भामतीव्याख्या
वेदान्तकल्पतरुः
 

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ।

न कार्यं कारणादभिन्नमभेदे कारणरूपवत्कार्यत्वानुपपत्तेः, करोत्यर्थानुपपत्तेश्च । अभूतप्रादुर्भावनं हि तदर्थः । न चास्य कारणात्मत्वे किञ्चिदभूतमस्ति, यदर्थमयं पुरुषो यतेत । अभिव्यक्त्यर्थमिति चेत् , न । तस्या अपि कारणात्मत्वेन सत्त्वात् , असत्त्वे वाभिव्यङ्ग्यस्यापि तद्वत्प्रसङ्गेन कारणात्मत्वव्याघातात् । नहि तदेव तदानीमेवास्ति नास्ति चेति युज्यते । किं चेदं मणिमन्त्रौषधमिन्द्रजालं कार्येण शिक्षितं यदिदमजातानिरुद्धातिशयमव्यवधानमविदूरस्थानं च तस्यैव तदवस्थेन्द्रियस्य पुंसः कदाचित्प्रत्यक्षं परोक्षं च, येनास्य कदाचित्प्रत्यक्षमुपलम्भनं कदाचिदनुमानं कदाचिदागमः । कार्यान्तरव्यवधिरस्य पारोक्ष्यहेतुरिति चेत् । न । कार्यजातस्य सदातनत्वात् । अथापि स्यात्कार्यान्तराणि पिण्डकपालशर्कराचूर्णकणप्रभृतीनि कुम्भं व्यवदधते, ततः कुम्भस्य पारोक्ष्यं कदाचिदिति । तन्न । तस्य कार्यजातस्य कारणात्मनः सदातनत्वेन सर्वदा व्यवधानेन कुम्भस्यात्यन्तानुपलब्धिप्रसङ्गात् । कादाचित्कत्वे वा कार्यजातस्य न कारणात्मत्वं, नित्यत्वानित्यत्वलक्षणविरुद्धधर्मसंसर्गस्य भेदकत्वात् । भेदाभेदयोश्च परस्परविरोधेनैकत्र सहासम्भव इत्युक्तम् । तस्मात्कारणात्कार्यमेकान्तत एव भिन्नम् । नच भेदे गवाश्ववत्कार्यकारणभावानुपपत्तिरिति साम्प्रतम् , अभेदेऽपि कारणरूपवत्तदनुपपत्तेरुक्तत्वात् । अत्यन्तभेदे च कुम्भकुम्भकारयोर्निमित्तकभावस्य दर्शनात् । तस्मादन्यत्वाविशेषेऽपि समवायभेद एवोपादानोपादेयभावनियमहेतुः । यस्याभूत्वा भवतः समवायस्तदुपादेयं यत्र च समवायस्तदुपादानम् । उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्य दृष्टं, यथा तन्त्वादीनां पटाद्युपादानानां पटादिभ्यो न्यूनपरिमाणत्वम् । चिदात्मनस्तु परममहत उपादानान्नात्यन्ताल्पपरिमाणमुपादेयं भवितुमर्हति । तस्माद्यत्रेदमल्पतारतम्यं विश्राम्यति यतो न क्षोदीयः सम्भवति तज्जगतो मूलकारणं परमाणुः । क्षोदीयोऽन्तरानन्त्ये तु मेरुराजसर्षपयोस्तुल्यपरिमाणत्वप्रसङ्गोऽनन्तावयवत्वादुभयोगः । तस्मात्परममहतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती श्रुतिः प्रतिष्ठितप्रामाण्यतर्कविरोधात्सहस्रसंवत्सरसत्रगतसंवत्सरश्रुतिवत्कथञ्चिज्जघन्यत्ववृत्त्या व्याख्यायेत्यधिकं शङ्कमानं प्रति साङ्ख्यदूषणमतिदिशति

एतेनेति सूत्रेण ।

अस्यार्थःकारणात्कार्यस्य भेदं “तदनन्यत्वमारम्भणशब्दादिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र निषेत्स्यामः । अविद्यासमारोपणेन च कार्यस्य न्यूनाधिकभावमप्यप्रयोजकत्वादुपोक्षिष्यामहे । तेन वैशेषिकाद्यभिमतस्य तर्कस्य शुष्कत्वेनाव्यवस्थितेः सूत्रमिदं साङ्ख्यदूषणमतिदिशति । यत्र कथञ्चिद्वेदानुसारिणी मन्वादिभिः शिष्टैः परिगृहीतस्य साङ्ख्यतर्कस्यैषा गतिस्तत्र परमाण्वादिवादस्यात्यन्तवेदबाह्यस्य मन्वाद्युपेक्षितस्य च कैव कथेति ।

