परिहाररहस्यमाह
तदनन्यत्वमारम्भणशब्दादिभ्यः ।
पूर्वस्मादविरोधादस्य विशेषाभिधानोपक्रमस्य विभागमाह
अभ्युपगम्य चेममिति ।
स्यादेतत् । यदिकारणात्परमार्थभूतादनन्यत्वमाकाशादेः प्रपञ्चस्य कार्यस्य कुतस्तर्हि न वैशेषिकाद्युक्तदोषप्रपञ्चावतार इत्यत आह
व्यतिरेकेणाभावः कार्यस्यावगम्यत इति ।
न खल्वनन्यत्वमित्यभेदं ब्रूमः, किन्तु भेदं व्यासेधामः, ततश्च नाभेदाश्रयदोषप्रसङ्गः । किन्त्वभेदं व्यासेधद्भिर्वैशेषिकादिभिरस्मासु साहायकमेवाचरितं भवति । भेदनिषेधहेतुं व्याचष्टे
आरम्भणशब्दस्तावदिति ।
एवं हि ब्रह्मविज्ञानेन सर्वं जगत्तत्त्वतो ज्ञायेत यदि ब्रह्मैव तत्त्वं जगतो भवेत् । यथा रज्ज्वां ज्ञातायां भुजङ्गतत्त्वं ज्ञातं भवति । सा हि तस्य तत्त्वम् । तत्त्वज्ञानं च ज्ञानमतोऽन्यन्मिध्याज्ञानमज्ञानमेव । अत्रैव वैदिको दृष्टान्तः
यथा सोम्यैकेन मृत्पिण्डेनेति ।
स्यादेतत् । मृदि ज्ञातायां कथं मृन्मयं घटादि ज्ञातं भवति । नहि तन्मृदात्मकमित्युपपादितमधस्तात् । तस्मात्तत्त्वतो भिन्नम् । न चान्यस्मिन्विज्ञातेऽन्यद्विज्ञातं भवतीत्यत आह श्रुतिः “वाचारम्भणं विकारो नामधेयम् ।”(छा. उ. ६ । १ । ४) वाचया केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नामधेयमात्रमेतत् । यथा पुरुषस्य चैतन्यमिति राहोः शिर इति विकल्पमात्रम् । यथाहुर्विकल्पविदः “शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः”(यो.सू. १-९) इति । तथा चावस्तुतयानृतं विकारजातं, मृत्तिकेत्येव सत्यम् । तस्माद्घटशरावोदञ्चनादीनां तत्त्वं मृदेव, तेन मृदि ज्ञातायां येषां सर्वेषामेव तत्त्वं ज्ञातं भवति । तदिदमुक्तम्
न चान्यथैकविज्ञानेन सर्वविज्ञानं सम्पद्यत इति ।
निदर्शनान्तरद्वयं दर्शयन्नुपसंहरति
तस्माद्यथा घटकरकाद्याकाशानामिति ।
ये हि दृष्टनष्टस्वरूपा न ते वस्तुसन्तो यथा मृगतृष्णिकोदकादयः, तथा च सर्वं विकारजातं तस्मादवस्तुसत् । तथाहि यदस्ति तदस्त्येव, यथा चिदात्मा । नह्यसौ कदाचित्क्वचित्कथञ्चिद्वास्ति । किन्तु सर्वदा सर्वत्र सर्वथास्त्येव, न नास्ति । न चैवं विकारजातं, तस्य कदाचित्कथञ्चित्कुत्रचिदवस्थानात् । तथाहि - सत्स्वभावं चेद्विकारजातं, कथं कदाचिदसत् । असत्स्वभावं चेत् , कथं कथाचिद् सत् । सदसतोरेकत्वविरोधात् । नहि रूपं कदाचित्क्वचित्कथञ्चिद्वा गन्धो भवति । अथ यस्य सदसत्त्वे धर्मौ, ते च स्वकारणाधीनजन्मतया कदाचिदेव भवतः, तत्तर्हि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्यचित् । अथासत्त्वसमये तन्नास्ति, कस्य तर्हि धर्मोऽसत्त्वम् । नहि धर्मिण्यप्रत्युत्पन्ने तद्धर्मोऽसत्त्वं प्रत्युत्पन्नमुपपद्यते । अथास्य न धर्मः किन्त्वर्थान्तरमसत्त्वम् । किमायातं भावस्य । नहि घटे जाते पटस्य किञ्चिद्भवति । असत्त्वं भावविरोधीति चेत् । न । अकिञ्चित्करस्य तत्त्वानुपपत्तेः । किञ्चित्करत्वे वा तत्राप्यसत्त्वेन तदनुयोगसम्भवात् । अथास्यासत्त्वं नाम किञ्चिन्न जायते किन्तु स एव न भवति । यथाहुः “न तस्य किञ्चिद्भवति न भवत्येव केवलम्” इति । अथैष प्रसज्यप्रतिषेधो निरुच्यतां, किं तत्स्वभावो भाव उत भावस्वभावः स इति । तत्र पूर्वस्मिन् कल्पे भावानां तत्स्वभावतया तुच्छतया जगच्छून्यं प्रसज्येत । तथा च भावानुभवाभावः । उत्तरस्मिंस्तु सर्वभावनित्यतया नाभावव्यवहारः स्यात् । कल्पनामात्रनिमित्तत्वेऽपि निषेधस्य भावनित्यतापत्तिस्तदवस्थैव तस्माद्भिन्नमस्ति कारणाद्विकारजातं न वस्तु सत् । अतो विकारजातमनिर्वचनीयमनृतम् । तदनेन प्रमाणेन सिद्धमनृतत्वं विकारजातस्य कारणस्य निर्वाच्यतया सत्त्वं “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इत्यादिना प्रबन्धेन दृष्टान्ततयानुवदति श्रुतिः । “यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं स दृष्टान्तः” इति चाक्षपादसूत्रं प्रमाणसिद्धो दृष्टान्त इत्येतत्परं, न पुनर्लोकसिद्धत्वमत्र विवक्षितम् , अन्यथा तेषां परमाण्वादिर्न दृष्टान्तः स्यात् । नहि परमाण्वादिर्नैसर्गिकवैनयिकबुद्ध्यतिशयरहितानां लौकिकानां सिद्ध इति । संप्रत्यनेकान्तवादिनमुत्थापयति
