न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।
अवान्तरसङ्गतिमाह -
एवं परिहृतेऽपीति ।
पञ्चजना इति हि समासार्थः पञ्चसङ्ख्यया सम्बध्यते । नच “दिक्सङ्ख्ये संज्ञायाम्”(पा.सू. २।१।५०) इति समासविधानान्मनुजेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम् । तथाहि सति पञ्चमनुजा इति स्यात् । एवं चात्मनि पञ्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् । तस्माद्रूढेरसम्भवात्तत्त्यागेनात्र योग आस्थेयः । जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः । तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् । तत्र पौर्वापर्यपर्यालोचनया कण्वमाध्यन्दिनवाक्ययोर्विरोधात् । एकत्र हि ज्योतिषा पञ्चत्वमन्नेनेतरत्र । नच षोडशिग्रहणवद्विकल्पसम्भवः । अनुष्ठानं हि विकल्प्यते न वस्तु । वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् । तस्मात्कानिचिदेव तत्त्वानीह पञ्च प्रत्येकं पञ्चसङ्ख्यायोगीनि पञ्चविंशतितत्त्वानि भवन्ति । साङ्ख्यैश्च प्रकृत्यादीनि पञ्चविंशतितत्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि । न चाधारत्वेनात्मनो व्यवस्थानात्स्वात्मनि चाधाराधेयभावस्य विरोधात् आकाशस्य च व्यतिरेचनात् त्रयोविंशतिर्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् । सत्यप्याकाशात्मनोर्व्यतिरेचने मूलप्रकृतिभागैः सत्त्वरजस्तमोभिः पञ्चविंशतिसङ्ख्योपपत्तेः । तथाच सत्यात्माकाशाभ्यां सप्तविंशतिसङ्ख्यायां पञ्चविंशतितत्त्वानीति स्वसिद्धान्तव्याकोप इति चेत् , न मूलप्रकृतित्वमात्रेणैकीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वोपपत्तेः । हिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधः । तस्मान्नाशाब्दी साङ्ख्यस्मृतिरिति प्राप्तम् ।
मूलप्रकृतिः प्रधानम् । नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम् -
मूलेति ।
महदहङ्कारपञ्चतन्मात्राणि प्रकृतयश्च विकृतयश्च । तथाहि - महत्तत्त्वमहङ्कारस्य तत्त्वान्तरस्य प्रकृतिर्मूलप्रकृतेस्तु विकृतिः । एवमहङ्कारतत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत् पञ्चतन्मात्राणाम् । तदेव सात्त्विकं सत् प्रकृतिरेकादशेन्द्रियाणाम् । पञ्चतन्मात्राणि चाहङ्कारस्य विकृतिराकाशादीनां पञ्चानां प्रकृतिः ।
तदिदमुक्तम् -
महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः ।
षोडशसङ्ख्यावच्छिन्नो गणो विकार एव । पञ्चभूतान्यतन्मात्राण्येकादशेन्द्रियाणीति षोडशको गणः । यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः । तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं नोपादानमात्रत्वमित्यविरोधः । पुरुषस्तु कूटस्थनित्योऽपरिणामो न कस्यचित्प्रकृतिर्नापि विकृतिरिति ।
एवं प्राप्तेऽभिधीयते -
न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वाशङ्का कर्तव्या । कस्मात् नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि । नैषां पञ्चशः पञ्चशः साधारणधर्मोऽस्ति ।