केनचिदंशेनेति ।

सृष्ट्यादयो हि व्युत्पाद्यास्ते च किञ्चित्सदसद्वा पूर्वपक्षन्यायोत्प्रेक्षितमप्युदाहृत्य व्युत्पाद्यन्त इति केनचिदंशेनेत्युक्तम् । सुगममन्यत् ॥ १२ ॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥१२॥ अतिदेशस्योपदेशवत्सङ्गतिः । यथा हि वेदविपरीतत्वात्सांख्यादिस्मृतिरतन्मूल , एवं ब्रह्मकारणवैपरीत्याज्जगन्न तन्मूलम् । तन्मूलत्वे हि ततो महत्स्यान्नाल्पमिति अतुल्यत्वाशङ्कायामतिदेशः स्यादिति , तामाह –

न कार्यमिति ।

इयमारम्भणाधिकरणे(ब्र.अ.२.पा.१.सू.१४) निरसिष्यमाणाऽप्यभ्युच्चयत्वेनेह निर्देश्यते । यत्तु वक्ष्यते उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्यैव दृष्टमिति सैवैतदधिकरणे निरस्येति। अस्य कार्यस्येत्यर्थः ।

कुलालादिव्यापारात्प्राक् मृद् , घटरहिता , तदानीं योग्यत्वे सत्यनुपलभ्यमानघटत्वाद् , गगनवत् , ततश्च सत्त्वविरोधान्न कार्यकारणयोरैक्यमित्याह –

किंचेति ।

येनेति ।

अर्थगतप्रत्यक्षपरोक्षत्वेनेत्यर्थः । घटादिकार्यस्य प्रागुत्पत्तेः सत्त्वे मानम् ‘असदकरणा’ दित्याद्यनुमानज उपलम्भोऽनुमितिरित्यनुमानम् । जगतस्तु प्रागवस्थायामागमज उपलम्भ आगमः ।

घटो यदि भिन्नो मृदः तर्हि तत्कार्यं न स्यादश्ववदिति तर्कस्य , स ततो यद्यभिन्नः , तर्हि तत्कार्यं न स्यान्मृद्वदिति प्रतिरोधमुक्त्वा मूलशैथिल्यमाह –

अत्यन्तेति ।

ननु यदि कुम्भात् कुम्भकारमृदोरत्यन्तभेदः , तर्हि कथमुपादाननिमित्तव्यवस्थाऽता आह –

तस्मादिति ।

परमाणोरपि मूर्तत्वात् क्षुद्रतरान्तराभ्यत्वमतो न क्षुद्रत्वविश्रान्तिरत आह –

क्षोदीयोऽन्तरेति ।

सहस्रसंवत्सरेति ।

‘‘पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशा विश्वसृजामयने सहस्रसंवत्सरमुपयन्ती’’त्यत्र संवत्सरशब्दस्य ह्युत्पत्तिवाक्ये मुख्यार्थलाभात् तावदायुष्कररसादिसिद्धमनुष्याद्यधिकारतामाशङ्क्य षष्ठे सिद्धान्तितम् । प्रकृतौ हि ‘’द्वादशाहे त्रयस्त्रिवृतो भवन्ति त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविंशा’’ इति त्रिवृदादिशब्दास्त्रिवृदादिस्तोत्रविशिष्टाह पराः समधिगताः । एवं चात्रापि पञ्चपञ्चाशतस्त्रिवृतः संवत्सरा इत्याद्युत्पत्तिवाक्येष्वहःपरत्रिवृदादिशब्दैर्निश्चितार्थैः सामानाधिकरण्यात्संवत्सरशब्दस्य स्वयं सौरचान्द्रादिनानोपाधित्वेनानिर्धारितार्थस्याहःपरतैव । एवं चोत्पत्तिमालोच्य सहस्रसंवत्सरशब्दोऽपि सहस्रदिवससाध्यकर्मपरः । औषधादिसिद्धिकल्पनाप्येवं न भवति। तस्मान्मनुष्योऽधिकारीति ।

आरम्भे हि न्यूनपरिमाणान्महदुदयनियमो न निवर्तते , उन्नततरगिरिशिखरवर्तिमहातरुषु भूमिष्ठस्य दूर्वाकारनिर्भासप्रतिभासोपलम्भादित्याह –

अविद्यासमारोपेणेति॥

इति चतुर्थं शिष्टापरिग्रहाधिकरणम्॥