भामतीव्याख्या
वेदान्तकल्पतरुः
 

आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।

यद्यपि “आकाशस्तल्लिङ्गात्” (ब्र. सू. १ । १ । २२) इत्यत्र ब्रह्मलिङ्गदर्शनादाकाशः परमात्मेति व्युत्पादितं, तथापि तद्वदत्र परमात्मलिङ्गदर्शनाभावान्नामरूपनिर्वहणस्य भूताकाशेऽप्यवकाशदानेनोपपत्तेरकस्माच्च रूढिपरित्यागस्यायोगात् , नामरूपे अन्तरा ब्रह्मेति च नाकाशस्य नामरूपयोर्निर्वहितुरन्तरालत्वमाह, अपि तु ब्रह्मणः, तेन भूताकाशो नामरूपयोर्निर्वहिता । ब्रह्म चैतयोरन्तरालं मध्यं सारमिति यावत् । न तु निर्वोढैव ब्रह्म, अन्तरालं वा निर्वाढृ । तस्मात्प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति प्राप्तम् ।

एवं प्राप्त उच्यते - परमेवाकाशं ब्रह्म,

कस्मात् , अर्थान्तरत्वादिव्यपदेशात् ।

नामरूपमात्रनिर्वाहकमिहाकाशमुच्यते । भूताकाशं च विकारत्वेन नामरूपान्तःपाति सत् कथमात्मानमुद्वहेत् । नहि सुशिक्षितोऽपि विज्ञानी स्वेन स्कन्धेनात्मानं वोढुमुत्सहते । नच नामरूपश्रुतिरविशेषतः प्रवृत्ता भूताकाशवर्जं नामरूपान्तरे सङ्कोचयितुं सति सम्भवे युज्यते । नच निर्वाहकत्वं निरङ्कुशमवगतं ब्रह्मलिङ्गं कथञ्चित्क्लेशेन परतन्त्रे नेतुमुचितम् “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” (छा. उ. ६ । ३ । २) इति च स्रष्टृत्वमतिस्फुटं ब्रह्मलिङ्गमत्र प्रतीयते । ब्रह्मरूपतया च जीवस्य व्याकर्तृत्वे ब्रह्मण एव व्याकर्तृत्वमुक्तम् । एवं च निर्वहितुरेवान्तरालतोपपत्तेरन्यो निर्वहिताऽन्यच्चान्तरालमित्यर्थभेदकल्पनापि न युक्ता । तथा च ते नामरूपे यदन्तरेत्ययमर्थान्तरव्यपदेश उपपन्नो भवत्याकाशस्य । तस्मादर्थान्तरव्यपदेशात् , तथा “तद्ब्रह्म तदमृतम्”(छा. उ. ८ । १४ । १) इति व्यपदेशाद्ब्रह्मैवाकाशमिति सिद्धम् ॥ ४१ ॥

आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥४१॥ अत्राकाशब्रह्मश्रुतिभ्यां संशयः। ‘‘सर्वाणि भूतान्याकाशादेव समुत्पद्यन्ते’’ इत्यत्र हि सर्वजगदुत्पत्तेः, एवकारावगतेर्निरपेक्षकारणत्वस्य, प्रत्युक्तिसामानाधिकरण्यसामर्थ्यस्य च दर्शनाद् ब्रह्मपरत्वम्, नैवमिहेत्यगतार्थत्वमाह –

तथापीति ।

हेतूनां प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति वक्ष्यमाणेनान्वयः।

अनन्तराधिकरणेनागतार्थत्वसंगतिं वक्ति –

अकस्माच्चेति ।

पूर्वत्र हि प्रकरणादानर्थक्यहतश्रुतिर्नीता, इह तु न ब्रह्मप्रकरणम्; नाप्याकाशश्रुतेरानर्थक्यम्, नामरूपाधिष्ठानब्रह्मप्रतिपत्त्यर्थत्वात् आकाशस्येति भावः।

तर्हि नामरूपान्यत्वं ब्रह्मणो लिङ्गम्, ब्रह्मशब्दश्रुतिश्च नेत्याह –

नामरूपे इति ।

नामरूपे अन्तरा ब्रह्मेति श्रुतिर्नामरूपयोर्निर्वहितुराकाशस्यान्तरालत्वं नाचष्टे, किंतु ब्रह्मणः।

ततः किमत आह –

तेनेति ।

निषेधमुखेनैतदेव विशदयति –

न त्विति ।

निर्वोढा य आकाशः स नैव ब्रह्म। अन्तरालभूतं वा यद् ब्रह्म तदपि नैव निर्वोढ्रित्यर्थः। एवं च ब्रह्मशब्दश्रुतिरपि ब्रह्मण्येव नाकाश इत्युक्तम्।

अभिधानाभिधेयनामरूपनिर्वाहकत्वं नियन्तृत्वम्, तन्न नभसि सत्यप्यवकाशदातृत्वे घटत इत्याह –

न चेति ।

नामरूपकर्तृत्वेन वाक्यान्तरगतब्रह्मप्रत्यभिज्ञामाह –

अनेनेति ।

नन्वनेन जीवनेत्यत्रानुप्रवेशव्याकरणयोः क्त्वाप्रत्ययेनैककर्तृकत्वं प्रतीयते, अनुप्रवेशे च जीवः कर्तेति स एव व्याकरणेऽपि कर्ता स्यात्तथा च न व्याकर्तृत्वादिह ब्रह्मप्रत्यभिज्ञा, अत आह –

ब्रह्मरूपतया चेति ।

जीवस्य व्याकर्तृत्वप्रतीतावपि न विरोधस्तस्य ब्रह्माभेदादित्यर्थः॥४१॥

इति द्वादशं अर्थान्तरत्वाधिकरणम्॥