मुखप्रसादादिलिङ्गैस्तदीयानन्दस्योत्प्रेक्षितुं शक्यत्वाद् , अन्ये त्वस्माकमप्रसिद्धा इति कथं तद्द्वारा ब्रह्मानन्दानुगमसिद्धिरप्रिसिद्धेनाप्रसिद्धबोधनायोगात् , अतोऽन्यैरप्यानन्दैः प्रसिद्धैरेव भवितव्यम् , तेषां प्रसिद्धिमाश्रित्य ब्रह्मानन्दानुगम इत्ययमर्थः प्रागाचार्यैरेव दर्शितः ‘अनेन हि प्रसद्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते’ इत्यादिना । नैष दोषः, मनुष्यगन्धर्वाद्यानन्दानां प्रसिद्धिसम्पादनायैव प्रतिपर्यायं मनुष्यलोकस्थश्रोत्रियप्रत्यक्षत्वकथनात् ।
इममेवाभिप्रायं प्रकटयितुं हिरण्यगर्भानन्दस्य तत्पर्यायस्थश्रोत्रियप्रत्यक्षत्वमाह –
तस्यैष आनन्द इति ।
हिरण्यगर्भाद्यानन्दस्य ब्रह्मानन्दावगमोपायत्वसिद्ध्युपयोगितया प्रसिद्धत्वकथनपरेण ‘श्रोत्रियस्य चाकामहतस्य’ इति वाक्यजातेनान्यदपि सिध्यतीत्याह –
तस्मादिति ।
मनुष्यस्य सतः श्रोत्रियस्य श्रोत्रियत्वादित्रितयमहिम्ना हिरण्यगर्भादितुल्यानन्दकथनात्त्रीण्यप्येतान्यानन्दप्राप्तौ साधनानीति गम्यत इत्यर्थः ।
त्रिषु मध्ये विशेषमाह –
तत्रेति ।
सर्वेषां श्रोत्रियाणां श्रोत्रियत्वावृजिनत्वे नियते साधारणे, अकामहतत्वमेवोत्कृष्यमाणं सदानन्दोत्कर्षे कारणमित्यतः प्रकृष्टसाधनता अकामहतत्वस्यावगम्यत इत्यर्थः ।
यदुक्तं प्रकारान्तरेण ब्रह्मानन्दानुगमप्रदर्शनाय लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्रेति, तमेव प्रकारान्तरेण ब्रह्मानन्दानुगममिदानीं लौकिकानन्दानां ब्रह्मानन्दमात्रात्वप्रदर्शनपूर्वकं दर्शयति –
तस्येत्यादिना ।
तस्य ब्रह्मण इति सम्बन्धः । आनन्द इत्यनन्तरमपिशब्दोऽध्याहर्तव्यः । स च पूर्वोक्तानन्दानामनुक्तानां च सङ्ग्रहार्थ इति मन्तव्यम् ।
सर्वेषामेव लौकिकानन्दानां ब्रह्मानन्दैकदेशत्वे मानमाह –
एतस्यैवेति ।
अन्यानीति ।
ब्रह्मणः सकाशादात्मानमन्यत्वेन मन्यमानानि भूतानि प्राणिन इत्यर्थः ।
लौकिकानन्दस्य परमानन्दमात्रात्वे मानसिद्धे फलितमाह –
स एष इति ।
पूर्वोक्तो लौकिकानन्दो यस्य मात्रा यस्मादुपाधितो भिन्नो यत्रैवोपाधिविलये पुनरेकतां गच्छति स आनन्दः स्वाभाविको नित्योऽस्तीत्यत्र हेतुमाह –
अद्वैतत्वादिति ।
'अथ यदल्पं तन्मर्त्यम्’ इति श्रुत्या परिच्छिन्नस्यानित्यत्वप्रतिपादनादद्वैतत्वं नित्यत्वसाधने समर्थमिति मन्तव्यम् ।
ननु ब्रह्मानन्दस्याद्वैतत्वमसिद्धम् ‘रसं ह्येवायं लब्ध्वानन्दी भवति’ इत्यानन्दानन्दिभावेन ब्रह्मानन्दजीवयोर्भेदावगमादित्यत आह –
आनन्दानन्दिनोश्चेति ।
च-शब्दः शङ्कानिरासार्थः । अत्रेत्यस्य विद्याकाल इत्यर्थः । ततश्चाविद्याकाल एवाविद्यिको भेदो न विद्याकाले विद्यया भेदकोपाधेरविद्याया निरस्तत्वादित्यर्थः । एतदुक्तं भवति - ब्रह्मानन्दजीवयोरविद्याकल्पितो विभागो न वास्तवः, अतो ब्रह्मानन्दस्य नाद्वैतत्वहानिरिति ॥