भामतीव्याख्या
प्रथमं वर्णकम्
वेदान्तकल्पतरुः
 

अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽबवनयः ।
यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ॥ १ ॥

निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥ २ ॥

षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि ।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च ॥ ३ ॥

मार्तण्डतिलकस्वामिमहागणपतीन् वयम् ।
विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ॥ ४ ॥

ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ ५ ॥

नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् ।
भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते ॥ ६ ॥

आचार्यकृतिनिवेशनमप्यवधूतं वचोऽस्मदादीनाम् ।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ७ ॥

यदज्ञातं जीवैर्बहुविधजगद्विभ्रमधरं वियद्यवद्बालै स्तलमलिनतायोगि कलितम्।
तदुन्मुद्रज्ञानप्रततसुखसद्ब्रह्म परमं नमस्यामः प्रत्यक्–श्रुतिशतशिरोभिः प्रकटितम् ॥ १॥

बोधाभीषुशतैरबोधतिमिरं हृद्व्योमगं दारयन् प्रज्ञावारिधिमुन्नतिं च गमयन् सोमः सदोदेति यः।
तं संसारसहस्ररश्मिजनितक्लेशापहं दक्षिणामूर्तिं निर्मलयोगिचिन्त्यचरणाम्भोजं भजे शङ्करम् ॥२॥

माद्यन्मोहमहेभकुम्भदलनप्रोद्भूतसन्मौक्तिकद्योतालङ्कृतसत्सुखाद्वयवपुः श्रीमान्नृकण्ठीरवः।
प्रह्लादोक्तगिरः प्रमाणनविधौ दिव्याकृतिः स्तम्भतो निर्यातः प्रकटीभवेत्स हृदयाम्भोजे ममाखण्डितम् ॥ ३॥

ललितैः पदविन्यासैर्या नृत्यति विबुधवदनरङ्गेषु।
सच्छास्त्रवेदवाद्यैः सरस्वतीं तां नमस्यामः ॥ ४ ॥

भजमानविघ्नभित्तिप्रभित्तिकुद्दालमिव करेण रदम्।
दधतं महागणेशं प्रणौमि सकलेष्टसंपदं ददतम् ॥ ५॥

यन्न्यायसूत्रप्रथितात्मबोधसौरभ्यगर्भश्रुतिपद्ममाला।
प्रसाधयत्यद्वयमात्मतत्त्वं तं व्यासमाद्यं गुरुमानतो(अ)स्मि ॥६॥

वेदान्तार्थतदाभासक्षीरनीरविवेकिनम्।
नमामि भगवत्पादं परमहंसधुरन्धरम् ॥ ७॥

स्वयंप्रभसुखं ब्रह्म दयारचितविग्रहम्।
यथार्थानुभवानन्दपदगीतं गुरुं नुमः ॥ ८ ॥

विद्याप्रश्रयसंयमाः शुभफला यत्सन्निधिस्थानतः पुंसां हस्तगता भवन्ति सहसा कारुण्यवीक्षावशात्।
आनन्दात्मयतीश्वरं तमनिशं वन्दे गुरूणां गुरुं लब्धं यत्पदपद्मयुग्ममनघं पुण्यैरनन्तैर्मया ॥९॥

ग्रन्थग्रन्थ्यभिधाः स्फुटन्ति मुकुला यस्योदये कौमुदा व्याकुर्वत्यपि यत्र मोहतिमिरं लोकस्य संशाम्यति।
प्रोद्यत्तारकदिव्यदीप्ति परमं व्योमापि नीराज्यते गोभिर्यस्य सुस्वप्रकाशशशिनं तं नौमि विद्यागुरुम् ॥ १० ॥

वैदिकमार्गं वाचस्पतिरपि सम्यक् सुरक्षितं चक्रे।
नयविजितवादिदैत्यः स जयति विबुधेश्वराचार्यः ॥ ११॥

