भामतीव्याख्या
वेदान्तकल्पतरुः
 

अत एव प्राणः ।

उद्गीथे “या देवता प्रस्तावमन्वायत्ता”(छा. उ. १ । १० । ९) इत्युपक्रम्य श्रूयते - “कतमा सा देवतेति प्राण इति होवाच”(छा. उ. १ । ११ । ४) उषस्तिश्चाक्रायणः । उद्गीथोपासनप्रसङ्गेन प्रस्तावोपासनमप्युद्गीथ इत्युक्तं भाष्यकृता । प्रस्ताव इति साम्नो भक्तिविशेषस्तमन्वायत्ता अनुगता प्राणो देवता । अत्र प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्शनात्संशयःकिमयं ब्रह्मवचन उत वायुविकारवचन इति । तत्र अत एव ब्रह्मलिङ्गादेव प्राणोऽपि ब्रह्मैव न वायुविकार इति युक्तम् । यद्येवं तेनैव गतार्थमेतदिति कोऽधिकरणान्तरस्यारम्भार्थः । तत्रोच्यते - “अर्थे श्रुत्यैकगम्ये हि श्रुतिमेवाद्रियामहे । मानान्तरावगम्ये तु तद्वशात्तद्व्यवस्थितिः” ॥ ब्रह्मणो वासर्वभूतकारणत्वं, आकाशस्य वा वाय्वादिभूतकारणत्वं प्रति नागमादृते मानान्तरं प्रभवति । तत्र पौर्वापर्यपर्यालोचनया यत्रार्थे समञ्जस आगमः स एवार्थस्तस्य गृह्यते, त्यज्यते चेतरः । इह तु संवेशनोद्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्येते आहो वायुविकारं प्रतीति विशये “यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति”(श. ब्रा. १० । ३ । ३ । ६) इत्यादिकायाः श्रुतेः सर्वभूतसारेन्द्रियसंवेशनोद्गमनप्रतिपादनद्वारा सर्वभूतसंवेशनोद्गमनप्रतिपादिकाया मानान्तरानुग्रहलब्धसामर्थ्याया बलात्संवेशनोद्गमने वायुविकारस्यैव प्राणस्य, न ब्रह्मणः । अपि चात्रोद्गीथप्रतिहारयोः सामभक्त्योर्ब्रह्मणोऽन्ये आदित्यश्चान्नं च देवते अभिहिते कार्यकारणसङ्घातरूपे, तत्साहचर्यात्प्राणोऽपि कार्यकारणसङ्घातरूप एव देवता भवितुमर्हति । निरस्तोऽप्ययमर्थ ईक्षत्यधिकरणे, पूर्वोक्तपूर्वपक्षहेतूपोद्बलनाय पुनरुपन्यस्तः । तस्माद्वायुविकार एवात्र प्राणशब्दार्थ इति प्राप्तम् । एवं प्राप्तेऽभिधीयते “पुंवाक्यस्य बलीयस्त्वं मानान्तरसमागमात् । अपौरुषेये वाक्ये तत्सङ्गतिः किं करिष्यति” ॥ नो खलु स्वतःसिद्धप्रमाणभावमपौरुषेयं वचः स्वविषयज्ञानोत्पादे वा तद्व्यवहारे वा मानान्तरमपेक्षते, तस्यापौरुषेयस्य निरस्तसमस्तदोषाशङ्कस्य स्वत एव निश्चायकत्वात् , निश्चयपूर्वकत्वाद्व्यवहारप्रवृत्तेः । तस्मादसंवादिनो वा चक्षुष इव रूपे त्वगिन्द्रियसंवादिनो वा तस्यैव द्रव्ये नादार्ढ्यं वा दार्ढ्यं वा । तेन स्तामिन्द्रियमात्रसंवेशनोद्गमने वायुविकारे प्राणे । सर्वभूतसंवेशनोद्गमने तु न ततो वाक्यात्प्रतीयेते । प्रतीतौ वा तत्रापि प्राणो ब्रह्मैव भवेन्न वायुविकारः । “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति”(कौ. उ. ३ । ३) इत्यत्र वाक्ये यथा प्राणशब्दो ब्रह्मवचनः । न चास्मिन्वायुविकारे सर्वेषां भूतानां संवेशनोद्गमने मानान्तरेण दृश्येते । नच मानान्तरसिद्धसंवादेन्द्रियसंवेशनोद्गमनवाक्यदार्ढ्यात्सर्वभूतसंवेशनोद्गमनवाक्यं कथञ्चिदिन्द्रिविषयतया व्याख्यानमर्हति, स्वतःसिद्धप्रमाणभावस्य स्वभावदृढस्य मानान्तरानुपयोगात् । न चास्य तेनैकवाक्यता । एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् । इन्द्रियसंवेशनोद्गमनं त्ववयुत्यानुवादेनापि घटिष्यते, एकं वृणीते द्वौ वृणीते इतिवत् । नतु सर्वशब्दार्थः सङ्कोचमर्हति । तस्मात्प्रस्तावभक्तिं प्राणशब्दाभिधेयब्रह्मदृष्ट्योपासीत , न वायुविकारदृष्ट्येति सिद्धम् । तथा चोपासकस्य प्राणप्राप्तिः कर्मसमृद्धिर्वा फलं भवतीति ।

