'अदृश्येऽनात्म्ये’ इत्यादिनिषेधश्रुतिमभिप्रेत्याह –
निर्विकल्पादिति ।
सर्वविशेषरहितादित्यर्थः ।
'सत्यं ज्ञानमनन्तम्’ इति लक्षणवाक्यमभिप्रेत्याह –
यथोक्तलक्षणादिति ।
आनन्त्यविवरणपराम् ‘आत्मन आकाशः सम्भूतः’ इति सृष्टिश्रुतिमभिप्रेत्याह –
अद्वयादिति ।
यद्वा विशेष्यमाह –
अद्वयादिति ।
ब्रह्मण इत्यर्थः ।
मन्त्रे ‘आनन्दं ब्रह्मणः’ इति भेदनिर्देशः ‘राहोः शिरः’ इतिवदौपचारिक इति मत्वाह –
आनन्दात्मन इति ।
आनन्दस्वरूपादित्यर्थः । ‘आनन्दादात्मनः’ इति व्यस्तपाठेऽप्ययमेवार्थः ।
अभिधानानि वाचकपदानि । तेषां मुख्यविषयत्वमाह –
द्रव्यादीति ।
गुणादिसङ्ग्रहार्थमादिग्रहणम् । सविशोषवस्तुविषयाणीति निष्कर्षः ।
ननु तेषां निर्विशेषे ब्रह्मणि प्राप्तेरप्रसक्तत्वात्कथं प्रतिषेध इत्याशङ्क्याह –
वस्तुसामान्यादिति ।
वस्तुत्वसामान्यादित्यर्थः ।
नन्वप्रकाश्येत्यनुपपन्नम् उपनिषच्छब्दैरवश्यं निर्विकल्पस्य ब्रह्मणः प्रकाशनीयत्वात् अन्यथा ‘तं त्वौपनिषदम्’ इत्युपनिषत्प्रकाश्यत्वश्रुतिविरोधप्रसङ्गादित्याशङ्क्य प्राप्तिनिषेधश्रुतेस्तात्पर्यमाह –
स्वसामर्थ्याद्धीयन्त इति ।
सामर्थ्यं शक्तिः, तद्विषयत्वमेवात्र निषिध्यते, न लक्षणाविषयत्वमपि ; अतो न श्रुत्यन्तरविरोध इति भावः । मनसा सहाप्राप्येति सम्बन्धाद्ब्रह्मणि मनःप्रकाश्यत्वमपि निषिध्यते, स्वप्रकाशस्य तस्य मनःप्रकाश्यत्वायोगात् । तत्र सहशब्देन वाचां मनसश्च सहभाव उच्यते ।
तमुपपादयति –
मन इतीत्यादिना ।
मन इति पदेन प्रत्ययोऽभिधीयते, स च प्रत्ययो ज्ञानसामान्यरूपो न भवति । किं तु वाच इत्यनेन समभिव्याहाराच्छब्दशक्तिजनितं विज्ञानं पर्यवस्यति ।
ततः किमत आह –
तच्चेति ।
यत्र शब्दशक्तिविषयत्वं प्रथममेव प्रवृत्तमस्ति तत्र तदनु शब्दशक्तिजनितविज्ञानप्रकाश्यत्वमपि भवति ; यत्र च तादृशज्ञानप्रकाश्यत्वं तत्र शब्दशक्तिविषयत्वमप्यस्त्येवेति कृत्वा सहभाव उक्त इति निष्कर्षः । तदुक्तं वार्त्तिके - ‘उदपादि च यच्छब्दैर्ज्ञानमाकारवद्धियः । स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते’ इति । धियः अन्तःकरणस्य परिणामरूपं सप्रकारं यज्ज्ञानं शब्दैः शक्त्या उत्पादितम् , तदित्यर्थः । स्वतो बुद्धमित्यस्य स्वप्रकाशमित्यर्थः ।
अतीन्द्रियेऽपीति ।
जगत्कारणाद्यतीन्द्रियार्थेऽपीत्यर्थः ।
तस्मादिति ।
उक्तरीत्या सहैव प्रवृत्तिदर्शनादित्यर्थः ।
एवं वाङ्मनसयोः सहैव प्रवृत्तिमुक्त्वा निवृत्तिरपि सहैवेत्याह –
तस्मादित्यादिना ।
अप्रत्ययविषयादिति ।
प्रत्ययविषयत्वायोग्यादित्यर्थः ।
अनभिधेयादिति ।
शब्दशक्त्ययोग्यादित्यर्थः ।
उभयत्र हेतुं सूचयति –
अदृश्यादिविशेषणादिति ।
निर्विशेषत्वात्स्वप्रकाशत्वाच्चेत्यर्थः ।
सर्वप्रकाशनसमर्थेनेति ।
अग्नितप्तायःपिण्डवच्चैतन्यव्याप्तं वृत्तिज्ञानं समस्तस्य सविशेषस्य प्रकाशने समर्थमपि स्वप्रकाशब्रह्मप्रकाशने सामर्थ्याभावान्निवर्तत इति भावः । शब्दशक्तिजनितविज्ञानस्य निर्विशेषब्रह्मगोचरत्वयोग्यताराहित्यात्तदप्रकाश्यैव निवृत्तिरित्यपि मन्तव्यम् ।
