न विलक्षणत्वादस्य तथात्वं च शब्दात् ।
अवान्तरसङ्गतिमाह
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्येति ।
चोदयति
कुतः पुनरिति ।
समानविषयत्वे हि विरोधो भवेत् । न चेहास्ति समानविषयता, धर्मवद्ब्रह्मणोऽपि मानान्तराविषयतयातर्क्यत्वेनानपेक्षाम्नायैकगोचरत्वादित्यर्थः । समाधत्ते
भवेदयमिति ।
“मानान्तरस्याविषयः सिद्धवस्त्ववगाहिनः । धर्मोऽस्तु कार्यरूपत्वाद्ब्रह्म सिद्धं तु गोचरः ॥' तस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः । नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आह
यथा च श्रुतीनामिति ।
सावकाशा बह्वयोऽपि श्रुतयोऽनवकाशैकश्रुतिविरोधे तदनुगुणतया यथा नीयन्ते एवमनवकाशैकतर्कविरोधे तदनुगुणतया बह्वयोऽपि श्रुतयो गुणकल्पनादिभिर्व्याख्यानमर्हन्तीत्यर्थः । अपि च ब्रह्मसाक्षात्कारो विरोधितयानादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण मोक्षसाधनमिष्यते । तत्र ब्रह्मसाक्षात्कारस्य मोक्षसाधनतया प्रधानस्यानुमानं दृष्टसाधर्म्येणादृष्टविषयं विषयतोऽन्तरङ्गं, बहिरङ्गं त्वत्यन्तपरोक्षगोचरं शाब्दं ज्ञानं, तेन प्रधानप्रत्यासत्त्याप्यनुमानमेव बलीय इत्याह
दृष्टसाधर्म्येण चेति ।
अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याह
श्रुतिरिति ।
सोऽयं ब्रह्मणो जगदुपादानत्वाक्षेपः पुनस्तर्केण प्रस्तूयते “प्रकृत्या सह सारूप्यं विकाराणामवस्थितम् । जगद्ब्रह्मसरूपं च नेति नो तस्य विक्रिया ॥ विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् । तेन प्रधानसारूप्यात्प्रधानस्यैव विक्रिया ॥' तथाहि एक एव स्त्रीकायः सुखदुःखमोहात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दतोऽपर्यायं सुखदुःखविषादानाधत्ते । स्त्रिया च सर्वे भावा व्याख्याताः । तस्मात्सुखदुःखमोहात्मतया च स्वर्गनरकाद्युच्चावचप्रपञ्चतया च जगदशुद्धमचेतनं च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् । तस्मात्प्रधानस्याशुद्धस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेतनब्रह्मविकारतया जगच्चैतन्यमाहुस्तान्प्रत्याह
अचेतनं चेदं जगदिति ।
व्यभिचारं चोदयति
ननु चेतनमपीति ।
परिहरति
न स्वामिभृत्ययोरपीति ।
ननु मा नाम साक्षाच्चेतनश्चेतनान्तरस्योपकार्षीत् , तत्कार्यकरणबुद्ध्यादिनियोगद्वारेण तूपकरिष्यतीत्यत आह
निरतिशया ह्यकर्तारश्चेतना इति ।
उपजनापायवद्धर्मयोगोऽतिशयः, तदभावो निरतिशयत्वम् । अत एव निर्व्यापारत्वादकर्तारः । तस्मात्तेषां बुद्ध्यादिप्रयोक्तृत्वमपि नास्तीत्यर्थः । चोदकोऽनुशयबीजमुद्धाटयति
