तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
अहमन्नमहमन्नमहमन्नम् । अहमन्नादो३ऽहमन्नादो३ऽहमन्नादः । अहं श्लोककृदहं श्लोककृदहं श्लोककृत् । अहमस्मि प्रथमजा ऋता३स्य । पूर्वं देवेभ्योऽमृतस्य ना३भायि । यो मा ददाति स इदेव मा३वाः । अहमन्नमन्नमदन्तमा३द्मि । अहं विश्वं भुवनमभ्यभवा३म् । सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६ ॥
कः पुनरसौ विस्मय इति, उच्यते -

क इति ।

किङ्कृत इत्यर्थः ।

सार्वात्म्यप्राप्तिकृतो विदुषो विस्मय इत्याह –

उच्यत इति ।