भामतीव्याख्या
वेदान्तकल्पतरुः
 

एतेन योगः प्रत्युक्तः ।

नानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जगदुपादानस्वतन्त्रप्रधानतद्विकारमहदहङ्कारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते । न चैतावतैषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि तत्राप्रामाण्येऽप्रामाण्यमश्रुवीरन् । न चैतानि प्रधानादिसद्भावपराणि । किन्तु योगस्वरूपतत्साधनतदवान्तरफलविभूतितत्परमफलकैवल्यव्युत्पादनपराणि । तच्च किञ्चिन्निमित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं, पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत्प्रतीयमानमभ्युपेयेत, यदि न मानान्तरेण विरुध्येत । अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात्प्रमाणभूतादपि योगशास्त्रान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयिताह स्म भगवान् वार्षगण्यः “गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम् ॥' इति । योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः, तेषामतात्त्विकत्वादित्यर्थः । अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासोत्प्रेक्षितानामनुवाद्यत्वमुपपन्नम् । तदनेनाभिसन्धिनाह

एतेन साङ्ख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपिप्रधानादिविषयतयाप्रत्याख्याता द्रष्टव्येति ।

अधिकरणान्तरारम्भमाक्षिपति

नन्वेवं सति समानन्यायत्वादिति ।

समाधत्ते

अस्त्यत्राभ्यधिकाशङ्का ।

मा नाम साङ्ख्यशास्त्रात्प्रधानसत्ता विज्ञायि । योगशास्त्रात्तु प्रधानादिसत्ता विज्ञापयिष्यते बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते । उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षास्ति । न जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमुपायमपहायान्तरङ्गं च धारणादिकमन्तरेणौपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति । तस्मादौपनिषदेन तत्त्वज्ञानेनापक्षणात्संवादबाहुल्याच्च वेदेनाष्टकादिस्मृतिवद्योगस्मृतिः प्रमाणम् । ततश्च प्रमाणात्प्रधानादिप्रतीतेर्नाशब्दत्वम् । नच तदप्रमाणं प्रधानादौ, प्रमाणं च यमादाविति युक्तम् । तत्राप्रामाण्येऽन्यत्राप्यनाश्वासात् । यथाहुः “प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥' इति । सेयं लब्धप्रसरा प्रधानादौ योगाप्रमाणतापिशाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपेयमिति नाशब्दं प्रधानमिति शङ्कार्थः । सा इयमप्यधिकाशङ्कातिर्देशेन निवर्त्यते । निवृत्तिहेतुमाह

अर्थैकदेशसम्प्रतिपत्तावपीति ।

यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत् , भवेत्प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् । तस्मान्न प्रधानादिपरं तत् , किन्तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् । न चाविषयेऽप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति । नहि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति । तस्माद्वेदान्तश्रुतिविरोधात्प्राधानादिरस्याविषयो न त्वप्रामाण्यमिति परमार्थः । स्यादेतत् । अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धार्हतकापालिकादीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आह

सतीष्वपीति ।

तासु खलु बहुलं वेदार्थविसंवादिनीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशुप्रायैर्म्लेच्छादिभिः परिगृहीतासु वेदमूलत्वाशङ्कैव नास्तीति न निराकृताः, तद्विपरीतास्तु साङ्ख्ययोगस्मृतय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः ।

न साङ्ख्यज्ञानेन वेदनिरपेक्षेणेति ।

प्रधानादिविषयेणेत्यर्थः ।

द्वैतिनो हि ते साङ्ख्या योगाश्च ।

ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः । सङ्ख्या सम्यग्बुद्धिर्वैदिकी तया वर्तन्त इति साङ्ख्याः । एवं योगो ध्यानमुपायोपेययोरभेदविवक्षया । चित्तवृत्तिनिरोधो हि योगस्तस्योपायो ध्यानं प्रत्ययैकतानता । एतच्चोपलक्षणम् । अन्येऽपि यमनियमादयो बाह्या आन्तराश्च धारणादयो योगोपाया द्रष्टव्याः । एतेनाभ्युपगतवेदप्रामाण्यानां कणभक्षाक्षचरणादीनां सर्वाणि तर्कस्मरणानीति योजना । सुगममन्यत् ॥ ३ ॥

एतेन योगः प्रत्युक्तः॥३॥ एषां हिरण्यगर्भादिशास्त्राणाम् । योगस्वरूपं चित्तवृत्तिनिरोधस्तत्साधनं यमादि तदवान्तरफलं विभूतिरणिमादिः ।

किंचिन्निमित्तीकृत्येति ।

चित्तनिरोधो हि क्वचिदालम्बने निवेशाद्भवति । पुरुषे च सूक्ष्मे द्राड्निवेशासम्भवात्प्रधानादि चित्तालम्बनत्वेन व्युत्पाद्यत इत्यर्थः । प्रतिसर्गः प्रलयः । वंशानुचरितं तत्कर्म ।

तत्प्रतिपादनेति ।

तच्छब्देन कैवल्यादिपरामर्शः ।

देवताधिकरणन्यायेन (ब्र.अ.१.पा.२.सू.२४ –३३) प्रधानादौ प्रामाण्यमाशङ्क्याह –

अन्यपरादपीति ।

यत एव प्रधानादेरविवक्षाऽत एव गुणानां सत्त्वादीनां परमं रूपमधिष्ठानमात्मा , दृष्टिपथप्राप्तं  दृश्यं प्रधानादि , मायैव मिथ्या । तत्सुतुच्छकं सुष्ठु तुच्छकमिति।

प्रधानादावतात्पर्ये योगशास्त्रस्यानुवादकत्वं वक्तव्यम् , तत्कथम् ? प्राप्त्यभावादित्यत आह –

अलोकसिद्धानामिति ।

वैदिकलिङ्गानां न्यायाभाससिद्धानाम् अनुवाद्यत्वमित्यर्थः ।

अष्टकादिस्मृतिवदिति ।

अष्टकाः कर्तव्याः , तटाकं खनितव्यमित्यादिस्मृतयो न प्रमाणम् ; धर्मस्य वेदैकप्रमाणत्वादष्टकादिश्रेयःसाधनत्वे वेदानुपलम्भात् स्मृतेश्च भ्रान्त्यापि सम्भवादिति  प्राप्ते राद्धान्तितम् । वेदार्थानुष्ठातॄणामेव स्मृतिषु सनिबन्धनासु कर्तृत्वाद् मूलभूतवेदमनुमापयन्त्यः स्मृतयः प्रमाणमिति।

‘’तत्कारणं सांख्ययोगाभिपन्नम्’’ इति श्रुतौ सांख्ययोगशब्दाभ्यां ज्ञानध्याने निर्दिष्टे इत्युक्तं भाष्ये , तदुपपादयति –

संख्येति ।

कथं चित्तवृत्तिनिरोधवाचियोगशब्देन चिन्तारूपं ध्यानमुच्यते ? तत्राह –

उपायेति ।

शरीरग्रीवाशिरांसि त्रीण्युन्नतानि यस्मिंस्तत्तथा एतां ब्रह्मविषयां विद्यां योगप्रकारं च मृत्योर्लब्ध्वा नचिकेता ब्रह्म प्राप्तोऽभूत् । ‘एको बहूनां यो विदधाति कामानि’त्युपक्रम्य श्रुतं तत्कारणम् इति तेषां कामानां कारणं ज्ञानिभिर्ध्यानिभिश्च प्राप्तं देवं ज्ञात्वा मुच्यते ॥३॥

इति द्वितीयं योगप्रत्युक्त्यधिकरणम्॥