एवम् ‘सैषानन्दस्य मीमांसा भवति’ इत्युपक्रम्य श्रुत्या मात्राभूतसातिशयानन्दोपन्यासद्वारा सूचितया ‘लौकिकानन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्’ ‘लौकिकानन्दो यस्य मात्रा समुद्राम्भस इव विप्रुट्’ इत्यादिलक्षणया मीमांसया ‘अस्त्यद्वितीयः परमानन्दः’ इति निर्णयः कृत इति प्रदर्श्य इदानीमुत्तरवाक्यतात्पर्यमाह –
तदेतदिति ।
तदेतत् ब्रह्मानन्दस्याद्वितीयत्वस्वाभाविकत्वादिलक्षणं मीमांसाफलं मीमांसया निर्णीतमित्यर्थः ।
'स यश्चायम्’ इत्यत्र स इति शब्देन गुहानिहितवाक्ये तद्वृत्तिस्थानीये प्रवेशवाक्ये च निर्दिष्टः प्रत्यगात्मा निर्दिश्यत इत्याह –
यो गुहायामिति ।
आकाशे या गुहा तस्यामित्यन्वयः । योऽन्नमयान्तमाकाशादिकार्यं सृष्ट्वा तदेव कार्यमनुप्रविष्ट इत्यर्थः ।
अयमित्यनेन तस्यापरोक्षत्वमुच्यत इत्याशयेनाह –
कोऽसावित्यादिना ।
पुरुष इति ।
शरीर इत्यर्थः ।
श्रोत्रियप्रत्यक्ष इति ।
यद्यपि लौकिकानन्दानामेव पूर्वत्र श्रोत्रियप्रत्यक्षत्वं निर्दिष्टं न परमानन्दस्य, तथापि तत्र परमानन्दस्याकामहतविद्वच्छ्रोत्रियप्रत्यक्षत्वमर्थान्निर्दिष्टमिति तदभिप्रायोऽयं ग्रन्थः, अकामहतत्वस्य निरतिशयोत्कर्षे सति विदुषः परमानन्दप्राप्तेः प्रागुपपादितत्वादिति मन्तव्यम् । यो विद्वत्प्रत्यक्षत्वेन ब्रह्मादिसर्वभूतोपजीव्यानन्दानुगम्यत्वेन च प्रकृतः परमानन्दः, सोऽसावादित्यदेवताधेयत्वेन निर्दिश्यत इत्यर्थः ।
स एक इति ।
‘स यश्चायं पुरुषे’ इति वाक्यनिर्दिष्टस्य बुद्ध्यवच्छिन्नजीवरूपानन्दस्य ‘यश्चासावादित्ये’ इति वाक्ये आदित्यान्तःस्थत्वेन निर्दिष्टस्य मायावच्छिन्नपरमानन्दस्य च ‘स एकः’ इति वाक्येनोपाधिद्वयनिरसनपूर्वकं स्वाभाविकमभिन्नत्वमुपदिश्यते, अस्मिन्नर्थे इत्थमक्षरयोजना - सः द्विविधोऽप्यानन्दो वस्तुत एक एवेति । भिन्नप्रदेशस्थयोर्घटाकाशाकाशयोराकाशस्वरूपेण यथैकत्वमिति दृष्टान्तार्थः ।
ननु ‘स यश्चायं पुरुषे’ इति सामान्यतः शरीरस्थत्वेनात्मनो निर्देशो न युक्तः प्रसिद्धिविरोधादिति शङ्कते –
नन्विति ।
तन्निर्देश इति ।
तस्यात्मनोऽध्यात्मनिर्देशे विवक्षिते सतीत्यर्थः ।
कथं तर्हि निर्देशः कर्तव्य इत्याकाङ्क्षायामाह –
यश्चायं दक्षिण इति ।
'य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ इति श्रुत्यन्तरे दक्षिणाक्षिग्रहणस्य प्रसिद्धत्वात्तदैकरूप्यायात्रापि तथा निर्देश एव युक्त इत्यर्थः ।
तत्र सोपाधिकस्य ब्रह्मण उपासनार्थं स्थानविशेषनिर्देशेऽपि नात्र तदपेक्षेति परिहरति –
न, पराधिकारादिति ।
निरुपाधिकात्मप्रकरणादित्यर्थः ।
हेतुं साधयति –
परो हीत्यादिना ।
ननु परस्य प्रकृतत्वेऽपि ‘यश्चासावादित्ये’ इत्यादौ सोपाधिकमुपास्यमेव निर्दिश्यतामिति ; नेत्याह –
न ह्यकस्मादिति ।
परमात्मनि प्रकृते सति ‘स यश्चायम्’ इत्यादौ प्रकृतपरमात्माकर्षकसर्वनामश्रुतिषु च सतीषु कथमकस्माद्धेतुं विनात्र सोपाधिको निर्देष्टुं युक्तः तस्याप्रकृतत्वादित्यर्थः ।
ननु तर्हि परस्यैव ध्यानार्थमादित्यादिस्थाननिर्देशोऽत्रास्तु ; नेत्याह –
परमात्मविज्ञानं चेति ।
च-शब्दः शङ्कानिरासार्थः । निरुपाधिकस्य ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यादौ ध्याननिषेधादत्र तद्ध्यानविवक्षायां मानाभावाच्चेत्यर्थः ।
उपसंहरति –
तस्मादिति ।
पराधिकारात्पर एव निर्दिश्यते नापरः, अतो नाक्षिस्थाननिर्देशापेक्षेत्यर्थः ।