योपीति ।
अभ्युपेत्यापाततः समाधानमाह
तेनापि कथञ्चिदिति ।
परमसमाधानं तु सूत्रावयवेन वक्तुं तमेवावतारयति
न चेतरदपि विलक्षणत्वमिति ।
सूत्रावयवाभिसन्धिमाह
अनवगम्यमानमेव हीदमिति ।
शब्दार्थात्खलु चेतनप्रकृतित्वाच्चैतन्यं पृथिव्यादीनामवगम्यमानमुपोद्बलितं मानान्तरेण साक्षाच्छ्रूयमाणमप्यचैतन्यमन्यथयेत् । मानान्तराभावे वार्थोऽर्थः श्रुत्यर्थेनापबाधनीयः, न तु तद्बलेन श्रुत्यर्थोऽन्यथयितव्य इत्यर्थः ॥ ४ ॥
सूत्रान्तरमवतारयितुं चोदयति
ननु चेतनत्वमपि क्वचिदिति ।
न पृथिव्यादीनां चैतन्यमाथमेव, किन्तु भूयसीनां श्रुतीनां साक्षादेवार्थ इत्यर्थः । सूत्रमवतारयति अत उत्तरं पठति
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।
विभजते
तुशब्द इति ।
नैताः श्रुतयः साक्षान्मृदादीनां वागादीनां च चैतन्यमाहुः, अपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनैतच्छ्रुतिबलेन न मृदादीनां वागादीनां च चैतन्यमाशङ्कनीयमिति । कस्मात्पुनरेतदेवमित्यत आह
विशेषानुगतिभ्याम् ।
तत्र विशेषं व्याचष्टे
विशेषो हीति ।
भोक्तृणामुपकार्यत्वाद्भूतेन्द्रियाणां चोपकारकत्वात्साम्ये च तदनुपपत्तेः सर्वजनप्रसिद्धेश्च “विज्ञानं चाभवत्” इति श्रुतेश्च विशेषश्चेतनाचेतनलक्षणः प्रागुक्तः स नोपपद्येत । देवताशब्दकृतो वात्र विशेषो विशेषशब्देनोच्यत इत्याह
अपि च कौषीतकिनः प्राणसंवाद इति ।
अनुगतिं व्याचष्टे
अनुगताश्चेति ।
सर्वत्र भूतेन्द्रियादिष्वनुगता देवता अभिमानिनीरूपदिशन्ति मन्त्रादयः । अपि च भूयस्यः श्रुतयः “अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्”(ऐ. उ. १ । २ । ४) इत्यादय इन्द्रियविशेषगता देवता दर्शयन्ति । देवताश्च क्षेत्रज्ञभेदाश्चेतनाः । तस्मान्नेन्द्रियादीनां चैतन्यं रूपत इति । अपि च प्राणसंवादवाक्यशेषे प्राणानामस्मदादिशरीराणामिव क्षेत्रज्ञाधिष्ठितानां व्यवहारं दर्शयन् प्राणानां क्षेत्रज्ञाधिष्ठानेन चैतन्यं द्रढयतीत्याह
प्राणसंवादवाक्यशेषे चेति ।
तत्तेज ऐक्षतेत्यपीति ।
यद्यपि प्रथमेऽध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथञ्चिन्नेतुं शक्यमिति द्रष्टव्यम् ।
पूर्वपक्षमुपसंहरति
तस्मादिति ॥ ५ ॥
सिद्धान्तसूत्रम्
दृश्यते तु ।
प्रकृतिविकारभावे हेतुं सारूप्यं विकल्प्य दूषयति
अत्यन्तसारूप्ये चेति ।
प्रकृतिविकारभावाभावहेतुं वैलक्षण्यं विकल्प्य दूषयति