नन्वनेकात्मकमिति ।
अनेकाभिः शक्तिभिर्याः प्रवृत्तयो नानाकार्यसृष्टयस्तद्युक्तं ब्रह्मैकं नाना चेति । किमतो यद्येवमित्यत आह
तत्रैकत्वांशेनेति ।
यदि पुनरेकत्वमेव वस्तुसद्भवेत्ततो नानात्वाभावाद्वैदिकः कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः समस्त एवोच्छिद्येत । ब्रह्मगोचराश्च श्रवणमननादयः सर्वे दत्तजलाञ्जलयः प्रसज्येरन् । एवं चानेकात्मकत्वे ब्रह्मणो मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति । तमिममनेकान्तवादं दूषयति
नैवं स्यादिति ।
इदं तावदत्र वक्तव्यम् , मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वमिति वदतः कार्यकारणयोः परस्परं किमभेदोऽभिमतः, आहो भेदः, उत भेदाभेदाविति । तत्राभेद ऐकान्तिके मृदात्मनेति च घटशरावाद्यात्मनेति चोल्लेखद्वयं नियमश्च नोपपद्यते । भेदे चोल्लेखद्वयनियमावुपपन्नौ, आत्मनेति त्वसमञ्जसम् । नह्यन्यस्यान्य आत्मा भवति । न चानेकान्तवादः । भेदाभेदकल्पे तुल्लेखद्वयं भवेदपि । नियमस्त्वयुक्तः । नहि धर्मिणोः कार्यकारणयोः सङ्करे तद्धर्मावेकत्वनानात्वे न सङ्कीर्येते इति सम्भवति । ततश्च मृदात्मनैकत्वं यावद्भवति तावद्घटशरावाद्यात्मनापि स्यात् , एवं घटशरावाद्यात्मना नानात्वं यावद्भवति तावन्मृदात्मना नानात्वं भवेत् । सोऽयं नियमः कार्यकारणयोरैकान्तिकं भेदमुपकल्पयति, अनिर्वचनीयतां वा कार्यस्य । पराक्रान्तं चास्माभिः प्रथमाध्याये तत् । आस्तां तावत् । तदेतद्युक्तिनिराकृतमनुवदन्तीं श्रुतिमुदाहरति
मृत्तिकेत्येव सत्यमिति ।
स्यादेतत् । न ब्रह्मणो जीवभावः काल्पनिकः, किन्तु भाविकः । अंशो हि सः, तस्य कर्मसहितेन ज्ञानेन ब्रह्मभाव आधीयत इत्यत आह
स्वयं प्रसिद्धं हीति ।
स्वाभाविकस्यानादेरिति । यदुक्तं नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राह
बाधिते चेति ।
यावदबाधं हि सर्वोऽयं व्यवहारः स्वप्नदशायामिव तदुपदर्शितपदार्थजातव्यवहारः । स च यथा जाग्रदवस्थायां बाधकान्निवर्तते एवं तत्त्वमस्यादिवाक्यपरिभावनाभ्यासपरिपाकभुवा शारीरस्य ब्रह्मात्मभावसाक्षात्कारेण बाधकेन निवर्तते । स्यादेतत् । “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्” (बृ. उ. ४ । ५ । १५) इत्यादिना मिथ्याज्ञानाधीनो व्यवहारः क्रियाकारकादिलक्षणः सम्यग्ज्ञानेनापनीयत इति न ब्रूते, किन्त्ववस्थाभेदाश्रयो व्यवहारोऽवस्थान्तरप्राप्त्या निवर्तते, यथा बालकस्य कामचारवादभक्षतोपनयनप्राप्तौ निवर्तते । नच तावतासौ मिथ्याज्ञाननिबन्धनो भवत्येवमत्रापीत्यत आह
न चायं व्यवहाराभाव इति ।
कुतः,
तत्त्वमसीति ब्रह्मात्मभावस्येति ।
न खल्वेतद्वाक्यमवस्थाविशेषविनियतं ब्रह्मात्मभावमाह जीवस्य, अपि तु न भुजङ्गो रज्जुरियमितिवत्सदातनं तमभिवदति । अपि च सत्यानृताभिधानेनाप्येतदेव युक्तमित्याह
तस्करदृष्टान्तेन चेति ।
न चास्मिन्दर्शन इति ।
नहि जातु काष्ठस्य दण्डकमण्डलुकुण्डलशालिनः कुण्डलित्वज्ञानं दण्डवत्तां कमण्डलुमत्तां बाधते । तत्कस्य हेतोः । तेषां कुण्डलादीनां तस्मिन् भाविकत्वात् । तद्वदिहापि भाविकगोचरेणैकात्म्यज्ञानेन न नानात्वं भाविकमपवदनीयम् । नहि ज्ञानेन वस्त्वपनीयते । अपि तु मिथ्याज्ञानेनारोपितमित्यर्थः । चोदयति