वाक्यशेषबलेनेति ।

वाक्यात्संनिधानं दुर्बलमित्यर्थः । उदाहरणान्तरं तु निगदव्याख्यातेन भाष्येण दूषितम् ॥ २३ ॥

अत एव प्राणः॥२३॥ अतिदेशत्वात्सैव सङ्गतिः । अथ वा अनन्तवस्तुपरत्वादुपक्रमोपसंहारयोरस्त्वाकाशवाक्यं ब्रह्मपरम्, अत्र तु ब्रह्मासाधारणधर्मपरोपक्रमोपसंहारादर्शनान्न ब्रह्मपरतेति सङ्गतिः । अथवा आकाशवाक्यानन्तर्यात्प्राणवाक्यस्येति सङ्गतयः । विषयप्रदर्शकभाष्य उद्गीथ इत्युक्तं तदुद्गीथप्रकरणे प्रासङ्गिकं प्रस्तावोपासनमिति कथयितुमित्याह —

उद्गीथेति ।

पुरस्ताद्धि “परोवरीयासमुद्गीथमुपास्त’’ इत्युक्तं, ‘‘परस्ताच्चाथातः शौल्क उद्गीथ’’ इति , अतः प्रस्ताववाक्यं यद्यपि विषयः, तथापि प्रकरणशुद्ध्यर्थमुद्गीथग्रहणमित्यर्थः ।

श्लोकस्य पूर्वार्धं व्याचष्टे —

ब्रह्मणो वेति ।

नह्याकाशाद्वायूदयः प्रत्यक्षादियोग्यः, अतो वाक्यशेषाद्व्यक्तो ब्रह्मनिर्णयः ।

उत्तरार्धं विवृणॊति —

इह त्वित्यादिना ।

इह सर्वाणि ह वेति वाक्ये इत्यर्थः । भोगप्रत्यासत्तेरिन्द्रियाणां भूतसारत्वं ततः पधानेन सर्वभूतलक्षणया भूतोत्पत्तिलयौ वायाविति प्रत्यक्षानुगृहीतया श्रुत्योक्तं तस्याः संवादलब्धबलाया बलात्सर्वाणीति वाक्यं वायुविकारपरं व्याख्येयमिति । ‘‘कतमा देवतोद्गीथमन्वायत्तेत्यादित्य इति होवाच कतमा प्रतिहारमित्यन्नमिति‘‘ देवते अभिहिते ।

कार्यकारणसंघातरूपे इति ।

शरीरिण्यावित्यर्थः । अन्नमपि तदभिमानिदेवता । स्वत एव निश्चायकत्वात्स्वविषयज्ञानोत्पादे मानान्तरं नापेक्षते, निश्चयपूर्वकत्वाद्व्यवहारस्य स्वविषयव्यवहारे नापेक्षते, असंवादिनो वाक्यस्य स्वविषये नादार्ढ्यं रूप इव चक्षुषः त्वगिन्द्रिय संवादिनो न दार्ढ्यं चक्षुष इव द्रव्ये इति । येन प्रमाणानां संवादविसंवादावप्रयोजकौ तेन । यदा वै पुरुष इति वाक्यादिन्द्रियमात्रस्य सुप्तिसमये वायुविकारे संवेशनोद्गमने भवेताम्, नत्वेतावता सर्वभूतोत्पत्तिलयौ तदाश्रयौ योजयितुं शक्यौ; तयोस्तत्र वाक्ये प्रतीत्यभावात् ।

