अथ यदसन्दिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रियसंनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा तथा चेदं ब्रह्मेति व्यापकविरुद्धोपलब्धिः । तथा हि ‘बृहत्त्वाद्बृंहणत्वाद्वात्मैव’ ब्रह्मेति गीयते । स चायमाकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेन ’ अहम्'' इत्यसन्दिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदम् । न हि जातु कश्चिदत्र सन्दिग्धेऽहं वा नाहं वेति । न च विपर्यस्यति नाहमेव इति । न च अहं कृशः, स्थूलः, गच्छामि इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति साम्प्रतम् । तदालम्बनत्वे हि योऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रणप्तॄननुभवामीति प्रतिसन्धानं न भवेत् । न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्धो येनैकत्वमध्यवसीयेत । तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम् । तथा बालादिशरीरेषु व्यावर्तमानेष्वपि परं परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते । अपि च स्वप्नान्ते दिव्यशरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन् ‘नाहं देवो मनुष्य एव’ इति देवशरीरे बाध्यमानेऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते । अपि च योगव्याघ्रः शरीरभेदेऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः । अत एव नेन्द्रियाण्यप्यस्यालम्बनम् , इन्द्रियभेदेऽपि ‘योऽहमद्राक्षं स एवैतर्हि स्पृशामि’ इत्यहमालम्बनस्य प्रत्यभिज्ञानात् । विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव । बुद्धिमनसोश्च करणयोः अहम् इति कर्तृप्रतिभासप्रख्यानालम्बनत्वायोगः । ‘कृशोऽहम्’ ’ अन्धोऽहम्’ इत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः क्रोशन्ति इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः । तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः, स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम् । अप्रयोजनत्वाच्च । तथा हि - संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम् । संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः । स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतोऽस्य निवृत्तिरविरोधात् ? कुतश्चात्मयाथात्म्याननुभवः ? न हि अहम् इत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति । न च अहम् इति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम् , अनुभवविरोधात् । न ह्यागमाः सहस्रमपि घटं पटयितुमीशते । तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरति -
युष्मदस्मत्प्रत्ययगोचरयोः इति ।
अत्र च युष्मदस्मदित्यादिर्मिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः । तथापीत्यादिपरिहारग्रन्थः । तथापीत्यभिसम्बन्धाच्छङ्कायां यद्यपीति पठितव्यम् । इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् । यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः, एते वयमिमे वयमास्महे इति बहुलं प्रयोगदर्शनादिति । चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः । एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति । स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तः -
तमः प्रकाशवदिति ।
न हि जातु कश्चित्समुदाचरद्वृत्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति । तदिदमुक्तम् -
इतरेतरभावानुपपत्ताविति ।
इतरेतरभावः इतरेतरत्वम् , तादात्म्यमिति यावत् तस्यानुपपत्ताविति । स्यादेतत् । मा भूद्धर्मिणोः परस्परभावः तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनामितरेतराध्यासो भविष्यति ।
दृश्यते हि धर्मिणोर्विवेकग्रहणेऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणेऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिण्यरुणः स्फटिकैत्यारुण्यविभ्रम इत्यत उक्तम् -
तद्धर्माणामपीति ।
इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयस्तस्यानुपपत्तिः । अयमभिसन्धिः - रूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि छायां गृह्णीयात् , चिदात्मा त्वरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति । यथाहुः -'शब्दगन्धरसानां च कीदृशी प्रतिबिम्बता” इति । तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसम्भेदेनैव तद्धर्माणामपि परस्परसम्भेदेन विनिमयात्मना भवितव्यम् , तौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसम्भिन्नौ, असम्भिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् ।
तदिदमुक्तम् -
सुतरामिति ।
तद्विपर्ययेणेति ।
विषयविपर्ययेणेत्यर्थः । मिथ्याशब्दोऽपह्नववचनः । एतदुक्तं भवति - अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति । मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना ।। इदमत्राकूतम् - भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत । न त्वेतदस्ति । तथाहि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमपरामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागेवोपचरितत्वमिति । अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः । न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुपचरितार्थत्वं चेति युक्तम् , तस्यापौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया स्वतःसिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् । प्रमितावनपेक्षत्वेऽप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न । उत्पादकाप्रतिद्वन्द्वित्वात् । न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम् । न च तत्तस्योत्पादकम् । अतात्त्विकप्रमाणभावेभ्योऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् । तथा च वर्णे ह्रस्वत्वदीर्घत्वादयोऽन्यधर्मा अपि समारोपिताः तत्त्वप्रतिपत्तिहेतवः । न हि लौकिकाः नाग इति वा नग इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । न चानन्यपरं वाक्यं स्वार्थमुपचरितार्थं युक्तम् । उक्तं हि ‘न विधौ परः शब्दार्थ’ इति । ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् । तदनपबाधने तदपबाधात्मनस्तस्योत्पत्तेरनुत्पत्तेः । दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम् । तथा च पारमर्षं सूत्रं, “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्” (आ. ६ पा. ५ सू. ५४) इति । तथा “पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्” ॥ इति । अपि च येऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम् - ’ अहमिहैवास्मि सदने जानानः’ इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात् । उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् । न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति साम्प्रतम् । न हि तदैवं भवति - ’ अहम्’ इति; गौणत्वे वा न ’ जानानः’ इति । अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः । तद्यथा नैयमिकाग्निहोत्रवचनोऽग्निहोत्रशब्दः (आ.१. पा.४. सू.