ननु नित्यशुद्धादिरूपस्य विदुषः कथमन्नान्नादरूपेण सार्वात्म्यमित्याशङ्क्य विक्षेपशक्तिमदविद्यालेशमहिम्नेत्याशयेनाह –
निरञ्जनोऽपि सन्निति ।
अन्नं भोग्यजातम् , अन्नादो भोक्ता, तयोः सङ्घातो नाम भोक्तृभोग्यभावलक्षणः सम्बन्धः, तत्कर्ता, सर्वकर्मफलदातेति यावत् ।
तत्र सामर्थ्यं सूचयति –
चेतनावानिति ।
सर्वज्ञ इत्यर्थः ।
अथवेति ।
अथ वा अन्नस्यैव सङ्घातकृदिति योजना ।
नन्वनेकेषां मृत्तृणकाष्ठादीनां गृहप्रासादादिरूपेण सङ्घातकरणं दृष्टम् , तत्कथमेकस्यान्नस्यादनीयस्य सङ्घातकरणमित्याशङ्क्य विशिनष्टि –
अनेकात्मकस्येति ।
शरीरेन्द्रियादिरूपेण परिणतिद्वारा अनेकात्मकस्य तस्य संहतिकरणमुपपन्नमित्यर्थः ।
शरीरप्राणादीनां मेलनरूपं सङ्घातं किमर्थमयं करोति ? तत्राह –
पारार्थ्येनेति ।
परस्य चेतनस्यार्थो भोगादिः तत्सिद्ध्यर्थत्वेनेत्यर्थः ।
ननु शरीरादिरूपेण परिणतस्यान्नस्य परार्थत्वे सिद्धे सति तादर्थ्येन संहतिकरणमित्युपपद्यते, तदेव कुतः सिद्धम् ? अत आह –
परार्थस्येति ।
तद्विशदयति –
अन्नादार्थस्य सत इति ।
भोक्त्रर्थस्य सत इत्यर्थः । जडस्य शरीरप्राणादेः काष्ठतृणादेरिव स्वार्थत्वायोगाच्चेतनार्थत्वं वक्तव्यमिति भावः । सत्त्यस्येति सच्च त्यच्च सत्त्यम् , सन्मूर्तं त्यदमूर्तमिति मूर्तामूर्तात्मकस्य ऋतशब्दितस्य जगत उत्पत्तेः पूर्वमेवोत्पन्नो हिरण्यगर्भश्चाहमस्मीत्यर्थः ।
देवेभ्यश्च पूर्वमिति ।
हिरण्यगर्भोत्पत्त्यनन्तरमिन्द्रादिदेवेभ्यः पूर्वमुत्पन्नो विराट्पुरुषश्चाहमस्मीत्यर्थः ।
अमृतस्य नाभिश्चाहमस्मीति श्रुतौ योजनां मत्वा विवृणोति -
अमृतत्वस्येति ।
सर्वेषां मुमुक्षूणां प्राप्तव्यं यदमृतत्वं तन्मत्संस्थं मत्स्वरूपमेव मम परमानन्दस्वरूपत्वादित्यर्थः ।
ननु मां ददातीत्यनुपपन्नम् , चिदेकरसस्य विदुषो देयत्वायोगादित्याशङ्कां वारयति -
अन्नात्मनेति ।
‘अहमन्नम् ‘ इति प्रागुक्तत्वादन्नात्मना स्थित्वा तथाब्रवीदित्यर्थः ।
इत्थमित्यस्य व्याख्यानम् –
यथाभूतमिति ।
अन्नभूतमित्यर्थः । अन्नभूतं मां यो ददाति स एवं ददत्सन्मामविनष्टं यथा भवति तथावतीत्यर्थः । दातुरन्नं वर्धत इत्यभिप्रायः ।
अदत्वेति ।
लोभादिनेति शेषः ।
प्रत्यद्मीति ।
भक्षयामीत्यर्थः । वैश्वदेवावसाने प्राप्तेभ्योऽतिथिभ्यो यथाशक्त्यन्नमदत्वा भुञ्जानस्य गृहस्थस्य नरकपातो भवेदिति विवक्षितार्थः, अन्नभूतं मामदत्वा भक्षयन्तमहमपि भक्षयामीत्युक्तत्वात् । मुक्तं प्रत्यदनीयतया अन्नभूतो यो नास्तिकः तस्यान्नस्यैव सतो मुक्तोऽप्यदनीयो भवत्येवान्नभूतत्वात् , तथा च नास्तिकैर्व्याघ्रादिभिरिवाद्यस्य मुक्तस्य संसारादपि तीव्रतरं दुःखं प्रसज्येत ।