न खलु सत्त्वरजस्तमोमहदहङ्काराणामेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानाम् । नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् । नापि पाणिपादपायूपस्थमनसां, येनैकेनासाधारणेनोपगृहीताः पञ्च पञ्चका भवितुमर्हन्ति ।
पूर्वपक्षैकदेशिनमुत्थापयति -
अथोच्येत पञ्चविंशतिसङ्ख्यैवेयमिति ।
यद्यपि परस्यां सङ्ख्यायामवान्तरसङ्ख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः सम्भवात् पौर्वापर्यलक्षणया प्रत्यासत्त्या परसङ्ख्योपलक्षणार्थं पूर्वसङ्ख्योपन्यस्यत इति दूषयति -
अयमेवास्मिन्पक्षे दोष इति ।
न च पञ्चशब्दो जनशब्देन समस्तोऽसमस्तः शक्यो वक्तुमित्याह -
परश्चात्र पञ्चशब्द इति ।
ननु भवतु समासस्तथापि किमित्यत आह -
समस्तत्वाच्चेति ।
अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न साङ्ख्यस्मृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याह -
न च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।
न चैका पञ्चसङ्ख्या पञ्चसङ्ख्यान्तरेण शक्या विशेष्टुम् । पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यवचनत्वेन सङ्ख्याया उपसर्जनतया विशेषणेनासंयोगादित्याह -
एकस्याः पञ्चसङ्ख्याया इति ।
तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयति -
नन्वापन्नपञ्चसङ्ख्याका जना एवेति ।
अत्र तावद्रूढौ सत्यां न योगः सम्भवतीति वक्ष्यते ।
तथापि यौगिकं पञ्चजनशब्दमभ्युपेत्य दूषयति -
युक्तं यत्पञ्चपूलीशब्दस्येति ।
पञ्चपूलीत्यत्र यद्यपि पृथक्त्वैकार्थसंवायिनी पञ्चसङ्ख्यावच्छेदिकास्ति तथापीह समुदायिनोऽवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसङ्ख्या सम्बध्यते पञ्चेति । पञ्चजना इत्यत्र तु पञ्चसङ्ख्ययोत्पत्तिशिष्टया जनानामवच्छिन्नत्वात्समुदायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिहिता सङ्ख्या सम्बध्यते ।
स्यादेतत् । सङ्ख्येयानां जनानां मा भूच्छब्दान्तरवाच्यसङ्ख्यावच्छेदः । पञ्चसङ्ख्यायास्तु तयावच्छेदो भविष्यति । नहि साप्यवच्छिन्नेत्यत आह -
भवदपीदं विशेषणमिति ।
उक्तोऽत्र दोषः । नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव तावत्सङ्ख्येयोपसर्जनसङ्ख्यामाह विशेषतस्तु पञ्चजना इत्यत्र समासे । विशेषणापेक्षायां तु न समासः स्यात् , असामर्थ्यात् । नहि भवति ऋद्धस्य राजपुरुष इति समासोऽपि तु (पद)वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति । सापेक्षत्वेनासामर्थ्यादित्यर्थः ।
अतिरेकाच्चेति ।
अभ्युच्चयमात्रम् । यदि सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धान्तव्याकोपः । अथ तु सत्त्वरजस्तमांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तुतत्त्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यताम् । आधेयान्तरेभ्यस्त्वाकाशस्याधेयस्य व्यतिरेचनमनर्थकमिति गमयितव्यम् ।