विलक्षणत्वेन च कारणेनेति ।
सर्वस्वभावाननुवर्तनं प्रकृतिविकारभावाविरोधि । तदनुवर्तने तादात्म्येन प्रकृतिविकारभावाभावात् । मध्यमस्त्वसिद्धः । तृतीयस्तु निदर्शनाभावादसाधारण इत्यर्थः । अथ जगद्योनितयागमाद्ब्रह्मणोऽवगमादागमबाधितविषयत्वमनुमानस्य कस्मान्नोद्भाव्यत इत्यत आह
आगमविरोधस्त्विति ।
न चास्मिन्नागमैकसमधिगमनीये ब्रह्मणि प्रमाणान्तरस्यावकाशोऽस्ति, येन तदुपादायागम आक्षिप्येतेत्याशयवानाह
यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणीति ।
यथा हि कार्यत्वाविशेषेऽपि “आरोग्यकामः पथ्यमश्नीयात्” “स्वरकामः सिकतां भक्षयेत्” इत्यादीनां मानान्तरापेक्षता, न तु ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यादीनाम् । तत्कस्य हेतोः । अस्य कार्यभेदस्य प्रमाणान्तरागोचरत्वात् । एवंभूतत्वाविशेषेऽपि पृथिव्यादीनां मानान्तरगोचरत्वं, न तु भूतस्यापि ब्रह्मणः, तस्याम्नायैकगोचरस्यातिपतितसमस्तमानान्तरसीमतया स्मृत्यागमसिद्धत्वादित्यर्थः । यदि स्मृत्यागमसिद्धं ब्रह्मणस्तर्काविषयत्वं, कथं तर्हि श्रवणातिरिक्तमननविधानमित्यत आह
यदपि श्रवणव्यतिरेकेणेति ।
तर्को हि प्रमाणविषयविवेचकतया तदितिकर्तव्यताभूतस्तदाश्रयोऽसति प्रमाणेऽनुग्राह्यस्याश्रयस्याभावाच्छुष्कतया नाद्रियते । यस्त्वागमप्रमाणाश्रयस्तद्विषयविवेचकस्तदविरोधी स मन्तव्य इति विधीयते ।
श्रुत्यनुगृहीतेति ।
श्रुत्याः श्रवणस्य पश्चादितिकर्तव्यतात्वेन गृहीतः ।
अनुभवाङ्गत्वेनेति ।
मतो हि भाव्यमानो भावनाया विषयतयानुभूतो भवतीति मननमनुभवाङ्गम् ।
आत्मनोऽनन्वागतत्वमिति ।
स्वप्नाद्यवस्थाभिरसम्पृक्तत्वम् । उदासीनत्वमित्यर्थः । अपि च चेतनकारणवादिभिः कारणसालक्षण्येऽपि कार्यस्य कथञ्चिच्चैतन्याविर्भावानाविर्भावाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्कारणे योजयितुं शक्यम् । अचेतनप्रधानकारणवादिनां तु दुर्योजमेतत् । नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता सम्भविनी । चेतनस्य जगत्कारणस्य सुषुप्ताद्यव्यवस्थास्विव सतोऽपि चैतन्यस्यानाविर्भावतया शक्यमेव कथञ्चिदविज्ञानात्मत्वं योजयितुमित्याह
योऽपि चेतनकारणश्रवणबलेनेति ।
परस्यैव त्वचेतनप्रधानकारणवादिनः साङ्ख्यस्य न युज्येत ।
प्रत्युक्तत्वात्तु वैलक्षण्यस्येति ।
वैलक्षण्ये कार्यकारणभावो नास्तीत्यभ्युपेत्येदमुक्तम् । परमार्थतस्तु नास्माभिरेतदभ्युपेयत इत्यर्थः ॥ ६ ॥
असदिति चेन्न प्रतिषेधमात्रत्वात् ।