अथ पुनरिन्द्रियसारत्वात्सर्वभूतलक्षणा, तत्राह —

प्रतीतौ वेति ।

ननु कथं ब्रह्मैव भवेद्यावता सुप्तौ वायुविकारे लयः प्रमाणान्तरसिद्ध, तत्राह —

नचेति ।

इन्द्रियमात्रलयः प्रमाणान्तरदृष्टो, न भूतलयस्तेनाकाशवाक्यवद् ‘यदा वै’ इति वाक्येऽपि यदि सर्वभूतलयः प्रतीयेत, तर्हि वाक्यशेषाद् ब्रह्मनिर्णय इत्यर्थः । एवं तावत्स्वापवाक्यस्य भूतलयपरत्वमाश्रित्य तदनुसारेण सर्वाणि ह वेति वाक्यं वायुविकारे सर्वभूतलयं वक्तीति शङ्का निरस्ता ।

इदानीं तस्य यथाश्रुतेन्द्रियलयमात्रपरत्वमाश्रित्य तदनुरोधेनेदमपीन्द्रियलयपरं व्याख्यायते , तथाच न ब्रह्मलिङ्गसिद्धिरित्याशङ्क्याह —

न च मानान्तरेति ।

सर्वभूतसंवेशनस्य वाय्वाश्रयत्वयोजनायामुक्तं दूषणमिन्द्रियमात्रलयपरत्वयोजनायामपि संचारयति —

स्वतःसिद्धेति ।

ननु वाक्यभेदमभ्युपेत्य संवादिवाक्यबलादितरसङ्कोचं न वदामोऽपि त्वेकवाक्यतामत आह —

नचास्येति ।

‘यदा वै पुरुष’  इत्यस्य संवर्गविद्यागतत्वात् सर्वाणि ह वेत्यस्योद्गीथविद्यागतत्वादित्यर्थः ।

अभ्युपेत्याह —

एकवाक्यतायां वेति ।

नन्वेकवाक्यत्वे कुतो विनिगमना यतस्तद् ब्रह्मपरं, न पुनरिदमिन्द्रियमात्रलयपरमित्यत आह —

इन्द्रियेति ।

अवयुत्यवादः — एकदेशस्य विभज्य कथनम् । सर्वोत्पत्तिलयौ हि सर्वाणि ह वेत्यत्र प्रतीतौ । तत्रत्यसर्वशब्दानुरोधेन इन्द्रियमात्रोत्पत्तिलयकथनमेकदेशानुवादत्वेन घटिष्यते॥ एकं वृणीत इत्यादावर्षेयवरणे सर्वत्रापूर्वत्वाद्विधिमाशङ्क्य वर्तमानापदेशत्वाद्विधिः कल्प्यः । सर्वत्र च तत्कल्पने सकृच्छ्रुतस्य ‘ न चतुरो वृणीत’ इत्याद्यर्थवादस्य प्रतिविध्यावृत्तिः स्यात्, सा मा भूदित्येकत्र विधिकल्पना तत्रापि त्रीन् वृणीत इत्यत्रेव । तथा सति हि शते पञ्चाशदितिवद् द्वौ वृणीत इत्याद्यन्तर्भावादनुवादः स्यादिति षष्ठे (जै.सू.अ.६.पा.१.सू.४३) राद्धान्तितमेवमत्रापीत्यर्थः ।

चिन्ताप्रयोजनमाह —

तस्मादिति ।

भाष्ये — वाक्यशेषशब्दः एकवाक्यत्वपरः ।

इहहि स्ववाक्ये ब्रह्मलिङ्गं दृश्यते, अन्नादित्यसन्निधानं वाक्यान्तरसापेक्षमतः स्ववाक्यस्थलिङ्गं प्रबलमिति भाष्यार्थमाह —

वाक्यादिति ।

वाक्यस्य सन्निधानादत्र प्राबल्यं निरूप्यत इति न भ्रमितव्यम्; अत्र ब्रह्मवाचिपदाभावेन वाक्यत्वाभावात् । ‘कतमा सा देवतेति’ चेतनवाचिदेवताशब्दोपक्रमात् सैषा देवतेत्युपसंहाराच्च चेतनपरं वाक्यं न वायुविकारपरम् । अथ प्राणाभिमानिनी देवता लक्ष्येत, तर्हि तवापि समः श्रुतित्यागः, मम तु वाक्यशेषः साक्षीत्यभ्युच्चयः॥ चाक्रायणः किल ऋषिर्धनाय राज्ञो यज्ञमभिगम्य ज्ञानवैभवमात्मनः प्रकटयितुकामः प्रस्तोतारमुवाच हे प्रस्तोत, या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति । स भीतः पप्रच्छ कतमा सेति, प्रत्युक्तिः प्राण इति । प्राणमभिलक्ष्य संविशान्ति लयकाले , उत्पत्तिकाले उज्जिहते उद्गच्छन्ति । इति नवमं प्राणाधिकरणम्॥