कथं च सङ्ख्यामात्रश्रवणे सतीति ।
'दिक्सङ्ख्ये संज्ञायाम्” इति संज्ञायां समासस्मरणात् पञ्चजनशब्दस्तावदयं क्वचिन्निरूढः । नच रूढौ सत्यामवयवप्रसिद्धेर्ग्रहणं, सापेक्षत्वात् , निरपेक्षत्वाच्च रूढेः । तद्यदि रूढौ मुख्योऽर्थः प्राप्यते ततः स एव ग्रहीतव्योऽथ त्वसौ न वाक्ये सम्बन्धार्हः पूर्वापरवाक्यविरोधी वा । ततो रूढ्यपरित्यागेनैव वृत्त्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमुपपादनीयम् । यथा “श्येनेनाभिचरन् यजेत” इति श्येनशब्दः शकुनिविशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसादृश्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दोऽवयवार्थयोगानपेक्ष एकस्मिन्नपि वर्तते । यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते । न चैष तत्त्वेषु रूढः । पञ्चविंशतिसङ्ख्यानुरोधेन तत्त्वेषु वर्तयितव्यः । रूढौ सत्यां पञ्चविंशतेरेव सङ्ख्याया अभावात्कथं तत्त्वेषु वर्तते ॥ ११ ॥
एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात् , प्राणादीनां च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः । नच काण्वमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति साम्प्रतम् , विरोधेऽपि तुल्यबलतया षोडशिग्रहणवद्विकल्पोपपत्तेः । न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः, “मनसैवानुद्रष्टव्यम्” (बृ. उ. ४ । ४ । १९) इति विधिश्रवणात् ।
कथं पुनः प्राणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः । पञ्चजनशब्द इति यावत् । तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।
रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयति -
जनसम्बन्धाच्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।
ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, सम्भवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आह -
समासबलाच्चेति ।
स्यादेतत् । समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगोऽश्वकर्णादिवद्वृक्षादिषु । तथाच लोकप्रसिद्ध्यभावान्न रूढिरित्याक्षिपति -
कथं पुनरसतीति ।
जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं समाधत्ते -
शक्योद्भिदादिवदिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।
परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह -
कैश्चित्त्विति ।
शेषमतिरोहितार्थम् ॥ १२ ॥ ॥ १३ ॥
न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च॥११॥ पञ्च पञ्चजना इति सांख्यीयतत्त्वपरम् उत अर्थान्तरपरमिति योगरूढ्यविनिगमाद्विशयः। पूर्वत्राध्यात्मप्रकरणे रूढच्छागाया असंबन्धाद् अजा तेजआदिकेत्युक्तम् इहापि रूढेर्मनुष्यग्रहे वाक्यस्य निस्तात्पर्यप्रसङ्गादवयववृत्त्या सांख्यस्मृततत्त्वपरतेत्यवान्तरसङ्गतिम् अधिकरणसङ्गतिमाहेत्यर्थः। ननूपसर्जनस्य संख्यायाः संख्यान्तरेण विशेषणायोगात् कथं पञ्चविशतिलाभोऽत आह –