नन्वेकत्वैकान्ताभ्युपगम इति ।
अबाधितानधिगतासन्दिग्धविज्ञानसाधनं प्रमाणमिति प्रमाणसामान्यलक्षणोपपत्त्या प्रत्यक्षादीनि प्रमाणतामश्नुवते । एकत्वैकान्ताभ्युपगमे तु तेषां सर्वेषां भेदविषयाणां बाधितत्वादप्रामाण्यं प्रसज्येत । तथा विधिप्रतिषेधशास्त्रमपि भावनाभाव्यभावककरणेतिकर्तव्यताभेदापेक्षत्वाद्व्याहन्येत । तथा च नास्तिक्यम् । एकदेशाक्षेपेण च सर्ववेदाक्षेपाद्वेदान्तानामप्यप्रामाण्यमित्यभेदैकान्ताभ्युपगमहानिः । न केवलं विधिनिषेधाक्षेपेणास्य मोक्षशास्त्रस्याक्षेपः स्वरूपेणास्यापि भेदापेक्षत्वादित्याह
मोक्षशास्त्रस्यापीति ।
अपि चास्मिन् दर्शने वर्णपदवाक्यप्रकरणादीनामलीकत्वात्तत्प्रभवमद्वैतज्ञानमसमीचीनं भवेत् , न खल्वलीकाद्धूमकेतनज्ञानं समीचीनमित्याह
कथं चानृतेन मोक्षशास्त्रेणेति ।
परिहरति -
अत्रोच्यत इति ।
यद्यपि प्रत्यक्षादीनां तात्त्विकमबाधितत्वं नास्ति, युक्त्यागमाभ्यां बाधनात् , तथापि व्यवहारे बाधनाभावात्सांव्यवहारिकमबाधनम् । नहि प्रत्यक्षादिभिरर्थं परिच्छिद्य प्रवर्तमानो व्यवहारे विसम्वाद्यते सांसारिकः कश्चित् । तस्मादबाधनान्न प्रमाणलक्षणमतिपतन्ति प्रत्यक्षादय इति ।
सत्यत्वोपपत्तेरिति ।
सत्यत्वाभिमानोपपत्तेरिति । ग्रहणकवाक्यमेतत् । विभजते
यावद्धि न सत्यात्मैकत्वप्रतिपत्तिरिति ।
विकारानेव तु शरीरादीनहमित्यात्मभावेन पुत्रपश्वादीन्ममेत्यात्मीयभावेनेति योजना ।
वैदिकश्चेति ।
कर्मकाण्डमोक्षशास्त्रव्यवहारसमर्थना । “स्वप्नव्यवहारस्येव” इति विभजते
यथा सुप्तस्य प्राकृतस्येति ।
“कथं चानृतेन मोक्षशास्त्रेण” इति यदुक्तं तदनुभाष्य दूषयति
कथं त्वसत्येनेति ।
शक्यमत्र वक्तुं श्रवणाद्युपाय आत्मसाक्षात्कारपर्यन्तो वेदान्तसमुत्थोऽपि ज्ञाननिचयोऽसत्यः, सोऽपि हि वृत्तिरूपः कार्यतया निरोधधर्मा, यस्तु ब्रह्मस्वभावसाक्षात्कारोऽसौ न कार्यस्तत्स्वभावत्वात् , तस्मादचोद्यमेतत्कथमसत्यात्सत्योत्पाद इति । यत्खलु सत्यं न तदुत्पद्यत इति कुतस्तस्यासत्यादुत्पादः । यच्चोत्पद्यते तत्सर्वमसत्यमेव । सांव्यवहारिकं तु सत्यत्वं वृत्तिरूपस्य ब्रह्मसाक्षात्कारस्येव श्रवणादीनामप्यभिन्नम् । तस्मादभ्युपेत्य वृत्तिस्वरूपस्य ब्रह्मसाक्षात्कारस्य परमार्थसत्यतां व्यभिचारोद्भावनमिति मन्तव्यम् । यद्यपि सांव्वहारिकस्य सत्यादेव भयात्सत्यं मरणमुत्पद्यते तथापि भयहेतुरहिस्तज्ज्ञानं वाऽसत्यं ततो भयं सत्यं जायत इत्यसत्यात्सत्यस्योत्पत्तिरुक्ता । यद्यपि चाहिज्ञानमपि स्वरूपेण सत्तथापि न तज्ज्ञानत्वेन भयहेतुरपि त्वनिर्वाच्याहिरूषितत्वेन । अन्यथा रज्जुज्ञानादपि भयप्रसङ्गाज्ज्ञानत्वेनाविशेषात् । तस्मादनिर्वाच्याहिरूषितं ज्ञानमप्यनिर्वाच्यमिति सिद्धमसत्यादपि सत्यस्योपजन इति । न च ब्रूमः सर्वस्मादसत्यात्सत्यस्योपजनः, यतः समारोपितधूमभावाया धूममहिष्या वह्निज्ञानं सत्यं स्यात् । नहि चक्षुषो रूपज्ञानं सत्यमुपजायत इति रसादिज्ञानेनापि ततः सत्येन भवितव्यम् । यतो नियमो हि स तादृशः सत्यानां यतः कुतश्चित्किञ्चिदेव जायत इति । एवमसत्यानामपि नियमो यतः कुतश्चिदसत्यात्सत्यं कुतश्चिदसत्यं, यथा दीर्घत्वादेर्वर्णेषु समारोपितत्वाविशेषेऽप्यजीनमित्यतो ज्यानिविरहमवगच्छन्ति सत्यम् । अजिनमित्यतस्तु समारोपितदीर्घभावाज्ज्यानिविरहमवगच्छन्तो भवन्ति भ्रान्ताः । न चोभयत्र दीर्घसमारोपं प्रति कश्चिदस्ति भेदः । तस्मादुपपन्नमसत्यादपि सत्यस्योदय इति । निदर्शनान्तरमाह
स्वप्नदर्शनावस्थस्येति ।
यथा सांसारिको जाग्रद्भुजङ्गं दृष्ट्वा पलायते ततश्च न दंशवेदनामाप्नोति, पिपासुः सलिलमालोक्य पातुं प्रवर्तते ततस्तदासाद्य पायम्पायमाप्यायितः सुखमनुभवति, एवं स्वप्नान्तिकेऽपि तदवस्थं सर्वमित्यसत्यात्कार्यसिद्धिः । शङ्कते