न कारणात्कार्यमभिन्नम् , अभेदे कार्यत्वानुपपत्तेः, कारणवत्स्वात्मनि वृत्तिविरोधात् , शुद्ध्यशुद्ध्यादिविरुद्धधर्मसंसर्गाच्च । अथ चिदात्मनः कारणस्य जगतः कार्याद्भेदः, तथा चेदं जगत्कार्यं सत्त्वेऽपि चिदात्मनः कारणस्य प्रागुत्पत्तेर्नास्ति, नास्ति चेदसदुत्पद्यत इति सत्कार्यवादव्याकोप इत्याह
यदि चेतनं शुद्धमिति ।
परिहरति
नैष दोष इति ।
कुतः
प्रतिषेधमात्रत्वात् ।
विभजते
प्रतिषेधमात्रं हीदमिति ।
प्रतिपादयिष्यति हि “तदनन्यत्वमारम्भणशब्दादिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र । यथा कार्यं स्वरूपेण सदसत्त्वाभ्यां न निर्वचनीयम् । अपि तु कारणरूपेण शक्यं सत्त्वेन निर्वक्तुमिति । एवं च कारणसत्तैव कार्यस्य सत्ता न ततोऽन्येति कथं तदुत्पत्तेः प्राक्सति कारणे भवत्यसत् । स्वरूपेण तूत्पत्तेः प्रागुत्पन्नस्य ध्वस्तस्य वा सदसत्त्वाभ्यामनिर्वाच्यस्य न सतोऽसतो वोत्पत्तिरिति निर्विषयः सत्कार्यवादप्रतिषेध इत्यर्थः ॥ ७ ॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ।
असामञ्जस्यं विभजते - अत्राह चोदकः,
यदि स्थौल्येति ।
यथा हि यूषादिषु हिङ्गुसैन्धवादीनामविभागलक्षणो लयः स्वगतरसादिभिर्यूषं रूषयत्येवं ब्रह्मणि विशुद्ध्यादिधर्मिणि जगल्लीयमानमविभागं गच्छद्ब्रह्म स्वधर्मेण रूषयेत् । न चान्यथा लयो लोकसिद्ध इति भावः । कल्पान्तरेणासामञ्जस्यमाह
अपि च समस्तस्येति ।
नहि समुद्रस्य फेनोर्मिबुद्बुदादिपरिणामे वा रज्ज्वां सर्पधारादिविभ्रमे वा नियमो दृष्टः । समुद्रो हि कदाचित्फेनोर्मिरूपेण परिणमते कदाचिद्बुद्बुदादिना, रज्ज्वां हि कश्चित्सर्प इति विपर्यस्यति कश्चिद्धारेति । नच क्रमनियमः । सोऽयमत्र भोग्यादिविभागनियमः क्रमनियमश्चासमञ्जस इति । कल्पान्तरेणासामञ्जस्यमाह
अपिच भोक्त्ूणामिति ।
कल्पान्तरं शङ्कापूर्वमाह
अथेदमिति ॥ ८ ॥
सिद्धान्तसूत्रम् न तु दृष्टान्तभावात् ।
नाविभागमात्रं लयोऽपि तु कारणे कार्यस्याविभागः । तत्र च तद्धर्मारूषणे सन्ति सहस्रं दृष्टान्ताः । तव तु कारणे कार्यस्य लये कार्यधर्मरूषणे न दृष्टान्तलवोऽप्यस्तीत्यर्थः । स्यादेतत्यदि कार्यस्याविभागः कारणे, कथं कार्यधर्मारूषणं कारणस्येत्यत आह
अनन्यत्वेऽपीति ।
यथा रजतस्यारोपितस्य पारमार्थिकं रूपं शुक्तिर्न च शुक्ती रजतमेवमिदमपीत्यर्थः । अपि च स्थित्युत्पत्तिप्रलयकालेषु त्रिष्वपि कार्यस्य कारणादभेदमभिदधती श्रुतिरनतिशङ्कनीया सर्वैरेव वेदवादिभिः, तत्र स्थित्युत्पत्त्योर्यः परिहारः स प्रलयेऽपि समानः कार्यस्याविद्यासमारोपितत्वं नाम, तस्मान्नापीतिमात्रमनुयोज्यमित्याह