४)प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि “मासमग्मिहोत्रं जुहोति” (आ. ७ पा. ३ सू. १) इत्यत्र साध्यसादृश्येन गौणः, माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः । न त्वहङ्कारस्य मुख्योऽर्थो निर्लुठितगर्भतया देहादिभ्यो भिन्नोऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् । न चात्यन्तनिरूठतया गौणेऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् । तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानो, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः । तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तं तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति । न च बालस्थविरशरीरभेदेऽपि सोऽहमित्येकस्यात्मनः प्रतिसन्धानाद्देहादिभ्यो भेदेन अस्त्यात्मानुभव इति वाच्यम् । परीक्षकाणां खल्वियं कथा न लौकिकानाम् । परीक्षका अपि हि व्यवहारसमये न लोकसामान्यमतिवर्तन्ते । वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारः - “पश्वादिभिश्चाविशेषात्” इति । बाह्या अप्याहुः - “शास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारः” इति । तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारमहमिहास्मि सदन इति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते, नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः । न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् । तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा ? अणुपरिमाणत्वे स्थूलोऽहम् दीर्घ इति च न स्यात् , देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः । किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत्प्रत्येकं वावयवाः ? प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत । समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनोऽप्यवयवो वृक्ण इति न चेतयेत् । न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः । य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् । विज्ञानालम्बनत्वेऽप्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव । तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् । एतेन स्थूलोऽहमन्धोऽहं गच्छामीत्यादयोऽप्यध्यासतया व्याख्याताः । तदेवमुक्तेन क्रमेणाहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति ।
तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानम् -
अन्योन्यस्मिन्नित्यादि ।
अत्र चान्योन्यस्मिन्धर्मिण्यात्मशरीरादौ ‘अन्योन्यात्मकताम्’ अध्यस्याहमिदं शरीरादीति । इदमिति च वस्तुतः, न प्रतीतितः । लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः । इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदुपादानपरिवर्जनादिः । “अन्योन्यधर्मांश्चाध्यस्य” अन्योन्यस्मिन्धर्मिणि देहादिधर्माञ्जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य, ममेदं जरामरणपुत्रपशुस्वाम्यादीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः । अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्तोन्नीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम् ।
पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयति -
मिथ्याज्ञाननिमित्तः व्यवहारः ।
मिथ्याज्ञानमध्यासस्तन्निमित्तः । तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः ।
तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह -
इतरेतराविवेकेन ।
विवेकाग्रहणेत्यर्थः ।
अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह -
अत्यन्तविविक्तयोर्धर्मधर्मिणोः ।
परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासङ्कीर्णता विवेकः । स्यादेतत् । विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रजततादात्म्यविभ्रमः ।
इह तु परमार्थसतश्चिदात्मनोऽत्यन्तभिन्नं न देहाद्यस्ति वस्तुसत् , तत्कुतश्चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रमः इत्यत आह -
सत्यानृते मिथुनीकृत्य इति ।
विवेकाग्रहादध्यस्येति योजना । सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि, ते द्वे धर्मिणी मिथुनीकृत्य युगलीकृत्येत्यर्थः । न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः ।
एतदुक्तं भवति - अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति । स्यादेतत् । आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह -
नैसर्गिक इति ।
स्वाभाविकोऽनादिरयं व्यवहारः । व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वात्बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः । स्यादेतत् । अद्धा पूर्वप्रतीतिमात्रमुपयुज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता । प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते । प्रकाशमानत्वमेव हि चिदात्मनोऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वा, द्वैतापत्तेः । सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पनेऽनवस्थापातात् , प्रकाशमानतैव सत्ताभ्युपेतव्या । तथा च देहादयः प्रकाशमानत्वान्नासन्तः, चिदात्मवत् ।
असत्त्वे वा न प्रकाशमानाः, तत्कथं सत्यानृतयोर्मिथुनीभावः, तदभावे वा कस्य कुतो भेदाग्रहः, तदसम्भवे कुतोऽध्यास इत्याशयवानाह -
आह
आक्षेप्ता -
कोऽयमध्यासो नाम ।
क इत्याक्षेपे ।
समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति -
उच्यते - स्मृतिरूपः परत्र पूर्वदृष्टावभासः ।
अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्ययान्तरबाधश्चास्यवसादोऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति । तस्येदमुपव्याख्यानम् “पूर्वदृष्ट” इत्यादि । पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः । मिथ्याप्रत्ययश्चारोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति । तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम् । तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम् । तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम् ।
आरोपविषयं सत्यमाह -
परत्रेति ।
परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम् । स्यादेतत् । परत्र पूर्वदृष्टावभास इत्यलक्षणम् , अतिव्यापकत्वात् । अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र कालाक्ष्यामवभासः । अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः ।
अवभासपदं च समीचीनेऽपि प्रत्यये प्रसिद्धम् , यथा नीलस्यावभासः पीतस्यावभास इत्यत आह -
स्मृतिरूप इति ।
स्मृते रूपमिव रूपमस्येति स्मृतिरूपः । असंनिहितविषयत्वं च स्मृतिरूपत्वम् , संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः । नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्मृतिविभ्रमरूपस्यैवंरूपत्वात् । अत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः । एवं पीतः शङ्खस्तिक्तो गुडैत्यत्राप्येतल्लक्षणं योजनीयम् । तथा हि - बहिर्विनिर्गच्छदत्यच्छनयनरश्मिसम्पृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन् , शङ्खं च दोषाच्छादितशुक्लिमां न द्रव्यमात्रमनुभवन् , पीततायाश्च शङ्खासम्बन्धमननुभवन् , असम्बन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डम्पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याहपीतः शङ्ख इति । एतेनतिक्तो गुड इति प्रत्ययो व्याख्यातः । एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत् , दोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राहयत् , पूर्वदृष्टाभिमुखादर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोऽपि लक्षितो भवति । एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासम्भवं लक्षणं योजनीयम् । एतदुक्तं भवति - न प्रकाशमानतामात्रं सत्त्वम् , येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् । न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा । तथा सति मरुषु मरीचिचयम् , उच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णवमवतीर्णा मन्दाकिनी, इत्यभिसन्धाय प्रवृत्तस्तत्तोयमापीय पिपासामुपशमयेत् । तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्युपगमनीयम् । न च मरीचिरूपेण सलिलमवस्तुसत्स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति साम्प्रतम् यतो यद्यसन्नानुभवगोचरः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम् , न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति । यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मनाभावः स्वरूपेण तु भावः । यथाहुः - “भावान्तरमभावो हि कयाचित्तु व्यपेक्षया”(मण्डनमिश्रभ्रमविवेकः) इति । ततश्च भावात्मनोपाख्येयतयास्य युज्येतानुभवगोचरता । प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतोऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः । न च विषयस्य समस्तसामर्थ्यविरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं, तस्मादसत्प्रकाशनशक्तिरेवास्याविद्येति साम्प्रतम् । यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् , असदिति चेत् , किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम् । न तावत्कार्यम् , असतस्तत्त्वानुपपत्तेः । नापि ज्ञाप्यं, ज्ञानान्तरानुपलब्धेः, अनवस्थापाताच्च । विज्ञानस्वरूपमेव असतः प्रकाश इति चेत् , कः पुनरेष सदसतोः सम्बन्धः ? असदधीननिरूपणत्वं सतो ज्ञानस्यासता सम्बन्ध इति चेत् , अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किञ्चित् , असत आधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत् , अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति । अत्र ब्रूमः - निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयोऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः । न सतत्त्वाः, तदात्मना मरीचीनामसत्त्वात् । द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च । तत्र पूर्वं स्वतः, परं तु परतः । यथाहुः - “स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न॥”(तत्वसङ्ग्रहः) इति । तत्किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वानतोयात्मना गृह्णीयात् । तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वा बाध्यः हन्त तोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत् , तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः । नाप्यसत् । वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते “भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात्”(तत्वसङ्ग्रहः) इति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम् , तद्धि मरीचयो वा भवेयुः, गङ्गादिगतं तोयं वा । पूर्वस्मिन्कल्पे मरीचयः इति प्रत्ययः स्यात् , न तोयमिति । उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात् , न पुनरिहेति । देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति । न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्तु इति साम्प्रतम् , तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् । तस्मान्न सत् , नासन्नापि सदसत् , परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् , तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृतमनिर्वाच्यम् । एवं च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम् , अध्यासलक्षणयोगात् । देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते । चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरः, तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः । अबाधिता स्वयम्प्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वेति सर्वमवदातम् ।
स चायमेवंलक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह -
तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति ।
अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य । ज्ञानाकारस्येति यावत् । अध्यासोऽन्यत्र बाह्ये । सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत् , तत्र ज्ञानाकारस्यारोपः । विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तु सत् , तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम् , तत्र ज्ञानाकारस्याध्यारोपः । उपपत्तिश्च यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गः, अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशात् नेदं रजतमिति च बाधकस्येदन्तामात्रबाधेनोपपत्तौ न रजतगोचरतोचिता । रजतस्य धर्मिणो बाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम् , तद्वरमिदन्तैवास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति ।
केचित्तु -
ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति -
यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति ।
अपरितोषकारणं चाहुः - विज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा । तत्रानुमानमुपरिष्टान्निराकरिष्यते । अनुभवोऽपि रजतप्रत्ययो वा स्यात् , बाधकप्रत्ययो वा । न तावद्रजतानुभवः । स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् । अहमिति हि तदा स्यात् , प्रतिपत्तुः प्रत्ययादव्यतिरेकात् । भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनीयेति चेत् , हन्त बाधकप्रत्ययमालोचयत्वायुष्मान् । किं पुरोवर्ति द्रव्यं रजताद्विवेचयत्याहोस्वित् ज्ञानाकारतामप्यस्य दर्शयति । तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानांप्रियः । पुरोवर्तित्वप्रतिषेधादर्थादस्य ज्ञानाकारतेति चेन्न । असंनिधानाग्रहनिषेधादसंनिहितो भवति । प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्त्रात्मकं कुतस्त्यम् । न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य । न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन । नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तम् अनुभवविरोधात् । न खलु सत्तामात्रेणालम्बनम् , अतिप्रसङ्गात् । सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात् । नापि कारणत्वेन, इन्द्रियादीनामपि कारणत्वात् । तथा च भासमानतैवालम्बनार्थः । न च रजतज्ञाने शुक्तिका भासते, इति कथमालम्बनम् , भासमानताभ्युपगमे वा कथं नानुभवविरोधः । अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसम्भवः । दोषसहितानां तेषां मिथ्याप्रत्ययेऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्योपजननसामर्थ्यविघातमात्रहेतुत्वात् , अन्यथा दुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात् । अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् । तथा च रजतम् , इदमिति च द्वे विज्ञाने स्मृत्यनुभवरूपे, तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् , दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात् , तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाद्ग्रहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात् , संनिहितरजतगोचरज्ञानसारूप्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । क्वचित्पुनर्ग्रहणे एव मिथोऽनुगृहीतभेदे, यथा पीतः शङ्ख इति । अत्र हि बहिर्विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते । शङ्खोऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात्पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च । भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति । तस्माद्यथार्थाः सर्वे विप्रतिपन्नाः सन्देहविभ्रमाः, प्रत्ययत्वात् , घटादिप्रत्ययवत् ।