पञ्चजना इति ।
हीति विशेष्यजनैः संख्यान्तरान्वय इत्यर्थः। न च पञ्चसंख्यावच्छेदाद् जनानां नैराकाङ्क्ष्यम्; संख्यान्तरश्रवणे सति रक्तपटन्यायेन आकाङ्क्षोत्थापनादिति।
वाक्यस्य निस्तात्पर्ये तात्पर्याभावे हेतुरुक्तः –
सर्वस्यैवेति ।
जायन्त इति व्युत्पत्या जनशब्दव्याख्या।
ननु रूढ्यत्यागेन मनुष्यसंबन्धिनः प्राणादयो लक्ष्यन्ते, तथा च न निस्तात्पर्यमत आह –
तत्रापीति ।
रूढ्यर्थग्रहेऽपीत्यर्थः।
वाक्यविरोधं व्यनक्ति –
एकत्र हीति ।
आत्माकाशव्यतिरिक्तानां त्रयोविंशतितत्त्वानामपि प्रधानस्य त्रिधाकरणात् पञ्चविंशतित्वं श्रुतौ।
स्मृतौ तु तत्त्वेष्वात्माकाशावन्तर्भाव्य प्रधानं चाभित्वा पञ्चविंशतितत्त्वगणनेत्यविरोधमाह –
न चाधारत्वेनेत्यादिना ।
हिरुग्भावेन पृथग्भावेन।
भाष्ये उदाहृतां मायां व्याख्याति–
मूलेति ।
महानित्यध्यवसायात्मिका बुद्धिरुच्यते। अहङ्कारोऽभिमानालक्षणः। तन्मात्राणि सूक्ष्मभूतानि, पञ्च भूतानि स्थूलानि। अहङ्कारतत्त्वम् उद्भूततमस्कम्। प्रकृतिस्तन्मात्राणाम्। उत्कटसत्त्वं त्विन्द्रियाणाम्। रजस्त्वहङ्कारंगं गुणद्वयप्रवृत्तिहेतुर्नारम्भकमित्यर्थः।
ननु षोडशको विकार एवेति कथं? पृथिव्यादीनां घटादिप्रकृतित्वादत आह –
यद्यपीति ।
न ते पृथिव्यादिभ्यः तत्त्वान्तरमिति ।
उभयेषां स्थूलतेन्द्रियग्राह्यता च समेति न तत्त्वान्तरतेत्यर्थः।
आकाशात्मनौ विहाय या पञ्चविंशतिरुदिता तस्यां नावन्तरत्वेन पञ्चसंख्यानिवेश इत्याह –
न खल्विति ।
उद्रिक्ताकाशानां पृथिव्यादीनां ज्ञानेन्द्रियेभ्यो घ्राणमादाय पूरणमयुक्तम्, तेषां तस्य च साधारणोपाध्यभावादित्याह –
नापीति ।
तथा घ्राणातिरिक्तानां ज्ञानेन्द्रियाणां कर्मेन्द्रियेभ्यो वाचमाहृत्य न पञ्चसंख्या निवेश्येत्याह –
नापि रसनेति ।
तथोद्रेचितवाचां कर्मेन्द्रियाणां न मनसा पञ्चत्वलाभ इत्याह –
नापि पाणीति ।
समासार्थसंख्यान्तरेण विशिष्यत इति ।
साक्षात्पूर्ववादिनि निरस्ते समासं पञ्चजनशब्देऽनभ्युपगच्छन्तमुत्थापयतीत्याह –
पूर्वपक्षैकदेशिनमिति ।
अस्यायमभिप्रायः - यद्यप्यत्र नानाभावान्न सन्ति पञ्च संख्याः, तथापि पञ्च पञ्च पूल्य इत्यादौ पञ्चविंशतिसंख्यायाः पञ्चभिः पञ्चसंख्याभिरविनाभावादिह ता निर्दिश्यमानाः स्वाव्याप्तां महासंख्यां लक्षयन्तीति।
ननु तत्रापि कथं महासंख्याया अवान्तरसंख्याभिः संबन्धः? अपेक्षाबुद्धिनाशे तन्नाशादित्याशङ्क्य साहचर्याभावेऽपि हेतुहेतुमद्भावोस्ति संबन्धो लक्षणाबीजमित्याह –
यद्यपीत्यादिना ।
अपिशब्देन विद्यत एव अर्थात्मना महासंख्यास्ववान्तरसंख्या, परं त्वपरिच्छेदिकेति सूचितम्।
एवमसमासमभ्युपेत्य लक्षणैव दोष इत्यभिधायाभ्युपगमं त्यजति –
न च पञ्चशब्द इति ।