तथा च तदपेक्षया संसार एव श्रेयानिति मुमुक्षुः शङ्कते –
अत्राहेति ।
परिहरति –
मा भैषीरिति ।
सर्वकामाशनशब्दितस्यान्नान्नादभावलक्षणस्य सर्वात्मभावस्य संव्यवहारविषयत्वात्कल्पनामात्रत्वान्न मुक्तस्य भयलेशोऽप्यस्तीत्यर्थः ।
अन्नादिभावस्य संव्यवहारविषयत्वेऽपि कथं मुक्तस्य भयाभाव इत्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –
अतीत्यायमित्यादिना ।
विद्वद्दृष्ट्या वस्तुतो भयहेतोरभावान्न तस्य भयमित्यर्थः । अयं विद्वानविद्याकृतं सर्वं विद्ययातीत्य बाधित्वा ब्रह्मत्वमापन्नो वर्तत इति योजना ।
ननु यदि मुक्तो ब्रह्मभावमापन्न एवोक्तरीत्या, तर्हीदम् ‘अहमन्नादः’ इत्यादिवचनं केनाभिप्रायेण प्रवृत्तमिति पृच्छति –
एवं तर्हि किमिति ।
ब्रह्मभावलक्षणमुक्तिस्तुत्यभिप्रायेणेदं वचनं प्रवृत्तमिति परिहरति –
उच्यत इति ।
प्रथममन्नादिभावस्य संव्यवहारविषयत्वादित्युक्तं मिथ्यात्वं साधयति –
योऽयमित्यादिना ।
न परमार्थेति ।
वाचारम्भणादिश्रुतेर्दृश्यत्वादियुक्तेश्चेति भावः ।
इदानीं स्तुत्यभिप्रायकत्वमन्नादिवचनस्य विवृणोति –
स एवंभूतोऽपीति ।
ब्रह्मनिमित्तः ब्रह्मकारणकोऽन्नान्नादभावलक्षणः प्रपञ्चो व्यवह्रियमाणोऽपि ब्रह्मव्यतिरेकेण वस्तुगत्यासन्निति कृत्वा निश्चित्य स्थितस्य विदुषो योऽयं विद्याफलभूतो ब्रह्मभावः तस्य स्तुत्यर्थमन्नादिवचनेन सार्वात्म्यं सर्वकामाशनरूपमुच्यते, न त्वन्नादिभावस्तस्य मुख्य इत्यर्थः ।
उपसंहरति –
अत इति ।
विद्याबलादविद्योच्छेदाद्ब्रह्मभूतस्य विदुषो नास्त्यविद्यानिमित्तो भयदुःखादिदोषलेशोऽपीत्यर्थः ।
एवं मोक्षस्यापुरुषार्थत्वशङ्कां निराकृत्य पुनर्विदुषः स्तुत्यर्थमुपक्षिप्तं सर्वात्मभावमेवानुसरन्नुत्तरवाक्यमादत्ते –
अहं विश्वमिति ।
भुवनमिति ।
भूरादिलोकजातमित्यर्थः ।
ईश्वरेणेति ।
सर्वजगत्संहर्तृरुद्ररूपेणाहमेवाभिभवामि संहरामीत्यर्थः ।
सुवर्न इत्यत्र नकार इवार्थ इत्याशयेनाह –
आदित्य इवेति ।
असकृदिति ।
सदेत्यर्थः । ज्योतिःपदं चैतन्यप्रकाशपरम् ।
'इत्युपनिषत्’ इत्यस्यार्थमाह –
इतीयमिति ।
विहिता निरूपिता ।
'य एवं वेद’ इत्यत्र एवंशब्दार्थमाह –
भृगुवदिति ।
वेद, सम्पादयतीत्यर्थः ।
यथोक्तमिति ।
ब्रह्मभावलक्षणमित्यर्थः ।
मङ्गलार्थमोङ्कारमुच्चारयति –
ओमितीति ॥
अन्नप्राणमनोबुद्धिसुखैः पञ्चभिरुज्ज्वला ।
भगवत्यर्पिता जीयाद्वनमाला कृतिर्मम ॥ १ ॥
नारायणपदद्वन्द्वं नारदादिभिरादृतम् ।
नमामि शतशो नित्यं नमतां मुक्तिदायकम् ॥ २ ॥