तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोऽन्नं राद्धम् । मुखतोऽस्मा अन्नं राध्यते । एतद्वै मध्यतोऽन्नं राद्धम् । मध्यतोऽस्मा अन्नं राध्यते । एतद्वा अन्ततोऽन्नं राद्धम् । अन्ततोऽस्मा अन्नं राध्यते ॥ १ ॥
तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कञ्चन कञ्चिदपि न प्रत्याचक्षीत, वसत्यर्थमागतं न निवारयेदित्यर्थः । वासे च दत्ते अवश्यं हि अशनं दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रकारेण बह्वन्नं प्राप्नुयात् बह्वन्नसङ्ग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसः अभ्यागताय अन्नार्थिने अराधि संसिद्धम् अस्मै अन्नम् इत्याचक्षते, न नास्तीति प्रत्याख्यानं कुर्वन्ति, तस्माच्च हेतोः बह्वन्नं प्राप्नुयादिति पूर्वेण सम्बन्धः । अपि च अन्नदानस्य माहात्म्यमुच्यते - यथा यत्कालं प्रयच्छत्यन्नम् , तथा तत्कालमेव प्रत्युपनमते । कथमिति तदेतदाह - एतद्वै अन्नं मुखतः मुख्ये प्रथमे वयसि मुख्यया वा वृत्त्या पूजापुरःसरमभ्यागतायान्नार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः । तस्य किं फलं स्यादिति, उच्यते - मुखतः पूर्वे वयसि मुख्यया वा वृत्त्या अस्मै अन्नदाय अन्नं राध्यते ; यथादत्तमुपतिष्ठत इत्यर्थः । एवं मध्यतो मध्यमे वयसि मध्यमेन च उपचारेण ; तथा अन्ततः अन्ते वयसि जघन्येन च उपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम् ॥

तथेति ।

अन्नान्नादत्वगुणकत्वेन पृथिव्याकाशद्वयोपासकस्य स्वगृहे वासार्थमागतं न निवारयेदित्येतद्व्रतमित्यर्थः ।

बह्वन्नसङ्ग्रहे वसत्यर्थमागतानामप्रत्याख्यानरूपं व्रतमेको हेतुरुक्तः ; तत्रैव विद्वदाचाररूपं हेत्वन्तरमाह –

यस्मादिति ।

एवं सङ्गृहीतमन्नं सर्वदा पूजापुरःसरमेवार्थिभ्यो देयं नान्यथा ‘श्रद्धया देयम्’ इत्यादिदर्शनादित्याशयेनाह –

अपि चान्नदानस्येति ।

तत्र मानं पृच्छति –

कथमितीति ।

श्रुत्योत्तरमाह –

तदेतदाहेति ।

मुख्यामेव वृत्तिं विवृणोति –

पूजेति ॥