भाष्ये भाषिकेण स्वरेणेति । तस्यार्थः; अत्र मन्त्रे प्रथमः पञ्चशब्द आद्युदात्तः। द्वितीयः सर्वानुदात्तः। जनशब्दश्चान्तोदात्तः। तथा न द्वितीयपञ्चशब्दजनशब्दयोः समासादृते आकारस्यान्त्यस्योदात्तत्वमितरेषां चानुदात्तत्वं घटते; सामासस्येति सूत्रेण समासस्यान्तोदात्तत्वविधानात्, अनुदात्तं पदमेकवर्जमिति सूत्रेण यस्मिन् पदे उदात्तः स्वरितो वा विधीयते तमेकं विहाय शिष्टस्यानुदात्तत्वस्मरणाच्च। एवं मन्त्रान्तोदात्तस्वरबलात् समासो निरणायि। भाषिकसंज्ञके तु शतपथब्राह्मणस्वरविधायकग्रन्थे स्वरितोऽनुदात्तो वेति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणे उदात्तो भवतीत्यपवाद आश्रितः। तत आकारादितरेषामनुदात्तानां ब्राह्मणे उदात्तत्वम्। उदात्तमनुदात्तमनन्त्यमिति सूत्रेण च मन्त्रदशायामुदात्तस्यानन्त्यस्य परलग्नतया उच्चार्यास्यानुदात्तत्वं विहितम्। ततश्च नकारोपरितन आकार आकाशश्चेत्यनेन संलग्नत्वेनोच्चार्यमाणोऽनुदात्तो भवति। सति चैवमन्तानुदात्तस्वरो भाषिकग्रन्थसिद्धो इति भाष्ये उक्तम्। ये तु – छन्दोगा बह्वृचाश्चैव तथा वाजसनेयिनः। उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते॥ इति वचनमुदाहृत्यान्तोदात्तो भाषिक इति व्याचक्षते; तेषामध्ययनविरोधः। अन्तानुदात्तं हि समाम्नातारः पञ्चजनपदमधीयते इति॥ हे आज्य त्वा पञ्चजनानां कृते गृह्णामीति मन्त्रैकदेशस्यार्थः। असमासमभ्युपेत्यैव द्विः पञ्चशब्दप्रयोगे दशानामेव लाभान्न सांख्यस्मृतिप्रत्यभिज्ञानमित्याहेति योजना।
असमासपक्षे एव वीप्सां विहाय विशेषणपक्षमाशङ्क्याह –
न चैकेति ।
शुक्लादिशब्दवत् पञ्चशब्दस्य संख्यामुपसर्जनं कृत्वा प्राधान्येन द्रव्यपरत्वात् गुणीभूतसंख्याया न संख्यान्तरेण विशेषणम्। तथा सति विशेष्येण द्रव्येण विशेषणेन च संख्यया युगपदाकृष्यमाणा संख्या नैकेनाप्यन्वियादित्यर्थः।
तदेवमिति ।
नानाभावेन दूषितमपि परमपूर्वपक्षिणं संख्यान्तरानाकाङ्क्षानोपसर्जनन्यायाभ्यां दूषयितुं पुनरुत्थापयतीत्यर्थः।
रूढौ सत्यामिति ।
तद्द्वारा प्राणादिषु लक्षणायां च सत्यामित्यर्थः।
अनाकाङ्क्षां दर्शयति –
पञ्चपूलित्यत्रेति ।
पृथक्त्वैन सहैकस्मिन्नर्थे या समवैति सा तथोक्ता। ईबन्तद्विगुसमासेन समाहाराभिधानात् पदान्तरोपात्तसंख्यया समाहारोऽवच्छेद्यः, उत्पत्तिशिष्टया तु समानपदस्थया समाहारिणः पूला अवच्छेद्या इति पञ्चपूलीत्यत्रास्त्याकाङ्क्षा, पञ्चजना इत्यत्र त्वीबन्तत्वाश्रवणात् समाहाराप्रतीतेर्जनानां च स्वपदगतसंख्यायाऽवच्छिन्नत्वान्न संख्यान्तराकाङ्क्षेत्यर्थः। विजातीयविशेषणान्तरप्रयोगे च रक्तपटन्यायो न सजातीये प्रयोगे, न हि भवति रक्तपटो रक्त इति।
इहापि पक्षे नोपसर्जनन्यायमवतारयिष्यन्नाशङ्कते –
स्यादेतदिति ।
न हि सापीति ।
आत्माश्रयप्रसङ्गान्न संख्या तयाऽवच्छिद्यते। अतः संख्यान्तराकाङ्क्षेत्यर्थः।
तत्र चोक्तो दोष इति परिहारभाष्यार्थमाह –
उक्त इति ।
पञ्चशब्दस्य संख्योपसर्जनद्रव्यवाचकत्वादुपसर्जनसंख्याया न शब्दान्तरोक्तसंख्यासंबन्ध इत्यसमासवत् समासेऽपि दोषः। समासे तु पञ्चशब्दोपात्तसंख्याया जनशब्दार्थं प्रति विशेषणतत्वाच्च न विशेषणान्वयः।
ननूपसर्जनस्यापि विशेषणन्वयः किं न स्यादत आह –