इतश्चात्र पर एव निर्दिश्यत इत्याह सिद्धान्ती –
नन्वानन्दस्येति ।
फलस्वरूपमेव कथयति –
अभिन्नस्वभावक इत्यादिना ।
न च मीमांसाफलस्यानुपसंहारे कानुपपत्तिरिति वाच्यम् , मीमांस्यत्वेनोपक्रान्तस्यानन्दस्य ‘स यश्चायम्’ इत्यादावद्वितीयत्वेनोपसंहाराभावे चरमपर्यायनिर्दिष्टे विषयविषयिसम्बन्धजनिते सातिशये हिरण्यगर्भानन्द एव मीमांसापर्यवसानापत्त्या तदद्वितीयत्वनिर्णयालाभलक्षणाया अनुपपत्तेः सत्त्वात् ।
सिद्धान्त्येव स्वपक्षे पुरुष इत्याद्यविशेषतो निर्देशस्यानुकूल्यमाह –
ननु तदनुरूप एवेति ।
'स यश्चायम्’ इति वाक्यं जीवानुवादकम् , आदित्यवाक्यमीश्वरानुवादकम् , ‘स एकः’ इति तु तयोर्भिन्नाधिकरणस्थयोरुपाधिविशेषनिरसनद्वारा एकत्वबोधकमिति रीत्या निर्देशस्यानुरूप्यम् । ते च भिन्ने अधिकरणे आदित्यः शरीरं चेति मन्तव्यम् ।
अत्रोपसनविवक्षाभावे सत्यादिग्रहणं विफलम् , ‘तत्त्वमसि’ इत्यादाविवेश्वरस्य शब्दान्तरेणैव निर्देशसम्भवादिति मत्वा शङ्कते –
नन्वेवमपीति ।
उक्तरीत्या परमात्मनिर्देशादेरावश्यकत्वेऽपीत्यर्थः । आदित्यदेवताया उत्कृष्टोपाधिकत्वात्तदन्तःस्थत्वेन परमात्मनो निर्देशे तस्याप्युत्कृष्टोपाधिकत्वेनार्थादुत्कर्षो निर्दिष्टो भवति ; तथा च ‘स यश्चायम्’ इत्यनेन निकृष्टमात्मानमनूद्य ‘यश्चासावादित्ये’ इत्यनेनोत्कृष्टमीश्वरं चानूद्य ‘स एकः’ इत्यनेन तयोर्निरुपाधिकपरमानन्दस्वरूपेणैकत्वे बोधिते सत्युपाधितत्कृतोत्कर्षापकर्षाणामपोहो भवति ।
एवमुत्कर्षप्रत्यायनद्वारा तदपोहप्रयोजनकत्वादादित्यग्रहणं नानर्थकमिति परिहरति –
नानर्थकमिति ।
उत्कर्षस्यापकर्षनिरूपकत्वादुत्कर्षापोहे निकर्षापोहोऽपि भवतीति मत्वा निकर्षापोहोऽप्यादित्यग्रहणप्रयोजनत्वेनोक्त इति मन्तव्यम् ।
आदित्यदेवतोपाधेरुत्कृष्टत्वे मानमाह –
द्वैतस्य हीति ।
अत्र सवितृशब्दो मण्डलपरः तदन्तर्गतश्च समष्टिलिङ्गदेहोऽपि विवक्षितः । तत्र मण्डलात्मकः सविता मूर्तस्य पर उत्कर्षः सार इति यावत् , तथा तदन्तर्गतो लिङ्गात्मा अमूर्तस्य पर उत्कर्षः, तदुभयमादित्यदेवतोपाधिभूतं मूर्तामूर्तलक्षणस्य द्वैतस्य सारभूतमित्येतद्वाजसनेयके प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।
ननु ब्रह्मात्मैकत्वविज्ञानेनोत्कर्षाद्यपोहे सति किं फलतीत्याशङ्क्याह –
स चेदिति ।
सवित्रादिद्वारा बुद्धिस्थः सर्वोत्कृष्टः परमेश्वर इत्यर्थः । तथा च सोपाधिक ईश्वरः स्वोपाधिभूतं विशेषं परित्यजन् शरीरगतलिङ्गात्मकजीवोपाध्युपमर्दनेन परमानन्दमपेक्ष्य परमानन्दस्वरूपेण सम एकत्वमापन्नो भवति चेदित्यर्थः ।
ततः किमित्यत आह –
न कश्चिदिति ।
निर्विशेषपरमानन्दब्रह्मणा सहैकत्वलक्षणम् ‘स एकः’ इति वाक्ये प्रकृतां गतिं गतस्य विदुषः सगुणमुक्तस्येवोत्कर्षो वा संसारिण इवापकर्षो वा न कश्चिदस्तीति सिध्यतीत्यर्थः ।
ननु निकर्षस्य हेयत्वेऽपि परममुक्तस्योत्कर्षः किमिति हेयः, सूर्यादेरिवोत्कर्षं प्राप्तस्यापि तस्य कृतार्थत्वसम्भवात् , तथा चोत्कर्षापोहप्रयोजनकमादित्यग्रहणमसङ्गतमिति ; नेत्याह –
अभयमिति ।
मुक्तस्योत्कर्षप्राप्त्युपगमे तत्प्रयोजकेनोपाधिनापि भवितव्यम् , तथा च सोपाधिकस्य मुक्तस्य परमानन्दरूपादीश्वराद्भेदावश्यम्भावात्सूर्यवाय्वादेरिव भयमावश्यकमित्येकत्वज्ञानेन मुक्तिं प्राप्तस्य ‘अभयं प्रतिष्ठां विन्दते’ इति वचनमनुपपन्नमेव स्यात् , ततो न विदुष उत्कर्षप्राप्तिरिष्टेति तदपोहप्रयोजनकमादित्यग्रहणमं सङ्गतमेवेति भावः ॥