तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ॥ ५ ॥
अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः । कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृतः अनुप्रश्न एकः ; द्वावन्यानुप्रश्नौ विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिविषयौ ; तत्र विद्वान्समश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यः ; तदपाकरणायोच्यते । मध्यमोऽनुप्रश्नः अन्त्यापाकरणादेव अपाकृत इति तदपाकरणाय न यत्यते । स यः कश्चित् एवं यथोक्तं ब्रह्म उत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीत्येवं वेत्तीति एवंवित् ; एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् । स किम् ? अस्माल्लोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो हि अयं लोकः, तस्मादस्माल्लोकात्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा एतं यथाव्याख्यातम् अन्नमयमात्मानमुपसङ्क्रामति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति, सर्वं स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः । ततः अभ्यन्तरमेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम् । अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसङ्क्रामति । अथादृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते ॥

वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –

अस्ति नास्तीत्यादिना ।

व्याख्यातो निराकृत इत्यर्थः ।

कथं निराकृत इत्याकाङ्क्षायामाह –

कार्येति ।

कार्यं च रसलाभश्च प्राणनं चाभयप्रतिष्ठा च भयदर्शनं च, एतान्येवोपपत्तय इत्यर्थः ।

विषयाविति ।

अविशिष्टाविति शेषः ।

उच्यत इति ।

'स य एवंवित्’ इत्यादिना ब्रह्मप्राप्तिर्विदुष उच्यत इत्यर्थः ।

ननु तर्हि मध्यमोऽनुप्रश्नो विशिष्येत ; नेत्याह –

मध्यम इति ।

विदुषो ब्रह्मप्राप्तिप्रतिपादनेनान्त्यप्रश्नापाकरणे कृते सति अर्थादविदुषस्तत्प्राप्तिर्नास्तीति निर्णयलाभान्मध्यमप्रश्नो निराकर्तव्यत्वेन नावशिष्यते, अतो न तदपाकरणाय श्रुत्या प्रयत्नः कृत इत्यर्थः । इदमुपलक्षणम् ; अविदुषो ब्रह्मप्राप्तिप्रश्नस्यातिफल्गुत्वाच्च तदपाकरणाय श्रुत्या न यत्यत इत्यपि द्रष्टव्यम् ।

वेदनस्योत्कर्षादिरहिताद्वितीयस्वप्रकाशब्रह्मविषयकत्वलाभे हेतुमाह –

एवंशब्दस्येति ।

लोकशब्दस्य प्रत्यक्षसिद्धभोग्यमात्रपरत्वं व्यावर्तयति –

दृष्टादृष्टेति ।

'अस्माल्लोकात्प्रेत्य’ इत्यनेन सर्वस्मात्कर्मफलाद्वैराग्यं विवक्षितमित्याह –

निरपेक्षो भूत्वेति ।

अत्र येन क्रमेणैव वेदनं प्राप्तं तत्क्रमानुवादपूर्वकमेवं वेदनफलमुच्यत इति प्रतीयते, तां प्रतीतिमाश्रित्य व्याख्यानमिदम् ; विवक्षितं तु व्याख्यानं करिष्यमाणचिन्तावसाने भविष्यतीति मन्तव्यम् ।

एवं विरक्तो भूत्वा प्रथमं पुमान्किं करोति ? तत्राह –

एतमिति ।

यथोक्तमिति ।

'स वा एष पुरुषोऽन्नरसमयः’ इत्यत्रान्नरसविकारत्वेनोक्तमित्यर्थः । विषयजातमित्यनेन व्यष्टिपिण्डव्यतिरिक्तः समष्टिपिण्डात्मा विराडुच्यते ।

विराजं व्यष्टिपिण्डव्यतिरिक्तं न पश्यति चेत्कथं तर्हि पश्यतीत्याकाङ्क्षायां तद्दर्शयन्नुपसङ्क्रामतीत्यस्यार्थमाह –

सर्वमिति ।

समष्टिस्थूलात्मानं विराजमन्नमयात्मानं पश्यति समष्टिव्यष्ट्यात्मकमन्नलक्षणं ब्रह्माहमिति पस्यतीति यावत् ।

तत इति ।

विराडात्मकादन्नमयकोशादान्तरमित्यर्थः ।

एतमिति ।

'अन्योऽन्तर आत्मा प्राणमयः’ इत्यत्र प्रकृतमित्यर्थः ।

अविभक्तमिति ।

सूत्रात्मना एकीभूतमित्यर्थः । अत एव सर्वपिण्डव्यापित्वरूपं सर्वान्नमयात्मस्थत्वविशेषणं प्राणमयस्योपपद्यते । तथा चान्नमयात्मदर्शनानन्तरं तद्धित्वा यथोक्तं प्राणमयात्मानं पश्यतीत्यर्थः । एवमुत्तरत्रापि योजनीयम् ।

उपसङ्क्रामतीति ।

एवं क्रमेणानन्दमयमात्मानमुपसङ्क्रम्यानन्तरमानन्दमयं प्रति पुच्छप्रतिष्ठाभूतमुत्कर्षादिरहितं सत्यज्ञानानन्तलक्षणं ब्रह्माहमस्मीति पश्यंस्तदेव प्राप्नोतीति भावः ।

अथेति ।

एवंविदेवं वेदनानन्तरमित्यर्थः ॥