विशेषणापेक्षायां त्विति ।
नैरपेक्ष्यं हि सामर्थ्यं, साकाङ्क्षत्वे सति स्वविशेषणेनाकृष्यमाणस्य न विशेष्यान्तरान्वय इत्यसमासः स्यादित्यर्थः।
सापेक्षस्यासमासे उदाहरणमाह –
न हि भवतीति ।
ऋद्धविशेषणापेक्षस्य राज्ञो न पुरुषेण समासः, अपि तु पदवृत्तिरेवंप्रकारा ऋद्धस्य राज्ञ इतीति।
उदाहृतभाष्यस्यायमर्थः इत्याह –
इत्यर्थ इति ।
प्रधानं त्रिधा भित्त्वा अतिरेकसमाधानादभ्युच्चयमात्रत्वमिति चेत् का तर्हि गमनिकाऽत आह –
यदीति ।
प्रधानं भित्त्वा संख्योपपादनेऽपि तव नोपास्तिपरं वचनमिति यथावस्तु वक्तव्यम्। तत्राधारत्वेन भोक्तुरात्मनो भोग्यप्रतिष्ठाहेतुत्वेन पृथक्कारेऽप्याकाशपृथक्कारो निष्प्रयोजन इत्यर्थः।
कथं चेति भाष्यमयुक्तम्; पञ्चसंख्याद्वयात् पञ्चविंशतिसिद्धेरित्याशङ्क्याह –
दिक्संख्ये इति ।
दिक्संख्यावाचिशब्दौ संज्ञायां गम्यमानायाम् उत्तरपदेन समस्येते यथा दक्षिणाग्निः सप्तऋषयः इति सूत्रार्थः। एवं च एकैव पञ्चसंख्या द्वितीयपञ्चशब्दस्य संज्ञा समासगतस्य न संख्यार्थतेति ग्रन्थार्थः।
यद्यप्यवयवाभिधानसापेक्षयोगात् निरपेक्षरूढिर्बलीयसी; तथापीह रूढमनुष्यग्रहणं निस्तात्पर्यमुक्तमित्यत आह –
तद्यदीति ।
इह मनुष्या वाक्ये न संबन्धार्हा अजामन्त्रे त्वध्यात्माधिकाराच्छागा पूर्वापरवाक्यविरोधिनीति।
रूढेर्योगे ऽपहृते रूढ्यर्थसंबन्धात् तद्गुणाद्वा अर्थान्तरवृत्तिसिद्धौ शब्दस्य न योगः कल्प्य इत्यत्रोदाहरणमाह –
यथेति ।
उक्तं ह्यर्थवादेन यथा वै श्येनो निपत्यादत्त एवमयं द्विषन्तं भ्रातृत्वं निपत्यादत्ते यमभिचरति श्येनेनेति।
दार्ष्टान्तिकमाह –
तथेति ।
अवयवार्थभूतपञ्चसंख्यासंबन्धानपेक्ष एकस्मिन्नपि मनुष्ये वर्तते। ‘‘स्युः पुमांसः पञ्चजनाः पुरुषाः नरा’’ इत्यमरो हि जगौ। मनुष्ये रूढश्च पञ्चजनशब्दस्तत्संबन्धात्प्राणादिषु लक्षणया वर्त्स्यतीति वक्ष्यतीति।
ननु रूढिरपि तत्त्वेष्वस्तु, किं लक्षणया ऽत आह न चैष इति॥११॥ अस्तु तर्हि तत्त्वेषु लाक्षणिकः पञ्चजनशब्दो नेत्याह –
एवं चेति ।
यच्चोक्तं वाक्यशेषयोर्विरोधान्न प्राणादयः पञ्चजना इति तत्राह –
न च काण्वेति ।
यच्च वस्तुनि न विकल्प इति, तत्राप्याह –
न चेयमिति ।
उत्तरे मन्त्रे विधिश्रवणं, तत्रान्वयव्यतिरेकसिद्धतयाऽनूदिताऽप्युपास्तिः पुंसा विकल्पेन कर्तुं शक्येत्यर्थः।
जनानां वाचकत्वेन संबन्धी शब्दो जनशब्द इति व्याख्यानाभावे दोषमाह –
अन्यथेति ।
प्रत्यस्तमितोऽवयवार्थो यस्मिन् समुदायशब्दार्थे सिद्धान्त्यभिमते प्राणादौ जनशब्दस्य समुदायैकदेशस्यार्थो नास्तीति जनशब्दस्य प्राणादौ कथं प्रयोग इति यच्चोद्यं तदचोद्यं स्यादनुक्तोपालम्भत्वादित्यर्थः। भाष्ये समाने रूढ्यतिक्रमे वाक्यशेषवशात् प्राणादयो ग्रहीतव्या इति प्राणादीनां लक्षणार्हत्वमुक्तम्। वाक्यग्रहणं तेषां प्रमितत्वार्थम्। शेषग्रहणं सन्निहितत्वायेति लक्षणां दर्शयति।
जनसंबन्धाच्चेति भाष्यम् तस्य भावमाह –
रूढ्यपरित्यागेनेति ।