तदिदमुक्तम् -
यत्र यदध्यास इति ।
यस्मिन्शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किन्तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण, गृहीतमात्रस्य च यः इदमिति पुरोऽवस्थिताद्द्रव्यमात्रात्तज्ज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः । भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतव्यवहारश्चेति ।अन्ये तु - अत्राप्यपरितुष्यन्तः, यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । अत्रेदमाकूतम् - अस्ति तावद्रजतार्थिनोरजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः, सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति । ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् । ननूक्तं नाग्रहणमात्रात् , किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसारूप्येणाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः । अथ समीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण । गृह्यमाणत्वेऽपि ‘समीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोः’ इति ग्रहणम् , ‘अथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहः’ इति ग्रहणम् । तत्र न तावत्समीचीनज्ञानसदृशे इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् । न हिगोसदृशो गवय इति ज्ञानं गवार्थिनं गवये प्रवर्तयति । अनयोरेव भेदाग्रह इति तु ज्ञानं पराहतम् , न हि भेदाग्रहेऽनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति । तस्मात्सत्तामात्रेण भेदाग्रहोऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम् । तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुरस्त्वाहोऽनुत्पादितारोप एव स्वत इति । वयं तु पश्यामः - चेतनव्यवहारस्याज्ञानपूर्वकत्वानुपपत्तेः, आरोपज्ञानोत्पादक्रमेणैवैति । ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणपूर्वक इति । मैवम् । नहि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते । इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् । कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि न तदिच्छेत् । अन्यदिच्छत्यन्यत्करोतीति व्याहतम् । न चेदिदङ्कारास्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत् । यद्यतथात्वेनाग्रहणादिति ब्रूयात्स प्रतिवक्तव्योऽथ तथात्वेनाग्रहणात्कस्मादयं नोपेक्षेतेति । सोऽयमुपादानोपेक्षाभ्यामभित आकृष्यमाणश्चेतनोऽव्यवस्थित इतीदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यत इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः । तथाहि - भेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजते तमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम् । न च तटस्थरजतस्मृतिरिदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात् । एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् । यथाहुः - ज्ञातसम्बन्धस्यैकदेशदर्शनादिति । समारोपे त्वेकदेशदर्शनमस्ति । तत्सिद्धमेतद्विवादाध्यासितं रजतादिज्ञानं, पुरोवर्तिवस्तुविषयम् , रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात् , यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम् , तथा चेदम् , तस्मात्तथेति । यच्चोक्तमनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम् , किं शुक्तिकात्वस्य इदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्विद्द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य । यदि शुक्तिकात्वस्यानालम्बनत्वम् , अद्धा । उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः । तथा हि - रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति । दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम् , यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम् । भस्मकदुष्टस्य चोदर्यस्य तेजसो बह्वन्नपचनमिति । प्रत्यक्षबाधकापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतवहानुष्णत्वानुमानवत् । यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तत् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्यायकणिकायामिति नेह प्रतन्यते । दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् । विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति, तदिदमुक्तम् - “अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते” इति । यत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना ।
ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यत आह -
सर्वथापि त्वन्यस्यान्यधर्मकल्पनां न व्यभिचरति ।
अन्यस्यान्यधर्मकल्पनानृतता, सा चानिर्वचनीयतेत्यधस्तादुपपादितम् । तेन सर्वेषामेव परीक्षकाणां मतेऽन्यस्यान्यधर्मकल्पनानिर्वचनीयतावश्यम्भाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः । अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः ।
न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याह -
तथा च लोकेऽनुभवः - शुक्तिका हि रजतवदवभासत इति ।
न पुना रजतमिदमिति शेषः ।
स्यादेतत् । अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनोऽभिन्नानां जीवानां भेदविभ्रम इत्यताह -
एकश्चन्द्रः सद्वितीयवदिति ।
पुनरपि चिदात्मन्यध्यासमाक्षिपति -
कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम् ।
अयमर्थः - चिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणाम् । न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः सम्भवतीति । प्रतिभासे वा (न)तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् । न खलु स एव कर्ता च कर्म च भवति, विरोधात् । परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म, न च तदेव स्वं च परं च, विरोधात् । आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनोऽनात्मत्वप्रसङ्गः । एवं तस्य तस्येत्यनवस्थाप्रसङ्गः । स्यादेतत् । आत्मा जडोऽपि सर्वार्थज्ञानेषु भासमानोऽपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात् , चैत्रवत् । यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात् , न तु चैत्रस्य क्रियाफलशालिनोऽपि, चैत्रसमवायाद्गमनक्रियाया इति, तन्न । श्रुतिविरोधात् । श्रूयते हि “सत्यं ज्ञानमनन्तं ब्रह्म” (तै. उ. २ । १ । १) इति उपपद्यते च, तथा हि - योऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयम्प्रकाशो वा । जडश्चेद्विषयात्मानावपि जडाविति कस्मिन्किं प्रकाशेताविशेषात् , इति प्राप्तमान्ध्यमशेषस्य जगतः । तथा चाभाणकः - “अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे” । न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम् । ज्ञापनं हि ज्ञानजननम् , जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति । एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था । तस्मादपराधीनप्रकाशा संविदुपेतव्या । तथापि किमायातं विषयात्मनोः स्वभावजडयोः । एतदायातं यत्तयोः संविदजडेति । तत्किं पुत्रः पण्डित इति पितापि पण्डितोऽस्तु । स्वभाव एष संविदः स्वयम्प्रकाशाया यदर्थात्मसम्बन्धितेति चेत् , हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसम्बन्धितेति समानम् । सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत् , तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ । तथा च न स्वयम्प्रकाशा संवित् , न च संविदर्थात्मप्रकाश इति । अथ ‘संविदर्थात्मप्रकाशो न संविदो भिद्येते’ , संविदेव तौ । एवं चेत् यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति, तथा च न विवक्षितार्थसिद्धिः । न चातीतानागतार्थगोचरायाः संविदोऽर्थसहभावोऽपि । तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः । हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम् , अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत् , तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशोऽस्तु । जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत् , नन्वयं स्वयम्प्रकाशोऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम् । न च प्रकाशस्यात्मानो विषयाः ते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते, प्रकाशश्चायमान्तरोऽस्थूलोऽनणुरह्रस्वोऽदीर्धश्चेति प्रकाशते, तस्माच्चन्द्रेऽनुभूयमान इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योऽर्थः अनिर्वचनीय एवेति युक्तमुत्पश्यामः । न चास्य प्रकाशस्याजानतः स्वलक्षणभेदोऽनुभूयते । न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् । न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते । तदयं प्रकाश एव स्वयम्प्रकाश एकः कूटस्थनित्यो निरंशः प्रत्यगात्माशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वात् , अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम् , देहेन्द्रियादिधर्माणां कथम् , किमाक्षेपे । अयुक्तोऽयमध्यास इत्याक्षेपः ।
कस्मादयमयुक्त इत्यत आह -
सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ।
एतदुक्तं भवति - यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहेऽन्यथा प्रकाशते । प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्दोषैर्दुष्येत । न चांशवान् , येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत । नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च सम्भवतीति न स्वयम्प्रकाशपक्षेऽध्यासः । सदातनेऽप्यप्रकाशे पुरोऽवस्थितत्वस्यापरोक्षत्वस्याभावान्नाध्यासः । न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति । तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् ।
स्यादेतत् । अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मास्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह -
युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि ।
विषयत्वे हि चिदात्मनोऽन्यो विषयी भवेत् । तथा च यो विषयी स एव चिदात्मा । विषयस्तु ततोऽन्यो युष्मत्प्रत्ययगोचरोऽभ्युपेयः । तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वम्, अत एवाविषयत्वमात्मनो वक्तव्यम् , तथा च नाध्यास इत्यर्थः ।
परिहरति -
उच्यते - न तावदयमेकान्तेनाविषयः ।
कुतः,
अस्मत्प्रत्ययविषयत्वात् ।
अयमर्थः - सत्यं प्रत्यगात्मा स्वयम्प्रकाशत्वादविषयोऽनंशश्च, तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्नोऽपि वस्तुतोऽवच्छिन्न इव अभिन्नोऽपि भिन्न इव, अकर्तापि कर्तेव, अभोक्तापि भोक्तेव, अविषयोऽप्यस्मत्प्रत्ययविषय इव, जीवभावमापन्नोऽवभासते, नभ इव घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति । न हि चिदेकरसस्यात्मनः चिदंशे गृहीते अगृहीतं किञ्चिदस्ति । न खल्वानन्दनित्यत्वविभुत्वादयोऽस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् । गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति । न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत् , बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात् । तस्माच्चिदात्मनः स्वयम्प्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात्, तदध्यासेन जीवभाव इति । तस्य चानिदमिदमात्मनोऽस्मत्प्रत्ययविषयत्वमुपपद्यते । तथा हि - कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते । न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा सम्भवति । यस्य च बुद्ध्यादेः कार्यकारणसङ्घातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् । तस्माच्चिदात्मैव कार्यकरणसङ्घातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयम्प्रकाशोऽपि बुद्ध्यादिविषयविच्छुरणात्, कथञ्चिदस्मत्प्रत्ययविषयोऽहङ्कारास्पदं जीव इति च, जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते । न खलु जीवश्चिदात्मनो भिद्यते । तथा च श्रुतिः - “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति । तस्माच्चिदात्मनोऽव्यतिरेकाज्जीवः स्वयम्प्रकाशोऽप्यहंप्रत्ययेन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते । न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्यन्योन्याश्रयत्वमिति साम्प्रतम् , बीजाङ्कुरवदनादित्वात् , पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादित्युक्तम् “नैसर्गिकोऽयं लोकव्यवहारः” इति भाष्यग्रन्थेन ।
तस्मात्सुष्टूक्तम् -
न तावदयमेकान्तेनाविषय इति ।
जीवो हि चिदात्मतया स्वयम्प्रकाशतयाविषयोऽप्यौपाधिकेन रूपेण विषय इति भावः । स्यादेतत् । न वयमपराधीनप्रकाशतयाविषयत्वेनाध्यासमपाकुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषयः इति ब्रूमः ।
तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आह -
अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ।
प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् । यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः । यथा पुरुषस्य चैतन्यमिति । एतदुक्तं भवति - अवश्यं चिदात्मापरोक्षोऽभ्युपेतव्यः तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम् । श्रुतिश्चात्र भवति “तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति ।
तदेवं परमार्थपरिहारमुक्त्वाभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह -
न चायमस्ति नियमः पुरोऽवस्थित एव,
अपरोक्ष एव,
विषये विषयान्तरमध्यसितव्यम् ।
कस्मादयं न नियम इत्यत आह -
अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति ।
हिर्यस्मादर्थे । नभो हि द्रव्यं सत् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् । नापि मानसम् , मनसोऽसहायस्य बाह्येऽप्रवृत्तेः, तस्मादप्रत्यक्षम् । अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति । तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपोऽवभास इति । एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतम् महेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः ।
उपसंहरति -
एवम् -
उक्तेन प्रकारेण सर्वाक्षेपपरिहारात् ,
अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम् -
बुद्ध्यादीनामध्यासः ।
ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह -
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।
अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम् । तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति । प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् । अत्र च ‘एवं लक्षणम्’ इत्येवंरूपतयानर्थहेतुतोक्ता । यस्मात्प्रत्यगात्मन्यशनायादिरहितेऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः ।
न चैवं पृथग्जना अपि मन्यन्तेऽध्यासम् , येन न व्युत्पाद्येतेत्यत उक्तम् -
पण्डिता मन्यन्ते ।
नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम् , उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह -
तद्विवेकेन च वस्तुस्वरूपावधारणम् -
निर्विचिकित्सं ज्ञानम्
विद्यामाहुः,
पण्डिताः । प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः । तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः ।
स्यादेतत् । अतिनिरूढनिबिढवासनानुविद्धाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह -
तत्रैवं सति, -
एवंभूतवस्तुतत्त्वावधारणे सति,
यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते -
अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न सम्बध्यते । एतदुक्तं भवति - तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति । तत्त्वपक्षपातो हि स्वभावो धियाम् , यथाहुर्बाह्या अपि - “निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधोयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”(प्रमाणवार्तिकम्-२१२) इति । विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतोऽनिर्वाच्ययाविद्यया बाध इति । यदुक्तम् , सत्यानृते मिथुनीकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहार इति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः ।
इतिशब्दसूचितं लोकव्यवहारमादर्शयति -
तमेतमविद्याख्यमिति ।
निगदव्याख्यातम् ।
आक्षिपति -
कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ।
तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि । नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः ।
सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा, शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह -
शास्त्राणि चेति ।
समाधत्ते - उच्यते - देहेन्द्रियादिष्वहंममाभिमानहीनस्य, तादात्म्यतद्धर्माध्यासहीनस्य प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः । अयमर्थः - प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यम् । स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् । तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् । न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति । न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान् । तस्माद्व्यापारवद्बुद्ध्यादितादात्म्याध्यासात् , व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति ।
अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह -
न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति ।
व्यवह्रियते अनेनेति व्यवहारः फलम् , प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः । ‘इन्द्रियाणि’ इति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम् , दण्डिनो गच्छन्तीतिवत् । एवं हि ‘प्रत्यक्षादि’ इत्युपपद्यते । व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता । अनुपादाय यो व्यवहार इति योजना ।
किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह -
न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः -
प्रमाणानां व्यापारः
सम्भवति ।
न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति ।
अथ देह एवाधिष्ठाता कस्मान्न भवति, कृतमत्रात्माध्यासेनेत्यत आह -
न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ।
सुषुप्तेऽपि व्यापारप्रसङ्गादि भावः ।
स्यादेतत् । यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह -
न चैतस्मिन्सर्वस्मिन् -
इतरेतराध्यासे इतरेतरधर्माध्यासे च,
असति, आत्मनोऽसङ्गस्य -
सर्वथा सर्वदा सर्वधर्मवियुक्तस्य
प्रमातृत्वमुपपद्यते ।
व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगोऽसङ्गत्वादित्यर्थः ।
आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह -
न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ।
प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति । अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा । कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत् , यदि चिदात्मा तत्र नाध्यस्येत । कथं चैष चिदात्मकर्तृको भवेत् , यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत् । तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति । तत्सिद्धौ च प्रमातृत्वम् , तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः । प्रमातृत्वेन च प्रमोपलक्ष्यते । प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत । तथा च प्रमाणमप्रमाणं स्यादित्यर्थः ।
उपसंहरति -
तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ।
स्यादेतत् । भवतु पृथग्जनानामेवम् । आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह -
पश्वादिभिश्चाविशेषादिति ।
विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् । प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते । यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते । तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् । चशब्दः समुच्चये । उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः ।
एतदेव विभजते -
यथा हि पश्वादय इति ।
अत्र च
शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति
इति प्रत्यक्षं प्रमाणं दर्शितम् ।
शब्दादिविज्ञाने
इति तत्फलमुक्तम् ।
प्रतिकूले
इति च अनुमानफलम् । तथा हि - शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति ।
उदाहरति -
यथा दण्डेति ।
शेषमतिरोहितार्थम् । स्यादेतत् । भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि । शास्त्रं तु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति । अत्र खल्वामुष्मिकफलोपभोगयोग्योऽधिकारी प्रतीयते । तथा च पारमर्षं सूत्रम् - “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्” (अ. ३ पा. ७ सू. १८) इति ।
न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम् , तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह -
शास्त्रीये त्विति ।
तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् । अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसम्बन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत् , न त्वस्यासंसारित्वमपि, तस्याधिकारेऽनुपयोगात् । प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् । प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति । तत्र कथमकर्ता प्रयोक्ता, कथं वाऽभोक्ता कर्मजनितफलभोगभागी । तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते । एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव । न हि प्रमात्रादिविभागादृते तदर्थाधिगमः । ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः । तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् ।