तत्कार्यमप्यनृतमेवेति ।
एवमपि नासत्यात्सत्यस्य सिद्धिरुक्तेत्यर्थः ।
परिहरति
तत्र ब्रूमः । यद्यपि स्वप्नदर्शनावस्थस्येति ।
लौकिको हि सुप्तोत्थितोऽवगम्यं बाधितं मन्यते न तदवगतिं, तेन यद्यपि परिक्षका अनिर्वाच्यरूषितामवगतिमनिर्वाच्यां निश्चिन्वन्ति तथापि लौकिकाभिप्रायेणैतदुक्तम् । अत्रान्तरे लौकायतिकानां मतमपाकरोति
एतेन स्वप्नदृशोऽवगत्यबाधनेनेति ।
यदा खल्वयं चैत्रस्तारक्षवीं व्यात्तविकटदंष्ट्राकरालवदनामुत्तब्धबम्भ्रमन्मस्तकावचुम्बिलाङ्गूलामतिरोषारुणस्तब्धविशालवृत्तलोचनां रोमाञ्चसञ्चयोत्फुल्लमीषणां स्फटिकाचलभित्तिप्रतिबिम्बितामभ्यमित्रीणां तनुमास्थाय स्वप्ने प्रतिबुद्धो मानुषीमात्मनस्तनुं पश्यति तदोभयदेहानुगतमात्मानं प्रतिसन्दधानो देहातिरिक्तमात्मानं, निश्चिनोति, न तु देहमात्रम् , तन्मात्रत्वे देहवत्प्रतिसन्धानाभावप्रसङ्गात् । कथं चैतदुपपद्येत यदि स्वप्नदृशोऽवगतिरबाधिता स्यात् । तद्बाधे तु प्रतिसन्धानाभाव इति । असत्याच्च सत्यप्रतीतिः श्रुतिसिद्धान्वयव्यतिरेकसिद्धा चेत्याह
तथाच श्रुतिरिति ।
तथाकारादीति ।
यद्यपि रेखास्वरूपं सत्यं तथापि तद्यथासङ्केतमसत्यम् । नहि सङ्केतयितारः सङ्केतयन्तीदृशेन रेखाभेदेनायं वर्णः प्रत्येतव्योऽपि त्वीदृशो रेखाभेदोऽकार ईदृशश्च ककार इति । तथा चासमीचीनात्सङ्केतात्समीचीनवर्णावगतिरिति सिद्धम् । यच्चोक्तमेकत्वांशेन ज्ञानमोक्षव्यवहारः सेत्स्यति, नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राह
अपि चान्त्यमिदं प्रमाणमिति ।
यदि खल्वेकत्वानेकत्वनिबन्धनौ व्यवहारावेकस्य पुंसोऽपर्यायेण सम्भवतस्ततस्तदर्थमुभयसद्भावः कल्प्येत, न त्वेतदस्ति । नह्येकत्वावगतिनिबन्धनः कश्चिदस्ति व्यवहारः, तदवगतेः सर्वोत्तरत्वात् । तथाहि “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यैकात्म्यावगतिः समस्तप्रमाणतत्फलतद्व्यवहारानपबाधमानैवोदीयते, नैतस्याः परस्तात्किञ्चिदनुकूलं प्रतिकूलं चास्ति, यदपेक्षेन, येन चेयं प्रतिक्षिप्येत, तत्रानुकूलप्रतिकूलनिवारणान्नातः परं किञ्चिदाकाङ्क्ष्यमिति । न चेयमवगतिर्डुलिक्षीरप्रायेत्याह
न चेयमिति ।
स्यादेतत् । अन्त्या चेदियमवगतिर्निष्प्रयोजना तर्हि तथा च न प्रेक्षावद्भिरुपादीयेत, प्रयोजनवत्त्वे वा नान्त्या स्यादित्यत आह
न चेयमवगतिरनर्थिका कुतः अविद्यानिवृत्तिफलदर्शनात् ।
नहीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति येन नान्त्या स्यात् , किन्त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवोदयते । अविद्यानिवृत्तिश्च न तत्कार्यतया फलमपि त्विष्टतया, इष्टलक्षणत्वात्फलस्येति । प्रतिकूलं पराचीनं निराकर्तुमाह
भ्रान्तिर्वेति ।
कुतः,
बाधकेति ।
स्यादेतत् । मा भूदेकत्वनिबन्धनो व्यवहारोऽनेकत्वनिबन्धनस्त्वस्ति, तदेव हि सकलामुद्वहति लोकयात्राम् , अतस्तत्सिद्ध्यर्थमनेकत्वस्य कल्पनीयं तात्त्विकत्वमित्यत आह
प्राक्चेति ।
व्यवहारो हि बुद्धिपूर्वकारिणां बुद्ध्योपपद्यते, न त्वस्यास्तात्त्विकत्वेन, भ्रान्त्यापि तदुपपत्तेरित्यावेदितम् । सत्यं च तदविसंवादात् , अनृतं च विचारासहतयानिर्वाच्यत्वात् । अन्त्यस्यैकात्म्यज्ञानस्यानपेक्षतया बाधकत्वं, अनेकत्वज्ञानस्य च प्रतियोगिग्रहापेक्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरति
तस्मादन्त्येन प्रमाणेनेति ।
स्यादेतत् । न वयमनेकत्वव्यवहारसिद्ध्यर्थमनेकत्वस्य तात्त्विकत्वं कल्पयामः, किन्तु श्रौतमेवास्य तात्त्विकत्वमिति चोदयति
ननु मृदादीति ।
परिहरति