अस्यानन्दस्य पारोक्ष्यवारणाय विद्वत्प्रत्यक्षत्वमाह –
श्रोत्रियस्येति ।
अवृजिनत्वं पापराहित्यम् ।
आनन्दमीमांसावाक्यनिर्दिष्टश्रोत्रियनिरासायात्राकामहतत्वं निरङ्कुशमित्याशयेनाह –
सर्वैषणेति ।
सातिशयानन्दवैलक्षण्यं प्रकृतानन्दस्य दर्शयति –
विषयेति ।
विषयादिसम्बन्धजनितत्वाभावेऽपि गगनादेरिवोत्पत्तिमाशङ्क्याह –
स्वाभाविकमिति ।
अनादिमित्यर्थः ।
अनादेरप्यविद्यादेरिव नाशमाशङ्क्याह –
नित्यमिति ।
सर्वेषु शरीरेषु तस्यैक्यमाह –
अविभक्तमिति ।
अत एवास्यानन्दस्य परमत्वमित्याशयेनाह –
परमानन्दमिति ।
यथोक्तेनेति ।
अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्याद्युक्तेन प्रकारेण यथोक्तमानन्दमात्मत्वेन साक्षात्कृतवानित्यर्थः ।
भयनिमित्ताभावात्कुतोऽपि न बिभेतीत्युक्तमेव विशदयति –
न हीति ।
विदुषो भयनिमित्तं वस्त्वन्तरं नास्तीत्यत्र युक्तिमाह –
अविद्ययेत्यादिना ।
ततः किम् ? अत आह –
विदुषस्त्विति ।
भयनिमित्तस्य अविद्याकार्यस्य नाशादिति सम्बन्धः ।
अधिष्ठानयाथात्म्यगोचरविद्यया अध्यस्तवस्तुनाशे दृष्टान्तमाह –
तैमिरिकेति ।
तैमिरिकदृष्टस्य द्वितीयचन्द्रस्य चन्द्रैकत्वविद्यया नाशवदित्यर्थः ।
ननु विशुद्धब्रह्मप्रतिपादकोऽयं मन्त्रः कथमब्रह्मणि मनोमये उदाहृतः कथं वा तत्र भयनिमित्तनिषेधमकृत्वा भयमात्रनिषेधः कृत इत्याशङ्क्याह –
मनोमये चेति ।
मनोमयशब्दवाच्यस्यास्मदादिमनसो ब्रह्मविज्ञानसाधनत्वात्तत्र मनसि ब्रह्मत्वमध्यारोप्य मनोमये चायं मन्त्र उदाहृत इति योजना ; अतो नोदाहरणानुपपत्तिरिति भावः ।
तत्स्तुत्यर्थमिति ।
मनोमयोपासनस्य ब्रह्मविद्याशेषत्वेन फलस्याविवक्षितत्वात्तदुपासनस्य साक्षाद्भयनिमित्तनिरसने सामर्थ्याभावाच्च मनोमयोपासनस्तुतये तत्र भयमात्रं निषिद्धमित्यर्थः ।
प्रकृते तद्वैषम्यमाह –
इह त्विति ।
अद्वैते विद्याविषये ब्रह्मणि द्वैतावशेषासम्भवाद्भयनिमित्तनिषेध उपपद्यत इत्यर्थः ।
भयनिमित्तनिषेधमाक्षिपति –
नन्वस्तीति ।
परिहरति –
नैवमिति ।
विदुषः साध्वकरणं पापकरणं च भयकारणमस्तीत्येवं न वक्तव्यमित्यर्थः ।
तत्र हेतुं पृच्छति –
कथमिति ।
श्रुत्या हेतुमाह –
उच्यत इत्यादिना ।
यथोक्तमिति ।
'आनन्दं ब्रह्मणो विद्वान् ‘ इत्यादिपूर्वग्रन्थे प्रकृतमित्यर्थः ।
कथं पुनरिति ।
साध्वकरणादिकं कथं सन्तापयत्सदेवंविदमेव न सन्तापयतीति प्रश्नार्थः ।
अहमेवमिति ।
अविदुषामासन्ने मरणकाले एवं श्रुत्युक्तप्रकारेण सन्तापो भवतीति योजना ।
एवमविदुषां पापकरणनिमित्तकोऽपि पश्चात्सन्तापो भवतीत्याह –
तथेति ।
विदुषस्तदभावमाह –
ते एते इति ।
एवंशब्दार्थमेव विवृणोति –
यथेति ।
पुण्यपापयोरात्ममात्रत्वेन दर्शनं विदुषः सन्तापाभावे हेतुरिति प्रश्नपूर्वकमाह –
कस्मात्पुनरित्यादिना ।
एते इति सर्वनाम्नः प्रकृतसाध्वकरणादिपरत्वं व्यावर्तयति –
साध्वसाधुनी इति ।
तापहेतू इतीति इति-शब्दः प्रकारवचनः । अकरणकरणद्वारा तापहेतुत्वेनोक्ते इत्यर्थः ।