स्यादेतत् । यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषोऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्योऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् । तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह -
प्राक्च तथाभूतात्मेति ।
सत्यमौपनिषदपुरुषाधिगमोऽधिकारविरोधी, तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारं निर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् । न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः । यथा “न हिंस्यात्सर्वा भूतानि” इति साध्यांशनिषेधेऽपि ‘श्येनेनाभिचरन् यजेत’ इति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत्कस्य हेतोः, पुरुषभेदादिति ।
अवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति -
तथा हिति ।
वर्णाध्यासः - ‘राजा राजसूयेन यजेत’ इत्यादिः । आश्रमाध्यासः - ‘गृहस्थः सदृशीं भार्यां विन्देत’ इत्यादिः । वयोऽध्यासः - ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिः । अवस्थाध्यासः - “अप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागः” इति । आदिग्रहणं महापातकोपपातकसङ्करीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसङ्ग्रहार्थम् । तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुं तत्स्वरुपमुक्तं स्मारयति -
अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ।
'स्मृतिरूपः परत्र पूर्वदृष्टावभासः” इत्यस्य सङ्क्षेपाभिधानमेतत् । तत्र अहमिति धर्मितादात्म्याध्यासमात्रम् , ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाह -
तद्यथा पुत्रभार्यादिष्विति ।
देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आह - अहमेव विकलः, सकलः इति । स्वस्य खलु साकल्येन स्वाम्यसाकल्यात्स्वामीश्वरः सकलः सम्पूर्णो भवति । तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात् , स्वामीश्वरो विकलोऽसम्पूर्णो भवति । बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया सञ्चरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः ।
यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वित्याशयवानाह -
तथा देहधर्मानिति ।
देहादेरप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादीन् , ततोऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसङ्कल्पादीन् आत्मन्यध्यस्यतीति योजना ।
तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह -
एवमहंप्रत्ययिनम् -
अहंप्रत्ययो वृत्तिर्यस्मिन्नन्तःकरणादौ, सोऽयमहंप्रत्ययीतम् ।
स्वप्रचारसाक्षिणि -
अन्तःकरणप्रचारसाक्षिणि,
चैतन्योदासीनताभ्यां,
प्रत्यगात्मन्यध्यस्य ।
तदनेन कर्तृत्वभोक्तृत्वे उपपादिते ।
चैतन्यमुपपादयति -
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण -
अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम् , तस्य विपर्ययः चैतन्यम् , तेन । इत्थम्भूतलक्षणे तृतीया ।
अन्तःकरणादिष्वध्यस्यति ।
तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारोऽहङ्कारास्पदं संसारी सर्वानर्थसम्भारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वाद् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति ।
प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोति -
एवमयमनादिरनन्तः -
तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः ।
अनाद्यनन्तत्वे हेतुरुक्तः -
नैसर्गिक इति । मिथ्याप्रत्ययरूपः -
मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम् तद्यस्य स तथोक्तः । अनिर्वचनीय इत्यर्थः ।
प्रकृतमुपसंहरति -
अस्यानर्थहेतोः प्रहाणाय ।
विरोधिप्रत्ययं विना कुतोऽस्य प्रहाणमित्यत उक्तम् -
आत्मैकत्वविद्याप्रतिपत्तये इति ।
प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वमानन्दरूपस्य सतः, तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति । एतदुक्तं भवति - अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञातत्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् । तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् । अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन् । न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते । न चासावप्रमाणमभ्यस्तोऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनोऽपनोदितुमर्हति । आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन । न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते । मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम् । मिथ्याज्ञानसंस्कारश्च सुदृढोऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति ।
स्यादेतत् । प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह -
यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः ।
शरीरमेव शरीरकम् तत्र निवासी शारीरको जीवात्मा, तस्य त्वम्पदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता । एतावानत्रार्थसङ्क्षेपः - यद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम् , यद्यपि च “अविशिष्टस्तु वाक्यार्थः” इति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम् , यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन सन्देहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः । तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या । न च सर्वजनीनाहमनुभवसिद्ध आत्मा सन्दिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः । सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् । तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् । एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तलक्षणाः । प्रत्यगात्मैव तेषां मुख्योऽर्थः ।
प्रक्रमादिना तात्पर्यसिद्धावपि उपजीव्यविरोधादप्रामाण्यमाशङ्क्य आह —
न चेत्यादिना ।
ज्येष्ठस्यापि पौर्वापर्यन्यायेन (जै० अ. ६ पा. ५ सू. ५४) बाधमाशङ्क्य आह —
तदपेक्षस्येति ।
आगमस्य किं स्वजन्यज्ञानगतप्रमितित्वे प्रत्यक्षापेक्षा, उत तदुत्पत्तौ । आद्ये, किं विपर्यासशङ्कानिरासाय, संवादाय वा ।
एतद्वयं निरस्य, द्वितीयं शङ्कते —
प्रमिताविति ।
आगमस्य किं प्रत्यक्षगतव्यावहारिकप्रामाण्येन विरोधः, उत तत्त्वावेदकत्वेन ।
नाद्य इत्याह —
नहीति ।
द्वितीयं प्रत्याह —
न च तदिति ।
एवमप्रामाण्यं निराकृत्य उपचरितार्थत्वं निरस्यति —
न चानन्यपरमिति ।
पूर्वं भेदाग्रहसिद्ध्यर्थमिदमुक्तम्, इदानीमुपजीव्यविरोधाभावाय । विधायके शब्दे परो लक्ष्यः शब्दार्थो न भवतीति शबरस्वामिनोक्तं तत्तुल्यं वेदान्तेष्वपि, अनधिगतार्थबोधित्वेन तत्परत्वसाम्यादिति ।
एवं तावदुपजीव्यत्वं प्रत्यक्षस्य निराकृत्य मुख्यत्वमात्रस्य प्राबल्यहेतुतां निराकरोति —
ज्येष्ठत्वं चेति ।
पौर्वापर्य इति ।
