तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥ २ ॥
य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलम् , तस्य यथोक्तं फलमुपनमते । इदानीं ब्रह्मण उपासनप्रकारः उच्यते - क्षेम इति वाचि । क्षेमो नाम उपात्तपरिरक्षणम् । ब्रह्म वाचि क्षेमरूपेण प्रतिष्ठितमित्युपास्यम् । योगक्षेम इति, योगः अनुपात्तस्योपादानम् । तौ हि योगक्षेमौ प्राणापानयोः बलवतोः सतोर्भवतः यद्यपि, तथापि न प्राणापाननिमित्तावेव ; किं तर्हि, ब्रह्मनिमित्तौ । तस्माद्ब्रह्म योगक्षेमात्मना प्राणापानयोः प्रतिष्ठितमित्युपास्यम् । एवमुत्तरेष्वन्येषु तेन तेन आत्मना ब्रह्मैवोपास्यम् । कर्मणो ब्रह्मनिर्वर्त्यत्वात् हस्तयोः कर्मात्मना ब्रह्म प्रतिष्ठितमित्युपास्यम् । गतिरिति पादयोः । विमुक्तिरिति पायौ । इत्येता मानुषीः मनुष्येषु भवा मानुष्याः समाज्ञाः, आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । अथ अनन्तरं दैवीः दैव्यः देवेषु भवाः समाज्ञा उच्यन्ते । तृप्तिरिति वृष्टौ । वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्वाद्ब्रह्मैव तृप्त्यात्मना वृष्टौ व्यवस्थितमित्युपास्यम् ; तथा अन्येषु तेन तेनात्मना ब्रह्मैवोपास्यम् । तथा बलरूपेण विद्युति ॥

यथोक्तमिति ।

कार्यकरणसङ्घातोपचयादिद्वारा ब्रह्मविद्यासाधनत्वरूपमित्यर्थः । फलं च वेदेति सम्बन्धः ।

श्रुतौ ‘य एवं वेद’ इत्यस्यापेक्षितं पूरयति –

तस्येति ।

यथोक्तम् अन्नदानादिफलमित्यर्थः ।

'प्राणो वा अन्नम्’ इत्यारभ्याब्रह्मोपासनान्युक्तानीति सूचयति –

इदानीमिति ।

उपात्तपरिरक्षणमिति ।

स्थितपरिपालनमित्यर्थः ।

योगक्षेम इतीति ।

प्राणे योगरूपेण अपाने क्षेमरूपेण च ब्रह्म प्रतिष्ठितमित्युपास्यमिति विभागः ।

प्राणापानयोर्योगक्षमरूपेण ब्रह्मदृष्ट्यालम्बनत्वे हेतुमाह –

तौ हीति ।

ननु यदि प्राणापानाधीनौ योगक्षेमौ तर्हि तावेव प्राणापानयोर्द्रष्टव्यौ न तु ब्रह्मेत्याशङ्क्याह –

तथापीति ।

प्राणापाननिमित्तकत्वेऽपीत्यर्थः ।

ब्रह्मनिमित्ताविति ।

ब्रह्मनिमित्तावपीत्यर्थः । ब्रह्मणः सर्वफलदातृत्वस्य शास्त्रसिद्धत्वादिति भावः ।

ब्रह्मनिर्वर्त्यत्वादिति ।

ब्रह्मणः कारयितृत्वादिति भावः । विमुक्तिर्विसर्गः ।

मानुष्य इत्यस्य पर्यवसानमाह –

आध्यात्मिक्य इति ॥