नन्वत्र एते आत्मानमिति सामानाधिकरण्यात्पुण्यपापयोरात्माभिन्नत्वं भाति, ततश्चात्माभिन्नत्वकृतं पुण्यपापयोः प्रीणनं बलनं वा वाक्यार्थः स्यात् ; न च तत्सम्भवति, तयोः प्रीत्यादिमत्त्वायोगात् ; न चात्मनः पुण्यपपाभिन्नत्वबोधनद्वारा तत्कृतं प्रीणनादिकमात्मनो भवतीति वाक्यार्थ इह विवक्षित इति वाच्यम् , आत्मनि तापककर्मात्मकत्वस्य प्रीत्यादिहेतुत्वासम्भवात् , तस्य प्रीतिबलनहेतुत्वोक्तावपि भयनिवृत्तिहेतुत्वानभिधानाच्चेत्याशङ्क्य विवक्षितं वाक्यार्थमाह –
परमात्मभावेनोभे पश्यतीत्यर्थ इति ।
'स य एवं विद्वानेते आत्मानं स्पृणुते’ इति वाक्योक्तं पुण्यपापयोरात्ममात्रत्वदर्शनमुत्तरवाक्येनानूद्य तस्य विदुषि तापाभावहेतुत्वं प्रतिपाद्यते हि-शब्दयुक्तत्वादुत्तरवाक्यस्येत्याशयेनाह –
उभे इत्यादिना ।
एवकारमात्मपदेन योजयति –
आत्मस्वरूपेणैवेति ।
पश्यतीति शेषः ।
ननु ज्योतिष्टोमकलञ्जभक्षणादिलक्षणं कर्मास्ति प्रकाशत इत्यनुभवानुरोधात्पुण्यपापयोः सर्वानुगतः सच्चिदंश इतरव्यावृत्तो जडांशश्चास्ति, तथा च चिज्जडोभयरूपयोस्तयोः कथं चिदेकरसात्मभावेन दर्शनमित्याशङ्क्याह –
स्वेनेति ।
स्वीयं यद्विशेषरूपं जडांशः तेन हीने कृत्वा अनुसन्धायेत्यर्थः ।
आत्मानं स्पृणुत एवेति ।
पुण्यपापे चिदंशाभिप्रायेणात्मरूपेणैव पश्यतीत्यर्थः ।
एष एते उभे आत्मानमेव स्पृणुत इत्युक्तम् , तत्र एतच्छब्दार्थं पृच्छति –
क इति ।
श्रुत्योत्तरमाह –
य इति ।
एवमित्यस्य व्याख्यानम् –
यथोक्तमिति ।
'सत्यं ज्ञानम् ‘ इत्यादिमन्त्रब्राह्मणजातेन यथानिरूपितमित्यर्थः ।
यथोक्तं स्वरूपमेव सङ्क्षिप्याह –
अद्वैतमानन्दमिति ।
यः सर्वात्मकमानन्दरूपं ब्रह्मात्मत्वेन वेद स पुण्यपापे अप्यात्मस्वरूपेणैव पश्यतीत्यर्थः । तस्येत्यतः प्राक्तस्मादिति शेषः, हि यस्मादित्युपक्रमात् ।
ननु नास्तिकतमस्य मरणकाले संनिहितेऽपि नास्ति साध्वकरणादिकृतः सन्तापः, तावता पारलौकिकं भयं तस्य परिहृतं न भवति ; तथा सर्वात्मैकत्वदर्शिनः पुण्यपापयोरप्यात्मभावं पश्यतो मास्त्विदानीं भयम् , पारलौकिकं तु कर्मनिमित्तं भयं भविष्यतीत्यविज्ञातमेव ; नेत्याह –
निर्वीर्य इति ।
भर्जितबीजवदिति भावः ।
निर्वीर्यत्वफलमाह –
जन्मारम्भके न भवत इति ।
अतो न विदुषः पारलौकिकभयप्रसक्तिरित्यर्थः ।
इत्युपनिषदित्यस्यार्थमाह –
इतीत्यादिना ।
इतिशब्दपरामृष्टा यथोक्ता ब्रह्मविद्या उपनिषत्परमरहस्यम् , तच्च परमरहस्यमस्यां वल्ल्यां दर्शितमित्यन्वयः ।
परमरहस्यत्वे हेतुः –
यस्मादेवं तस्मादिति ।
यस्माद्यथोक्ता विद्या एवं मुक्तिफला तस्मादित्यर्थः । इतरासां सर्वासां विद्यानां रहस्यभूतानामपि न मुक्तिफलकत्वम् , अतो न परमत्वमिति भावः ।
उपनिषत्पदस्यार्थान्तराभिप्रायेणाह –
परं श्रेय इति ।
अस्यां विद्यायां सत्यामस्य विदुषः परं श्रेयो ब्रह्मस्वरूपभूतम् उप सामीप्येन प्रत्यक्त्वेन निषण्णं नितरां स्थितं भवति यतः, अत इयं विद्या उपनिषदित्यर्थः । इति-शब्दो ब्रह्मवल्लीविवरणसमाप्त्यर्थः ॥