नेत्युच्यत इति ।
मृदादिदृष्टान्तेन हि कथञ्चित्परिणाम उन्नेयः, नच शक्य उन्नेतुम् , “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति कारणमात्रसत्यत्वावधारणेन कार्यस्यानृतत्वप्रतिपादनात् । साक्षात्कूटस्थनित्यत्वप्रतिपादिकास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः । अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आह
न ह्येकस्येति ।
शङ्कते
स्थितिगतिवदिति ।
यथैकबाणाश्रये गतिनिवृत्ती एवमेकस्मिन्ब्रह्मणि परिणामश्च तदभावश्च कौटस्थ्यं भविष्यत इति । निराकरोति
न कूटस्थस्येति विशेषणादिति ।
कूटस्थनित्यता हि सदातनी स्वभावादप्रच्युतिः । सा कथं प्रच्युत्या न विरुध्यते । नच धर्मिणो व्यतिरिच्यते धर्मो येन तदुपजनापायेऽपि धर्मी कूटस्थः स्यात् । भेद ऐकान्तिके गवाश्ववद्धर्मधर्मिभावाभावात् । बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति । अपि च स्वाध्यायाध्ययनविध्यापादितार्थवत्त्वस्य वेदराशेरेकेनापि वर्णेनानर्थकेन न भवितव्यं किं पुनरियता जगतो ब्रह्मयोनित्वप्रतिपादकेन वाक्यसन्दर्भेण । तत्र फलवद्ब्रह्मदर्शनसमाम्नानसन्निधावफलं जगद्योनित्वं समाम्नायमानं तदर्थं सत्तदुपायतयावतिष्ठते नार्थान्तरार्थमित्याह
नच यथा ब्रह्मण इति ।
अतो न परिणामपरत्वमस्येत्यर्थः ।
तदनन्यत्वमित्यस्य सूत्रस्य प्रतिज्ञाविरोधं श्रुतिविरोधं च चोदयति
कूटस्थब्रह्मात्मवादिन इति ।
परिहरति
न । अविद्यात्मक इति ।
नाम च रूपं च ते एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वादैश्वर्यस्य । एतदुक्तं भवति न तात्त्विकमैश्वर्यं सर्वज्ञत्वं च ब्रह्मणः किन्त्वविद्योपाधिकमिति तदाश्रयं प्रतिज्ञासूत्रं, तत्त्वाश्रयं तु तदनन्यत्वसूत्रम् , तेनाविरोधः । सुगममन्यत् ॥ १४ ॥
भावे चोपलब्धेः ।
कारणस्य भावः सत्ता चोपलम्भश्च तस्मिन् कार्यस्योपलब्धेर्भावाच्च । एतदुक्तं भवति - विषयपदं विषयविषयिपरं, विषयिपदमपि विषयिविषयपरं, तेन कारणोपलम्भभावयोरुपादेयोपलम्भभावादिति सूत्रार्थः सम्पद्यते । तथा च प्रभारूपानुविद्धबुद्धिबोध्येन चाक्षुषेण न व्यभिचारः, नापि वह्निभावाभावानुविधायिभावाभावेन धूमभेदेनेति सिद्धं भवति । तत्र यथोक्तहेतोरेकदेशाभिधानेनोपक्रमते भाष्यकारः
इतश्च कारणादनन्यत्वम्भेदाभावः कार्यस्य, यत्कारणं यस्मात्कारणात्भाव एव कारणस्येति ।
अस्य व्यतिरेकमुखेन गमकत्वमाह
नच नियमेनेति ।
काकतालीयन्यायेनान्यभावेऽन्यदुपलभ्यते, न तु नियमेनेत्यर्थः ।
हेतुविशेषणाय व्यभिचारं चोदयति
नन्वन्यस्य भावेऽपीति ।
एकदेशिमतेन परिहरति
नेत्युच्यत इति ।
शङ्कयैकदेशिपरिहारं दूषयित्वा परमार्थपरिहारमाह
अथेति ।
तदनेन हेतुविशेषणमुक्तम् । पाठान्तरेणेदमेव सूत्रं व्याचष्टे
न केवलं शब्दादेवेति ।
पट इति हि प्रत्यक्षबुद्ध्या तन्तव एवातानवितानावस्था आलम्ब्यन्ते, न तु तदतिरिक्तः पटः प्रत्यक्षमुपलभ्यते । एकत्वं तु तन्तूनामेकप्रावरणलक्षणार्थक्रियावच्छेदाद्बहूनामपि । यथैकदेशकालावच्छिन्ना धवखदिरपलाशादयो बहवोऽपि वनमिति । अर्थक्रियायां च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किञ्चिन्मिलिताः कुर्वन्तो दृश्यन्ते, यथा ग्रावाण उखाधारणमेकम् , एवमनारभ्यैवार्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति । नच समवायाद्भिन्नयोरपि भेदानवसायः अनवसाय इति साम्प्रतम्, अन्योन्याश्रयत्वात् । भेदे हि सिद्धे समवायः समवायाच्च भेदः । नच भेदे साधनान्तरमस्ति, अर्थक्रियाव्यपदेशभेदयोरभेदेऽप्युपपत्तेरित्युपपादितम् । तस्माद्यत्किञ्चिदेतम् । अनया च दिशा मूलकारणं ब्रह्मैव परमार्थसत् , अवान्तरकारणानि च तन्त्वादयः सर्वेऽनिर्वाच्या एवेत्याह