रूढार्थसंबन्धादर्थान्तरप्रतीतिसिद्धौ न योगवृत्तिः प्रधानादौ कल्प्येति भाष्यार्थः।
कल्प्या रूढिर्योगाद् दुर्बलेत्याशङ्क्य सूत्रात् क्लृप्तिमाह –
ननु सत्यामिति ।
नोपसर्जनन्यायातिरेकौ करेणापिधाय संभवति चेत्युक्तम्।
प्रयोगानुसारित्वाद् व्याकरणस्य तदभावान्न रूढिरित्याशङ्कते –
स्यादेतदिति ।
मनुष्येषु पञ्चजनशब्दस्य लोके एव प्रयोगात्तत्संबन्धात्प्राणादिषु वृत्त्युपपत्तिं स्फुटां जनसंबन्धाच्चेति भाष्यासूचितां पृथङ्न वक्ति भगवान् भाष्यकारः, प्रौढ्या तु रूढिं समर्थयते इत्याह –
जनेष्विति ।
स्थवीयस्तया स्फुटतयेत्यर्थः। शक्योद्भिदादिवदिति भाष्ये - उद्भिदधिकरणं (जै.सू.अ.१ पा ४ सू.२) उदाहृतं, तदेवम् - उद्भिदा यजेत पशुकाम इत्यत्रोद्भित्पदं कर्मनामोत विधेयगुणसमर्पकमिति संशये उद्भिच्छब्दस्य खनित्रादौ प्रसिद्धेः, नामेव च यजिसमानार्थत्वेनानर्थक्याद् ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तः। अत्र हि यजेतेति यागेन भावयेदित्यर्थः। तथा चोद्भिदेति तृतीयान्तपदं यजिसामानाधिकरण्यात् यागनाम स्यात्। चेदं वचनं गुणं शक्नोति विधातुम्; द्रव्ययागयोर्भेदादुद्भिदा यागेनेति सामानाधिकरण्याऽयोगात्, उद्भिद्वतेति कल्पने मत्त्वर्थलक्षणापातात्, उद्भिदा यागं भावयेद्यागेन पशुमिति वैयधिकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति वैरूप्यापातात्, विध्यावृत्त्या वाक्यभेदाच्च। उद्भिनत्ति साधयति पशुमिति योगेऽपि प्रसिद्धिः स्यात्। न च नामवैयर्थ्यम्; अत्र नामत्वसिद्धावन्यत्र समे दर्शपौर्णमासाभ्यां यजेत् दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादौ नामवद्यागानुवादेन गुणफलविधिसंभवात्। न च ज्योतिष्टोमः प्रकृतो, यत्र गुणो विधीयते। तस्मान्नामधेयमिति।। एवं यथा सन्निहितयज्यनुरोधेनोद्भित्पदं यागनामधेयमेवं सन्निहितवाक्यशेषात् पञ्चजनशब्दः प्राणादिषु रूढ इति भाष्यार्थः। यद्यप्युद्भित्पदं यौगिकम्; तथापि सामानाधिकरण्यादवगते नामत्वेऽवयवानुगमः क्रियत इति रूढितुल्यत्वाद्भाष्ये रूढित्वोक्तिः॥१२॥१३॥ यस्मिन्नव्याकृताख्य आकाशश्च प्रतिष्ठितः, तमेव निष्प्रपञ्चं ब्रह्मात्मकममृतमात्मानं मन्ये। त्वं किं विद्वान् मर्तव्यादन्योऽमर्त्यः, न; किं तर्ह्यहमप्यविद्यया मर्त्यः। विद्वांस्तु सन्नमृतब्रह्मात्मक इति मन्त्रदृशो वचनं प्राणादीनां जीवनादिहेतूनां जीवनादिप्रदं त्वंपदलक्ष्यं ये विदुस्ते तस्य स्वरूपं पुराणं चिरन्तनम्। अग्रे कार्यदशायामप्यलुप्तत्वेन भवमग्न्यं ब्रह्म निश्चिक्युर्निश्चयेन ज्ञातवन्तः। पाञ्चजन्यया प्रजया विशतीति विशा मनुष्यरूपया। इन्द्रे आह्वातव्ये घोषा असृक्षत सृष्टा। यत्पूर्वार्धे कालानवच्छेद्यमुक्तं तज्ज्योतिषामादित्यादीनां भासकममृतत्वेन आयुष्ट्वेन जीवनगुणवत्तया च देवा उपासते तेन तत्रायुष्मन्तो जाताः। अस्मिन्मन्त्रे षष्ठ्यन्तज्योतिषा पञ्चसंख्यापूरणं नात्मज्योतिषा एकस्याधारत्वाधेयत्वायोगादिति॥