अत्यल्पं चेदमुच्यत इति ।
अस्ति चायमपरो दृष्टान्तः ।
यथा च स्वप्नदृगेक इति ।
लौकिकः पुरुषः ।
एवमवस्थात्रयसाक्ष्येक इति ।
अवस्थात्रयमुत्पत्तिस्थितिप्रलयाः । कल्पान्तरेणासामञ्जस्ये कल्पान्तरेण दृष्टान्तभावं परिहारमाह
यत्पुनरेतदुक्तमिति ।
अविद्याशक्तेर्नियतत्वादुत्पत्तिनियम इत्यर्थः ।
एतेनेति ।
मिथ्याज्ञानविभागशक्तिप्रतिनियमेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, कारणाभावे कार्याभावस्य प्रतिनियमात् , तत्त्वज्ञानेन च सशक्तिनो मिथ्याज्ञानस्य समूलघातं निहतत्वादिति ॥ ९ ॥
स्वपक्षदोषाच्च ।
कार्यकारणयोर्वैलक्षण्यं तावत्समानमेवोभयोः पक्षयोः । प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गोऽपीतौ तद्वत्प्रसङ्गश्च प्रधानोपादानपक्ष एव नास्मत्पक्ष इति यद्यप्युपरिष्टात्प्रतिपादयिष्यामस्तथापि गुडजिह्विकया समानत्वापादनमिदानीमिति मन्तव्यम् । इदमस्य पुरुषस्य सुखदुःखोपादानं क्लेशकर्माशयादीदमस्येति । सुगममन्यत् ॥ १० ॥
तर्काप्रतिष्ठानादपि ।
केवलागमगम्येऽर्थे स्वतन्त्रतर्काविषये न साङ्ख्यादिवत्साधर्म्यवैधर्म्यमात्रेण तर्कः प्रवर्तनीयो येन प्रधानादिसिद्धिर्भवेत् । शुष्कतर्को हि स भवत्यप्रतिष्ठानात् । तदुक्तम् “यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥' इति । नच महापुरुषपरिगृहीतत्वेन कस्यचित्तर्कस्य प्रतिष्ठा, महापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तेरिति । सूत्रे शङ्कते -
अन्यथानुमेयमिति चेत् ।
तद्विभजते
अन्यथा वयमनुमास्यामह इति ।
नानुमानाभासव्यभिचारेणानुमानव्यभिचारः शङ्कनीयः, प्रत्यक्षादिष्वपि तदाभासव्यभिचारेण तत्प्रसङ्गात् । तस्मात्स्वाभाविकप्रतिबन्धवल्लिङ्गानुसरणे निपुणेनानुमात्रा भवितव्यं, ततश्चाप्रत्यूहं प्रधानं सेत्स्यतीति भावः । अपि च येन तर्केण तर्काणामप्रतिष्ठामाह स एव तर्कः प्रतिष्ठितोऽभ्युपेयः, तदप्रतिष्ठायामितराप्रतिष्ठानाभावादित्याह
नहि प्रतिष्ठितस्तर्क एवेति ।
अपि च तर्काप्रतिष्ठायां सकललोकयात्रोच्छेदप्रसङ्गः । नच श्रुत्यर्थाभासनिराकरणेन तदर्थतत्त्वविनिश्चय इत्याह
सर्वतर्काप्रतिष्ठायां चेति ।
अपि च विचारात्मकस्तर्कस्तर्कितपूर्वपक्षपरित्यागेन तर्कितं राद्धान्तमनुजानाति । सति चैष पूर्वपक्षविषये तर्के प्रतिष्ठारहिते प्रवर्तते, तदभावे विचाराप्रवृत्तेः । तदिदमाह
अयमेव च तर्कस्यालङ्कार इति ।
तामिमामाशङ्कां सूत्रेण परिहरति
