भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ।
स्यादेतत् । अतिगम्भीरजगत्कारणविषयत्वं तर्कस्य नास्ति, केवलगमगम्यमेतदित्युक्तम् , तत्कथं पुनस्तर्कनिमित्त आक्षेप इत्यत आह
यद्यपि श्रुतिः प्रमाणमिति ।
प्रवृत्ता हि श्रुतिरनपेक्षतया स्वतःप्रमाणत्वेन न प्रमाणान्तरमपेक्षते । प्रवर्तमाना पुनः स्फुटतरप्रतिष्ठितप्रामाण्यतर्कविरोधेन मुख्यार्थात्प्रच्याव्य जघन्यवृत्तितां नीयते, यथा मन्त्रार्थवादावित्यर्थः । अतिरोहितार्थं भाष्यम् ।
यथा त्वद्यत्व इति ।
यद्यतीतानागतयोः सर्गयोरेष विभागो न भवेत् । ततस्तदेवाद्यतनस्य विभागस्य बाधकं स्यात् । स्वप्नदर्शनस्येव जाग्रद्दर्शनम् । न त्वेतदस्ति । अबाधिताद्यतनदर्शनेन तयोरपि तथात्वानुमानादित्यर्थः । इमां शङ्कामापाततोऽविचारितलोकसिद्धदृष्टान्तोपदर्शनमात्रेण निराकरोति सूत्रकारः
स्याल्लोकवत् ॥ १३ ॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्॥१३॥ अद्वयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य भेदग्राहिमानविरोधसंदेहे सङ्गतिगर्भमगतार्थत्वमाह –
प्रवृत्ता हीति ।
पूर्वत्र जगत्कारणे तर्कोऽप्रतिष्ठित इत्युक्तम् , तर्हि जगद्भेदे तर्कः प्रतिष्ठित इत्यद्वैतविरोधेन प्रत्यवस्थानात्सङ्गतिः । अत एव लब्धप्रतिष्ठतर्केण श्रुतेर्मुखनिरोधादगतार्थत्वं चेत्यर्थः ।
प्रवर्तमानेति ।
स्वविषयप्रतिष्ठविरोधितर्केण सहोन्मज्जननिमज्जनमनुभवन्ती बलाबलविवेकमपेक्षमाणेत्यर्थः । एतद्वैधर्म्यं च प्रवृत्तत्वम् ।
तर्कस्य प्राबल्यमाह –
स्फुटतरेति ।
स्थूलनीलादिभेदगोचरत्वात्स्फुटतरत्वम् । प्रतिष्ठितत्वमनुपचरितत्वम् ।
आम्नायो ह्युपचारेणापि सावकाश इति वर्तमानविभागेनापि विरोधसिद्धेर्वर्तमानसाम्योपपादनमतीतानागतयोर्भाष्येऽनुपयोगीत्याशङ्क्य वर्तमानविभागसत्यत्वं फलितमाह –
यदीति॥१३॥