तथा च तन्तुष्विति ॥ १५ ॥
सत्त्वाच्चावरस्य ।
विभजते
इतश्चेति ।
न केवलं श्रुतिः, उपपत्तिश्चात्र भवति
यच्च यदात्मनेति ।
नहि तैलं सिकतात्मना सिकतायामस्ति यथा घटोऽस्ति मृदि मृदात्मना । प्रत्युत्पन्नो हि घटो मृदात्मनोपलभ्यते । नैवं प्रत्युत्पन्नं तैलं सिकतात्मना । तेन यथा सिकतायास्तैलं न जायत एवमात्मनोऽपि जगन्न जायेत, जायते च, तस्मादात्मात्मनासीदिति गम्यते । उपपत्त्यन्तरमाह
यथा कारणं ब्रह्मेति ।
यथा हि घटः सर्वदा सर्वत्र घट एव न जात्वसौ क्वचित्पटो भवत्येवं सदपि सर्वत्र सर्वदा सदेव न तु क्वचित्कदाचिदसद्भवितुमर्हतीत्युपपादितमधस्तात् । तस्मात्कार्यं त्रिष्वपि कालेषु सदेव । सत्त्वं चेत्किमतो यद्येवमित्यत आह
एकं च पुनरिति ।
सत्त्वं चैकं कार्यकारणयोः । नहि प्रतिव्यक्ति सत्त्वं भिद्यते । ततश्चाभिन्नसत्तानन्यत्वादेते अपि मिथो न भिद्येते इति । नच ताभ्यामनन्यत्वात्सत्त्वस्यैव भेद इति युक्तम् । तथा सति हि सत्त्वस्य समारोपितत्वप्रसङ्गः । तत्र भेदाभेदयोरन्यतरसमारोपकल्पनायां किं तात्त्विकाभेदोपादानाभेदकल्पनास्तु, आहो तात्त्विकभेदोपादानाभेदकल्पनेति । वयं तु पश्यामो भेदग्रहस्य प्रतियोगिग्रहापेक्षत्वाद्भेदग्रहमन्तरेण च प्रतियोगिग्रहासम्भवादन्योन्यसंश्रयापत्तेः, अभेदग्रहस्य च निरपेक्षतया तदनुपपत्तेरेकैकाश्रयत्वाच्च भेदस्यैकाभावे तदनुपपत्तेरभेदग्रहोपादानैव भेदकल्पनेति सर्वमवदातम् ॥ १६ ॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।
व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयौ । सूत्रमेतन्निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ १७ ॥
युक्तेः शब्दान्तराच्च । अतिशयवत्त्वात्प्रागवस्थाया इति ।
अतिशयो हि धर्मो नासत्यतिशयवति कार्ये भवितुमर्हतीति । ननु न कार्यस्यातिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चासत्यपि कार्ये कारणस्य सत्त्वात्सन्नेवेत्यत आह
शक्तिश्चेति ।
नान्या कार्यकारणाभ्यां, नाप्यसती कार्यात्मनेति योजना ।
अपिच कार्यकारणयोरिति ।
यद्यपि “भावाच्चोपलब्धेः”(ब्र. सू. २ । १ । १५) इत्यत्रायमर्थ उक्तस्तथापि समवायदूषणाय पुनरवतारितः । अनभ्युपगम्यमाने चसमवायस्य समवायिभ्यां सम्बन्धे विच्छेदप्रसङ्गोऽवयवावयविद्रव्यगुणादीनां मिथः । नह्यसम्बद्धः समवायिभ्यां समवायः समवायिनौ सम्बन्धयेदिति । शङ्कते
अथ समवायः स्वयमिति ।
यथा हि सत्त्वयोगाद्द्रव्यगुणकर्माणि सन्ति, सत्त्वं तु स्वभावत एव सदिति न सत्त्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां सम्बद्धुं न सम्बन्धान्तरयोगमपेक्षते, स्वयं सम्बन्धरूपत्वादिति । तदेतत्सिद्धान्तान्तरविरोधापादनेन निराकरोति
संयोगोऽपि तर्हीति ।
नच संयोगस्य कार्यत्वात्कार्यस्य च समवायिकारणाधीनजन्मत्वात् असमवाये च तदनुपपत्तेः समवायकल्पना संयोग इति वाच्यम् । अजसंयोगे तदभावप्रसङ्गात् । अपि च सम्बन्ध्यधीननिरूपणः समवायो यथा सम्बन्धिद्वयभेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एवं संयोगोऽपि भवेत् । ततः को दोषः । अथैतत्प्रसङ्गभिया संयोगवत्समवायोऽपि प्रतिसम्बन्धिमिथुनं भिद्यते चानित्यश्चेत्यभ्युपेयते, तथा सति यथैकस्मान्निमित्तकारणादेव जायत एवं संयोगोऽपि निमित्तकारणादेव जनिष्यत इति समानम् ।
तादात्म्यप्रतीतेश्चेति ।
सम्बन्धावगमो हि सम्बन्धकल्पनाबीजं न तादात्म्यावगमः, तस्य नानात्वैकाश्रयसम्बन्धविरोधादिति । वृत्तिविकल्पेनावयवातिरिक्तमवयविनं दूषयति
कथञ्च कार्यमिति ।
समस्तेति ।
मध्यपरभागयोरर्वाग्भागव्यवहितत्वात् । अथ समस्तावयवव्यासङ्ग्यपि कतिपयावयवस्थानो ग्रहीष्यत इत्यत आह