एवमप्यविमोक्षप्रसङ्गः ।
न वयमन्यत्र तर्कमप्रमाणयामः, किन्तु जगत्कारणसत्त्वे स्वाभाविकप्रतिबन्धवन्न लिङ्गमस्ति । यत्तु साधर्म्यवैधर्म्यमात्रं, तदप्रतिष्ठादोषान्न मुच्यत इति । कल्पान्तरेणानिर्मोक्षपदार्थमाह
अपि च सम्यग्ज्ञानान्मोक्ष इति ।
भूतार्थगोचरस्य हि सम्यग्ज्ञानस्य व्यवस्थितवस्तुगोचरतया व्यवस्थानं लोके दृष्टं, यथा प्रत्यक्षस्य । वैदिकं चेदं चेतनजगदुपादानविषयं विज्ञानं वेदोत्थतर्केतिकर्तव्यताकं वेदजनितं व्यवस्थितम् । वेदानपेक्षेण तु तर्केण जगत्कारणभेदमवस्थापयतां तार्किकाणामन्योन्यं विप्रतिपत्तेस्तत्त्वनिर्धारणकारणाभावाच्च न ततस्तत्त्वव्यवस्थेति न ततः सम्यग्ज्ञानम् । असम्यग्ज्ञानाच्च न संसाराद्विमोक्ष इत्यर्थः ॥ ११ ॥
न विलक्षणत्वादस्य तथात्वं च शब्दात्॥४॥ चेतनोपादानकजगद्वादिसमान्वयस्य गगनादि , अचेतनप्रकृतिकं , द्रव्यत्वाद् , घटवदित्यनुमानेन संकोचसंदेहे वेदविरुद्धस्मृतेर्मूलाभावादमानत्वमुक्तम् । अनुमानमूलं तु व्याप्तिपक्षधर्मते लोकसिद्धे इत्युत्तराधिकरणस्तोमस्य स्मृत्यधिकरणेन सङ्गतिमाह –
अवान्तरसङ्गतिमिति ।
वेदविरुद्धार्थत्वेन स्मृतेस्तद्वैलक्षण्यादतन्मूलत्ववद् ब्रह्मवैलक्षण्याज्जगदप्येतन्मूलमिति निरन्तरसङ्गतिः ।
एकश्रुत्यनुसारेणेतरश्रुतिनयनदृष्टान्तमात्रात्तर्कवशेन श्रुतिसंकोचो न युक्तः , वैपरीत्यस्यापि सम्भवादित्याशङ्क्याह –
सावकाशा इति ।
श्रुतीनां निमित्तकारणे सावकाशत्वं , तर्कस्यानौपाधिकत्वेनानवकाशत्वम् ।
दृष्टसाधर्म्येणेति ।
प्रत्यक्षदृष्टान्ततुल्यत्वेनानुमानात्पक्षे साध्ये गमिते तस्यापि प्रत्यक्षता संभाव्यत इत्यर्थः ।
तर्कमाह –
प्रकृत्येति ।
ब्रह्मासारूप्यं जगतो दर्शयति –
विशुद्धमिति ।
प्रधानसारूप्यमुपपादयति –
एक इति ।
आनुश्रविकेऽपि सुखाद्यात्मत्वमाह –
स्वर्गेति ।
निरतिशयत्वात् आगमापायिधर्मरहितत्वादित्यर्थः ।
जगतोऽचेतनत्वश्रवणमपि चैतन्यानभिव्यक्तिपरमिति शङ्कापाकरणार्थं भाष्येऽनवगम्यमानग्रहणं , तद्व्याचष्टे –
शब्दार्थादिति ।
आर्थस्य जगच्चेतनत्वस्य श्रुताचेतनत्वबाधकत्वायोपबृंहकलोकानुभवाभावोऽनवगम्यमानपदद्योतित इत्यर्थः ।
आर्थत्वे उपोद्बलकापेक्षा , तदेव नेत्याह –
न पृथिव्यादीनामिति ।
श्रुतार्थापत्त्यनुगृहीतश्रुतिभिर्जगदचेतनत्वश्रुतयश्चैतन्यानभिव्यक्तिपरत्वेन व्याख्येया इत्यर्थः॥४॥ प्रथमेऽध्याये ईक्षत्यधिकरणे इति।
मुख्यतयेति ।
ऐक्षतेत्यस्य मुख्यत्वं तेजआदिशब्दा लाक्षणिका एव तदिदमुक्तं –
कथंचिदिति॥५॥