रूढोऽयं वेदकाण्डान्नयमयविटपो भूरिशाखाविचारः सद्वर्णानन्तपर्णः समुदितपरमब्रह्मबोधप्रसूनः।
साक्षाद्धस्तावचेयं दददमृतफलं जीवविश्वेशवीन्द्रः संसारार्कोत्थतापप्रमथननिपुणस्तन्यते कल्पवृक्षः ॥ १२ ॥

कीर्त्या यादववंशमुन्नमयति श्रीजैत्रदेवात्मजे कृष्णे क्ष्माभृृति भूतत्वं सह महादेवेन संबिभ्रति।
भोगीन्द्रे परिमुञ्चति क्षितिभरप्रोद्भूतदीर्घश्रमं वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रुमम् ॥ १३ ॥

श्रीमच्छारीरकव्याख्यायाः प्रारिप्सिताया अविघ्नसमाप्त्यादिसिद्धये शास्त्रप्रतिपाद्यां परां देवतां प्रणमन् शास्त्रीयविषयादि दर्शयति —

अनिर्वाच्येति ।

एका ह्यविद्या अनादिः भावरूपा देवताधिकरणे (ब्र. अ.१ पा.३ सू, २६ — ३३) वक्ष्यते, अन्या पूर्वपूर्वविभ्रमसंस्कारः, तदविद्याद्वितयं सत्त्वासत्त्वाभ्यामनिर्वाच्यं सचिवं सहकारि यस्य तत्तथा । तत्सचिवता ब्रह्मणः तद्विषयता, तदाश्रयास्तु जीवा एव इति वक्ष्यते ।

न चाविद्यासाचिव्ये ब्रह्मणोऽनीश्वरत्वम्, उपकरणस्य स्वातन्त्र्याविघातकत्वात् इत्याह —

प्रभवत इति ।

अतत्त्वतोऽन्यथाभावो विवर्तः ।

न केवलं भूतानां ब्रह्मविवर्तत्वं, अपि तु जीवानामपि चराचरशरीरोपाधिकानां तत्प्रतिबिम्बत्वेन तद्विवर्तता इत्याह —

यतश्चेति ।

अथवा भूतसृष्टिवद्भौतिकसृष्टेरपि हिरण्यगर्भद्वारा ब्रह्मैव कर्तृ इति अनेनोक्तम् ।

एवमज्ञानविपर्यस्तत्वाभ्यां विषयत्वमुक्त्वा प्रयोजनतामाह —

अपरिमितेति ॥१॥

जगद्विवर्ताधिष्ठानत्वेन ब्रह्मणः सर्वकर्तृत्वमुक्त्वा सर्वज्ञत्वं ज्ञानपदसूचितं वेदकर्तृत्वादिना साधयति —

निःश्वसितमिति ।

वीक्षणमात्रेण सृष्टत्वात्, भूतानि वीक्षितम् । हिरण्यगर्भद्वारा साध्यं चराचरं, वीक्षणाधिकप्रयत्नसाध्यस्मितसाम्यात् स्मितम् ।

सर्वज्ञत्वसिद्ध्यर्थं चेतनधर्मसुप्तिमत्त्वेन चेतनतां संभावयति —

अस्य चेति ।

यद्वा विनायासेन नामरूपसृष्टिप्रलयकर्तृत्वाद् ब्रह्म अनेन स्तुतम् ॥२॥

षड्भिरिति ।

ईश्वरस्य षडङ्गानि पुराणोक्तानि 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अचिन्त्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥' इति । अव्ययानि वायुपुराणे पठ्यन्ते – 'ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥' इति । वेदस्य षडङ्गानि निरुक्तादीनि । अव्ययानि च चादयः॥३॥

तिलकप्रियः स्वामी तिलकस्वामी । सर्वसिद्धिविधायित्वं स्मृतिसिद्धम् । आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥' (याज्ञ. अ. १ श्लो. २९४) इति ॥४॥

वेधसे विधात्रे ईश्वराय । हरेः ज्ञानशक्तेरवतारः प्राप्तिर्यस्मिन् स तथा । तथा चाह श्रीपराशरः – 'द्वापरे द्वापरे विष्णुर्व्यासरूपी महामुने । वेदमेकं सुबहुधा कुरुते जगतो हितम् ॥' इति ॥५॥