षष्ठे स्थितम् (जै. अ.६ पा. ५ सू. ५४) ज्योतिष्टोमेऽन्योन्यं संबध्य यज्ञशालातो निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं श्रूयते — यद्युद्गाता विच्छिन्द्याददक्षिणेन यजेत, यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति । तत्रोद्गातृप्रतिहर्त्रोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात्, किं पूर्वं कार्यमुत परमिति ˳ प्रकृतिवत्, यथा हि प्रकृतौ क्लृप्तोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकाङ्क्षिण्यां प्राप्ताः, कल्प्योपकारतया चरमभाविभिरपि शनैः निरपेक्षैः बाध्यन्ते, तद्वदिदमिति । नुपजातविरोधित्वात् पूर्वमिति पूर्वपक्षे, राद्धान्तः — पौर्वापर्ये सति निमित्तयोः, पूर्वस्य नैमित्तिकस्य, दौर्बल्यंम्, उत्तरस्य निरपेक्षस्य तद्बाधकतयोदितत्वात्, पूर्वोदयकाले उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । उक्तं हि – 'पूर्वं परमजातत्वात् अबाधित्वैव जायते । परस्यानन्यथोत्पादात् न त्वबाधेन संभवः॥ इति । प्रकृतिवत्, यथा हि प्रकृतौ क्लृप्तोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकाङ्क्षिण्यां प्राप्ताः, कल्प्योपकारतया चरमभाविभिरपि शनैः निरपेक्षैः बाध्यन्ते, तद्वदिदमिति । एवं तावच्छ्रुत्यादिगम्यात्मतत्त्वस्य अहंप्रत्ययेऽनवभासात् अविविक्तविषयत्वमुक्तम् ।
संप्रति वादिनिरूपितस्य आत्मनोऽनवभासादपि तदाह —
अपि चेति ।
सर्वगतात्मवादिनं प्रत्याह —
अहमिहेति ।
न हि तदैवमिति ।
तव मते अहंप्रत्ययस्य विविक्तात्मविषयलादित्यर्थः ।
ननु तत्र आत्मवचनोऽहंशब्दो देहे उपचर्यते, अत आह —
गौणत्वे वेति ।
भवतीत्यनुषङ्गः । उपचरितात्मभावस्य देहस्य ज्ञातृत्वानुपपत्तेः जानान इति प्रतीतिः न हि भवतीत्यर्थः । न च ज्ञातृत्वमपि देहे उपचर्यत इति वाच्यम् । वक्तुः स्वज्ञानप्रकाशनपरे वाक्ये तद्विरोधात् ।
अथ अहमालम्बने आत्मनि देहगतप्रादेशिकत्वमेव उपचर्यते, तर्हि देहात्मनोर्भेदो ग्रहीतव्यः, न च गृह्यते इत्याह —
अपि चेत्यादिना ।
अत्र गौणवादी प्रष्टव्यः, किं सिंहशब्दस्येव माणवके सांप्रतिकं देहादावहंशब्दस्य गौणत्वम्, उत सार्षपरसादौ तैलशब्दस्येव निरूढम् ।नाद्यः इत्याह —
परेति ।
प्रमाणलक्षणे स्थितम् – 'तत्प्रख्यं चान्यशास्त्रम्' (जै. अ. १ पा. ४ सू. ४) ।
अग्निहोत्रं जुहोतीति श्रूयते, तत्र संशयः, किमग्निहोत्रशब्दः अग्निदेवतागुणविधिः, उत कर्मनामेति ।
तत्राग्नये होत्रं हविरस्मिन्निति समासान्तवर्तिन्या चतुर्थ्या अग्नेः होमदेवतास्वप्रतीतेर्गुणविधिरिति प्राप्ते, राद्धान्तः – 'यदग्नये च प्रजापतये च सायं जुहोती'त्यग्नेः होमे देवतात्वप्रख्यापनात् प्राप्ते च विधिवैयार्थ्यात् नामधेयम् । न चात्र चतुर्थीसमाससंभवः, तादर्थ्यप्रकृतिविकारयोरभावात् — इति ।
एवं नित्याग्निहोत्रवाचिनः अग्निहोत्रशब्दस्य गुणादन्यत्र वृत्तिं वक्तुं मुख्यार्थात् गृहीतभेदं कर्मोदाहरति —
प्रकरणान्तरेति ।
भेदलक्षणे स्थितम् – 'प्रकरणान्तरे प्रयोजनान्यत्वम्' (जै. अ.२ पा. ३ सू. २४) । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति श्रूयते । अत्र किं नित्याग्निहोत्रे मासगुणो विधीयते, उत कर्मान्तरमिति । तत्र सत्यपि प्रदेशभेदे नाम्ना नित्याग्निहोत्रस्य बुद्धौ संनिधापनात् तत्समभिव्याहृतस्य जुहोतीत्याख्यातस्य तत्संनिधापितार्थपरत्वात् नित्याग्निहोत्रानुवादेन मासो विधीयते इति प्राप्ते, राद्धान्तः — न तावदत्र आख्यातेन होमानुवादेन मासः शक्यो विधातुम्, कात्वस्य पुरुषानिष्पाद्यत्वेन अनुपादेयत्वात् । नापि मासोद्देशेन नित्याग्निहोत्रविधिः, तस्यासन्निधेः । न च नाम तत्संनिधापयति, अन्यत्र जुहोतीत्याख्यातेन पूर्वापरीभूततयोक्तस्य सिद्धार्थबोधिना नाम्नाऽनुपस्थापनात् । तस्मात्प्रयोजनान्यत्वं विधेयभावनान्यत्वमिति ।
ननु अग्निहोत्रशब्दस्य कौण्डपायिने कर्मणि प्रयोगे किं प्रयोजनम्, न तावत् नित्याग्निहोत्रेण सह क्रियात्वादिसादृश्यबोधः, तस्य वैयर्थ्यात्, अत आह —
साध्येति ।
सप्तमे स्थितम् – 'उक्तं क्रियाभिधानं तच्छुतावन्यत्र विधिप्रदेशः स्यात् (जै. अ. ७ पा. ३ सू. १) । मासमग्निहोत्रमित्यत्रान्या चिन्ता, किमग्निहोत्रशब्दः नित्याग्निहोत्रधर्मानिह अतिदिशेत्, न वेति । तत्र यद्ययं गौणः स्यात्, तदा अग्निहोत्रवज्जुहोतीत्यतिदिशेत् तद्धर्मान्, न त्वयं गौणः, जुहोतिसामानाधिकरण्यस्य अत्रापि तुल्यत्वेन नामधेयत्वात्, अग्निदेवताविधानार्थत्वाद्वा, अतो नातिदिशेदिति प्राप्ते, सिद्धान्तः — न तावदत्र अग्निदेवता विधातुं शक्या, चतुर्थीसमासासंभवस्योक्तत्वात् । तत्र सिद्धे कर्मभेदे अनेकार्थस्य अन्याय्यत्वात्, एकत्र अग्निहोत्रशब्दः मुख्यः अपरत्र गौणः, नित्याग्निहोत्रे च नामप्रवृत्तिनिमित्तस्य अग्निदेवतासंबन्धस्य भावात् तत्रैव मुख्यता, अतः परशब्दः परत्र सादृश्यमुपादाय प्रवर्तते, तच्च सादृश्यं कर्तव्यार्थबोधकाख्यातसमभिव्याहृतनाम्ना अग्निहोत्रवज्जुहोतीति साध्यत्वेन विधेयमिति तत्सिद्ध्यर्थं नित्यधर्मानतिदिशेदिति । अतश्च नित्याग्निहोत्रधर्माणां द्रव्यदेवतादीनामतिदेशः गौणप्रयोगफलमित्यर्थः । क्रियाया नित्याग्निहोत्रस्य, अभिधानं नामधेयमग्निहोत्रपदमुक्तं तत्प्रख्याधिकरणे (जै. अ. १ पा. ४ सू. ४), तस्य अन्यत्र श्रवणे, विधिप्रदेशः विधेयधर्मातिदेशः स्यादिति सूत्रार्थः ।
लोकसिद्धसादृश्यां गौणीं वृत्तिमाह —
माणवके इति ।
प्रकृते भेदग्रहाभावमाह —
न त्विति ।
निष्कृष्य लुठितः प्रतिभासितो गर्भोऽसाधारणाकारो यस्य स तथा, तत्तया नानुभूयते, अनुभवे वा वादिविवादो न स्यादित्यर्थः ।
एवं सांप्रतिकीं गौणतां निरस्य निरूढां निराचष्टे —
न चात्यन्तेति ।
निरूढत्वं नाम प्रयोगप्राचुर्यात् मुख्यवद्भानम् । निरूढेऽपि गौणप्रयोगे नार्थयोस्तादात्म्यं प्रतीयते, प्रतीयते तु प्रकृते इति वैषम्यमित्यर्थः । तत् तस्माद्गौणत्वव्यापकं विवेकज्ञानमिह व्यावर्तमानं गौणतामपि व्यावर्तयति इत्येतत्सिद्धमित्यन्वयः ।
अभिज्ञारूपाहंप्रत्ययाद्विवेकासिद्धावपि प्रत्यभिज्ञारूपात् तत्सिद्धिमाशङ्क्याह —
न च बालस्थविरेति ।
आत्मैक्यं प्रत्यभिज्ञार्थः । भिन्नाभ्यामेकस्य भेदस्तु अनुमानात्, तच्च शास्त्रादृते न ज्ञेयमित्यर्थः ।
तर्हि परीक्षकाणां देहादौ अहंशब्दो गौणः, नेत्याह —
परीक्षका अपीति ।
अपरोक्षभ्रमो न यौक्तिकबाधादुच्छिद्यत इत्यर्थः । देहपरिमाणात्मपक्षे किमारब्ध आत्मा, उत अवयवसमुदायः ।
नाद्यः इत्याह —
अनित्यत्वेति ।
द्वितीये आत्मावयवानां चैतन्यं, समुदायस्य वा ।
नाद्यः इत्याह —
प्रत्येकमिति ।
द्वितीयेऽपि समुदायापत्तिः शरीरौपाधिकी वा, स्वत एव वा, काकतालीया वा ।
आद्यं निरस्य, द्वितीयं निरस्यति —
न च बहूनामिति ।
न तृतीय इत्याह —
य एवेति ।
यादृच्छिकसंश्लेष इव यादृच्छिकविश्लेषोऽपि स्यादिति स्वस्थानामेव अकस्मादचैतन्यापत्तिरित्यर्थः ।
यत् — गौणवादिना विवेकग्रहमुपपाद्य, कृशोऽहमित्यादिप्रत्ययानां गौणत्वमुक्तं, तदविवेकसिद्धौ निरस्तमित्याह —
एतेनेति ।
अहंप्रत्ययस्य अविविक्तविषयत्वे शास्त्रीयविषयसिद्धिमभिधाय प्रयोजनसिद्धिमप्याह —
तदेवमुक्तेति ।
पूति दुर्गन्धि कूष्माण्डफलमिव कृतस्तथोक्तः ।
तात्पर्यमुपवर्ण्य भाष्यं योजयति —
तदेवं सर्वप्रवादीत्यादिना ।
स्वरूपं अन्योन्यात्मकतान्योन्यधर्माध्यासौ । निमित्तं इतरेतराविवेकः । फलं व्यवहारः ।
अहमिदं शरीरमिति प्रतीत्यभावाद् भाष्यायोगमाशङ्क्याह —
वस्तुत इति ।
अहमिति प्रतीतेऽपि वास्तवमनात्मत्वमस्तीति इदंशब्दप्रयोग इत्यर्थः ।
धर्म्यध्यासाभावादुक्तं धर्माध्यासाभावं परिहरति —
अध्यस्तदेहादिभावे इति ।
धर्मिणोः तादात्म्याध्यासकार्यम् अहमिदमिति व्यवहारं प्रदर्श्य, धर्माध्यासकार्यं प्रदर्शयति —
ममेदमिति ।
ननु अध्यस्य व्यवहार इत्यनुपपन्नम्, भुक्त्वा व्रजतीतिवत् एकस्य क्रियाद्वये कर्तृत्वानभिधानात्, अत आह —
अत्र चेति ।
व्यवहारक्रियाक्षिप्तस्य कर्तुरध्यासेऽपि कर्तृत्वात् क्त्वाप्रत्ययः स्यादित्यर्थः॥