नहि बहुत्वमिति ।
अथावयवश इति ।
बहुत्वसङ्ख्या हि स्वरूपेणैव व्यासज्य सङ्ख्येयेषु वर्तते इत्येकमसङ्ख्येयाग्रहणेऽपि न गृह्यते, समस्तव्यासङ्गित्वात्तद्रूपस्य । अवयवी तु न स्वरूपेणावयवान्व्याप्नोति, अपि त्ववयवशः । तेन यथा सूत्रमवयवैः कुसुमानि व्याप्नुवन्न समस्तकुसुमग्रहणमपेक्षते कतिपयकुसुमस्थानस्यापि तस्योपलब्धेः, एवमवयव्यपीति भावः । निराकरोति
तदापीति ।
शङ्कते
गोत्वादिवदिति ।
निराकरोति
नेति ।
यद्यपि गोत्वस्य सामान्यस्य विशेषा अनिर्वाच्या न परमार्थसन्तस्तथा च क्वास्य प्रत्येकपरिसमाप्तिरिति, तथाप्यभ्युपेत्येदमुदितमिति मन्तव्यम् । अकर्तृका यतोऽतो निरात्मिका स्यात् । कारणाभावे हि कार्यमनुत्पन्नं किंनाम भवेत् । अतो निरात्मकत्वमित्यर्थः । यद्युच्येत घटशब्दस्तदवयवेषु व्यापाराविष्टतया पूर्वापरीभावमापन्नेषु घटोपजनाभिमुखेषु तादर्थ्यनिमित्तादुपचारात्प्रयुज्यते, तेषां च सिद्धत्वेन कर्तृत्वमस्तीत्युपपद्यते घटो भवतीति प्रयोग इत्यत आह
घटस्य चोत्पत्तिरुच्यमानेति ।
उत्पादना हि सिद्धानां कपालकुलालादीनां व्यापारो नोत्पत्तिः । न चोत्पादनैवोत्पत्तिः, प्रयोज्यप्रयोजकव्यापारयोर्भेदात् । अभेदे वा घटमुत्पादयतीतिवद्घटमुत्पद्यत इत्यपि प्रसङ्गात् । तस्मात्करोतिकारयत्योरिव घटगोचरयोर्भृत्यस्वामिसमवेतयोरुत्पत्त्युत्पादनयोरधिष्ठानभेदोऽभ्युपेतव्यः, तत्र कपालकुलालादीनां सिद्धानामुत्पादनाधिष्ठानानां नोत्पत्त्यधिष्ठानत्वमस्तीति पारिशेष्याद्घट एव साध्य उत्पत्तेरधिष्ठानमेषितव्यः । न चासावसन्नधिष्ठानं भवितुमर्हतीति सत्त्वमस्याभ्युपेयम् । एवंच घटो भवतीति घटव्यापारस्य धातूपात्तत्वात्तत्रास्य कर्तृत्वमुपपद्यते, तण्डुलानामिव सतां विक्लित्तौ विक्लिद्यन्ति तण्डुला इति । शङ्कते
अथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरिति ।
एतदुक्तं भवति नोत्पत्तिर्नाम कश्चिद्व्यापारः, येनासिद्धस्य कथमत्र कर्तृत्वमित्यनुयुज्येत, किन्तु स्वकारणसमवायः, स्वसत्तासमवायो वा, स चासतोऽप्यविरुद्ध इति । सोऽप्यसतोऽनुपपन्न इत्याह
कथमलब्धात्मकमिति ।
अपि च प्रागुत्पत्तेरसत्त्वं कार्यस्येति कार्याभावस्य भावेन मर्यादाकरणमनुपपन्नमित्याह
अभावस्य चेति ।
स्यादेतत् । अत्यन्ताभावस्य वन्ध्यासुतस्य मा भून्मर्यादानुपाख्यो हि सः, घटप्रागभावस्य तु भविष्यता घटेनोपाख्येयस्यास्ति मर्यादेत्यत आह
यदि वन्ध्यापुत्रः कारकव्यापारादिति ।
उक्तमेतदधस्ताद्यथा न जातु घटः पटो भवत्येवमसदपि सन्न भवतीति । तस्मान्मृत्पिण्डे घटस्यासत्त्वेऽत्यन्तासत्त्वमेवेति । अत्रासत्कार्यवादी चोदयति
नन्वेवं सतीति ।
प्राक्प्रसिद्धमपि कार्यं कदाचित्कारणेन योजयितुं व्यापारोऽर्थवान्भवेदित्यत आह
तदनन्यत्वाच्चेति ।
परिहरति
नैष दोष इति ।
उक्तमेतद्यथा भुजङ्गतत्त्वं न रज्जोर्भिद्यते, रज्जुरेव हि तत् , काल्पनिकस्तु भेदः, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते कारणस्वरूपमेव हि तत् , अनिर्वाच्यं तु कार्यरूपं भिन्नमिवाभिन्नमिव चावभासत इति । तदिदमुक्तम्
वस्त्वन्यत्वमिति ।
वस्तुतः परमार्थतोऽन्यत्वं न विशेषदर्शनमात्राद्भवति । सांव्यावहारिके तु कथञ्चित्तत्त्वान्यत्वे भवत एवेत्यर्थः । अनयैव हि दिशैष सन्दर्भो योज्यः । असत्कार्यवादिनं प्रति दूषणान्तरमाह
यस्य पुनरिति ।
कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यान्नान्यथेत्यर्थः ।
मूलकारणं
ब्रह्म ।
शब्दान्तराच्चेति सूत्रावयवमवतार्य व्याचष्टे
एवं युक्तेः कार्यस्येति ।
अतिरोहितार्थम् ॥ १८ ॥
पटवच्च । यथा च प्राणादि ।
इति च सूत्रे निगदव्याख्यातेन भाष्येण व्याख्याते ॥ १९ ॥ २० ॥
