शरीरप्राणोभयमन्नान्नादत्वगुणकमुपासीनस्यान्नापरिहाराख्ये व्रते विवक्षिते सत्यर्थादन्नस्तुतिरपि पूर्ववल्लभ्यत इत्याशयेनाह –
पूर्ववत्स्तुत्यर्थमिति ।
आर्थिकस्तुतिलाभप्रकारमेव दर्शयति –
तदेवेति ।
तदेवान्नमपरिह्रियमाणं सत्स्तुतं स्यादिति सम्बन्धः ।
स्तुतमित्यस्य विवरणम् –
महीकृतमिति ।
लोको ह्यन्ने शुभाशुभशब्दितौ गुणदोषौ कल्पयित्वा गुणवदन्नमुपादत्ते दोषवदन्नं परिहरति, तथा न परिहरेदिति व्रतोपदेशः । अत्राशुभपदमन्नगतावरत्वरूपदोषपरं न शास्त्रीयदोषपरम् , तस्मिन्सति पीरिहारावश्यम्भावादिति मन्तव्यम् ।
'प्राणो वा अन्नम्’ इत्यादिवाक्यव्याख्यानप्रकारमन्यत्रातिदिशति –
एवं यथोक्तमिति ।
'आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र शरीरादिसङ्घातान्तःप्रविष्टमेव जलं तेजश्च गृह्यते प्राणशरीरसमभिव्याहारात् । एवम् ‘पृथिवी वा अन्नम् , आकाशोऽन्नादः’ इत्यत्रापि पृथिव्याकाशयोः शरीरादिसङ्घातान्तःप्रविष्टयोरेव ग्रहणं विवक्षितमिति मन्तव्यम् ॥