तद्धीति ।
अन्नं हीत्यर्थः ।
अन्नाद्ध्येवेति ।
इदं वाक्यमानन्दवल्लीगतेन ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इति वाक्येन समानार्थमिति नास्य व्याख्याने व्याप्रियते ।
तस्मादिति ।
ब्रह्मलक्षणोपेतत्वादित्यर्थः ।
'तद्विज्ञाय’ इत्यस्यार्थमाह –
स एवमिति ।
उपपत्त्या चेति ।
अन्नशब्दितस्य विराजः श्रुतिषूपास्यत्वश्रवणादब्रह्मण उपास्यत्वायोगादित्याद्युपपत्त्या चेत्यर्थः । उपपत्त्या चान्नं ब्रह्मेति विज्ञायेति योजना ।
उत्पत्तिदर्शनादिति ।
ब्रह्मणस्तावदुत्पत्तिर्नास्ति तस्य नित्यत्वश्रवणात् अन्नस्य च हिरण्यगर्भादुत्पत्तेः श्रुतिषु दर्शनात्पृथिव्यादिस्थूलभूतात्मकस्यान्नस्य भूतकारणत्वस्यापि दर्शनाच्चेत्यादिकमालोचयतस्तस्यान्नं ब्रह्म न वेति संशय उत्पन्न इत्यर्थः ।
असकृत् ‘तपसा ब्रह्म विजिज्ञासस्व’ इत्युपदेशस्य तात्पर्यप्रदर्शनपूर्वकमर्थमाह –
तपस इत्यादिना ।
निरतिशयमिति ।
सम्पूर्णमित्यर्थः ।
तावत्तप एवेति ।
विचारं विना जिज्ञासानिवृत्त्ययोगादिति भावः । श्रुतौ ‘तपो ब्रह्म’ इति वाक्यं विधित्सितस्य तपसो ब्रह्मत्वेन स्तुत्यर्थमिति मन्तव्यम् ।
प्रथमपर्यायस्थम् ‘तद्विज्ञाय’ इत्यादिवाक्यव्याख्यानमन्यत्राप्यतिदिशति –
एवं सर्वर्त्रेति ।
'प्राणो ब्रह्मेति व्यजानात्’ इत्यादिवाक्यमभिप्रेत्याह –
ऋज्वन्यदिति ।
स एव ऋज्वर्थः प्रदर्श्यते, तथा हि - स तपः अतप्यत, अन्नस्य सूत्रात्मरूपप्राणपरतन्त्रस्य न ब्रह्मलक्षणं निरपेक्षं सम्भाव्यते प्राणस्य तु स्वातन्त्र्यादिसत्त्वात्तत्सम्भवतीत्यादि लक्षणं विचारं कृतवान् । एवं तपः कृत्वा प्राणो ब्रह्मेति निश्चितवान् , तन्निश्चयोपयोगित्वेन प्राणे ब्रह्मलक्षणं च योजितवानित्याशयेनाह श्रुतिः प्राणाद्ध्येवेत्यादिना । अन्नस्य प्राणाधीनत्वादन्नज्जायमानानि भूतानि प्राणादेव जायन्त इत्ययमर्थो युक्त एवेति द्योतनार्थो हि-शब्दः । तद्विज्ञाय लक्षणोपपत्तिभ्यां प्राणो ब्रह्मेति विज्ञाय पुरनरेव प्राणब्रह्मणि संशयमापन्नो वरुणं पितरमुपगतवान् । संशयकारणं तु प्राणस्यापि मनःपारतन्त्र्यं ज्ञानशक्तिराहित्यादिकमूहनीयम् । इत्थं प्राणब्रह्मणि संशयमापन्नो मुख्यं ब्रह्मान्यदन्वेषमाणो भृगुः पुनर्विचारं कृतवान् - प्राणस्य मनसा निरोधदर्शनेन प्राणापेक्षया मनसः स्वातन्त्र्याज्ज्ञानशक्तिमत्त्वात् , अत एव मनसि ब्रह्मलक्षणसम्भवाच्च आधिदैविकं समष्ट्यन्तःकरणमेव ब्रह्मेति निश्चितवान् । एवं मनो ब्रह्मेति विज्ञाय पुनस्तत्रापि संशयमापन्नो वरुणमुपगतवानित्यादि समानम् । संशयकारणं त्वस्मदादिमनोवदाधिदैविकमनोऽपि करणकोटिप्रविष्टत्वाद्विज्ञानशब्दितकर्तृपरतन्त्रं भवति । न हि परतन्त्रस्य ब्रह्मलक्षणं मुख्यं सम्भवतीत्यादिदोषदर्शनमिति बोध्यम् । एवं मनसि ब्रह्मलक्षणायोगात्कर्तरि च स्वातन्त्र्येण तद्योगादित्यादिविचारं कृत्वा विज्ञानमाधिदैविकं महत्तत्त्वं ब्रह्मेति निश्चितवानित्यादि समानम् । पुनश्च विज्ञानब्रह्मण्यपि तस्य जन्मनाशादिश्रवणलिङ्गेन संशयमापन्नो वरुणमुपगतवानित्याद्यूहनीयम् ॥