साध्यासाधकः पक्षे एव वर्तमानोऽसाधारणः । यथा सर्वं क्षणिकं सत्त्वादिति।
एवं चैतन्यानन्वितत्वमपीत्याह –
तृतीयस्त्विति ।
प्रमाणेति ।
प्रमाणविषयस्य वचनयुक्त्याभासनिरासेन विवेचकतयेत्यर्थः ।
श्रवणपाश्चात्यासंभावनानिरासकवाचारम्भणत्वादितर्काभिप्रायम् मननस्य साक्षात्काराङ्गत्वं ध्यानव्यवधानेनेत्याह –
मतो हीति ।
अचेतनस्य जगत्कारणस्य सर्गोत्तरकालं विज्ञानात्मकजीवरूपता न सम्भवतीत्यर्थः ॥६॥
प्रागुत्पत्तेः कारणस्य सत्त्वात्तदभिन्नं कार्यं कथमसदत आह –
न कारणादिति ।
यदुक्तं न कारणात्कार्यमभिन्नमिति , तत्राह –
प्रतिपादयिष्यति हीति ।
पृथुबुध्नोदराकारादिस्वरूपेण कार्यं कारणान्न भिन्नम् , नाप्यभिन्नम् , न सन्न चासदतस्तद्रूपेण सत्ता दुःसाध्येत्यर्थः ।
फलितमाह –
एवं चेति ।
न केवलमुत्पत्तेः प्रागेव स्वरूपेण कार्यस्यासत्त्वमपि तु सर्वदेत्याह –
स्वरूपेण त्विति ॥७॥
यूषः शाकरसः । रूषयति मिश्रयति।
ननु घटादिलये यथा मृदो न तत्तद्रूषणमेवामिहेत्यत आह –
न चान्यथेति ।
निरन्वयनाशानभ्युपगमादीषदनुवर्तमानस्यान्यथालयो न लोकसिद्ध इत्यर्थः ॥८॥
निरन्वयनाशवादिनः कार्यधर्मरूपणं कारणे स्यान्न तवेति आशङ्कते –
स्यादेतदिति ।
कार्यस्य कारणतावन्मात्रत्वात्कारणानुवृत्त्या सान्वयनाशोक्तिराकस्मिकीत्याह –
यथा रजतस्येति ।
लौकिकः पुरुषो जीवोऽतश्च न साध्यसमत्वमित्यर्थः ।
जगत्कारणस्य जाग्रदाद्यभावाद्व्याचष्टे –
उत्पत्तीति॥९॥
उपरिष्टादिति ।
अनन्तर एव शिष्टापरिग्रहाधिकरणपूर्वपक्षे॥१०॥
सर्वस्तर्कोऽप्रतिष्ठित उत कश्चिद् , न चरम इत्याह –
नानुमानाभासेति ।
स्वाभाविकप्रतिबन्धो व्याप्तिः ।
नाद्य इत्याह –
अपि चेति ।
चरमो न केवलमविरुद्धः प्रत्युतानुगुण इत्याह –
अपि च विचारेति ॥११॥
नैषेति ।
एषा ब्रह्मविषया मतिस्तर्केण नापनेया प्रापणीयेत्यर्थः । अथवा – कुतः तर्केणापनेया निरस्या न भवति , किं तर्ह्यान्येनैवाचार्येण प्रोक्ता सती सुज्ञानाय फलपर्यन्तसाक्षात्काराय भवति। हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । कः अद्धा साक्षाद्वेद ब्रह्म को वा प्रावोचत् छन्दसि कालानियमात् प्रब्रूयादित्यर्थः । इयं विसृष्टिर्यत आबभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयोरर्थः । तं सर्वं परादान्निराकुर्याद् योऽन्यत्रात्मनः आत्मव्यतिरेकेण सर्वं वेदेत्यर्थः । अजं जन्मरहितम् । अनिद्रम् अज्ञानरहितम् । अस्वप्नं भ्रमरहितम् । अत एवाद्वैतं तदा बुध्यत इति संप्रदायविद्वचनार्थः॥