तदनन्यत्वमारम्भणशब्दादिभ्यः॥१४॥ पूर्वाधिकरणेऽपि भेदग्राहिमानविरोधोक्तेः पुनरुक्तिमाशङ्क्याह –
पूर्वस्मादिति ।
अङ्गीकृत्य हि भेदग्राहिमानस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः परिहृतः , इदानीं त्वस्वीकृत्य प्रामाण्यं तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । एवंभूतविशेषाभिधानेनोपक्रमो यस्य विरोधपरिहारस्य स तथोक्तः । तदनन्यत्वपदेन द्वैतमिथ्यात्वोक्तेरेवमुपक्रमत्वम् । श्रुतौ परिणामिमृदादिदृष्टान्तोपादानान्न भेदाभेदविवक्षेति मन्तव्यम् ।
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां प्रधानस्यानुरोधेन गुणभूतदृष्टान्तस्य विवर्तपरत्वेन नेयत्वादित्याह –
एवं हीति ।
ननु परिणामपक्षेऽप्यभेदांशेन सर्वज्ञानं स्यादत आह –
तत्त्वज्ञानं चेति ।
भेदालीकताया उक्तत्वादित्यर्थः ।
उपपादितमधस्तादिति ।
शिष्टापरिग्रहाधिकरण(ब्र.अ.१ पा३ सू.२४ –३३) पूर्वपक्ष इत्यर्थः ।
दृष्टान्तमात्रान्नार्थसिद्धिरिति भाष्ये हेतुरुक्त – दृष्टेति ।
तं व्याचष्टे –
ये हीति ।
क्वचिद्दृष्टं पुनर्नष्टमनित्यमित्यर्थः । दृष्टग्रहणं प्रतीतसमयेऽपि सत्त्वव्यावृत्त्यर्थम् ।
व्यतिरेकव्याप्तिमाह –
यदस्तीति ।
विमतं मिथ्या , सावधिकत्वाद्व्यतिरेके चिदात्मवदित्यनुमानस्य विपक्षे बाधकतामाह –
सत्स्वभावं चेदेति ।
सत्त्वासत्त्वे विकारस्य स्वरूपमुत धर्मौ , अथार्थान्तरमलीकं वेति विकल्प्य क्रमेण निराकुर्वन्ननुमानस्यानुकूलतर्कमाह –
असत्स्वभावं चेत्यादिना ।
अर्थान्तरत्वेऽपि विरोधित्वं शङ्कते –
असत्त्वमिति ।
विरोधिभूतमसत्त्वं भावस्य किमकिंचित्करमुतासत्व करं स्वरूपं वेति विकल्प्य क्रमेण दूषयति –
नेत्यादिना ।
किंचित्करत्वे यत्किंचिदसत्त्वं क्रियते तदपि स्वरूपं धर्मो वेत्यादि विकल्प्य तद्दूषणानां सम्भवादित्यर्थः । असत्त्ववत्सत्त्वेऽपि अर्थान्तरत्वादिविकल्पा द्रष्टव्याः । अर्थान्तरत्वादपि विकारे फलाभावात्सत्त्वान्तरजन्मनि चानवस्थानाद् विकारे सत्त्वान्तरं न भवति , किन्तु स एव सन् भवतीत्युक्तेऽपि त्स्वभावस्यासत्त्वविरोधेन विकारनित्यत्वापातादिति।
ननु कार्यमिथ्यात्वं कारणसत्यत्वं चानुमानसिद्धं श्रुत्या दृष्टान्तीकर्तुमयुक्तम् , लोकसिद्धस्य दृष्टान्तत्वोक्तेरित्याशङ्क्याह –
यत्रेति ।
मृदेका शरावादायः परस्परं भिन्ना इत्यभ्युपगमेऽत्यन्तभेद एव स्यात् ।
अथ मृदात्मना शरावादीनामेकत्वं मृदश्च शरावाद्यात्मना नानात्वमिति मतम् , तद् विकल्प्य दूषयति –
इदं तावदित्यादिना ।
अत्यन्ताभेदे ह्यपुनरुक्तशब्दद्वयप्रयोगो भेदाभेदयोः कार्यकारणात्मना व्यवस्था च न स्यादित्याह –
तत्रेति ।
न चानेकान्तवाद इति ।
भेदपक्षेऽनेकान्तवादश्च न भवतीत्यर्थः ।
न भवेदपीति ।
अनेकान्तत्वान्न भवेदपीत्यपेरर्थः । सत्यवादिनस्तस्करत्वेनारोपितस्य मोक्षवत्सत्यब्रह्मात्मत्ववेदिनो मोक्ष इति तस्करदृष्टान्तः ।
अहंममाभिमानयोरेकत्र व्याघातः स्यादिति प्रविभज्य योजयति –
शरीरादीनीति ।
ननु मिथ्यात्वे श्रवणादीनामविद्यानिवृत्तिसमर्थसाक्षात्कारहेतुत्वं न स्यादत आह –
सांव्यवहारिकं त्विति ।
असत्यादपि कार्यक्षमपदार्थोत्पत्तिमनन्तरमेव वक्ष्याम इत्यर्थः ।
यद्यसत्यात्सत्यधीः स्यात् , तर्हि धूमाभासादपि वह्निधीः समीचीना स्यादित्युक्तम् , इत्याशङ्क्याह –
न च ब्रूम इति ।
धूममहिषी धूमी । सा च बाष्पः । असत्यादपि सत्यमुत्पद्यत इत्युच्यते न पुनरसत्यात्सत्योत्पादनियम इत्यर्थः ।
यदि पुनः कुतश्चिदसत्यात्सत्यं जातमिति सर्वं स्मादसत्यात्सत्यजन्मापाद्यते , तर्हि किंचित्सत्यं कस्यचित्सत्यस्य जनकमिति तत एव सर्वं सत्यं स्यादिति प्रतिबन्दीमाह –
न हीति ।
चोद्यसाम्यमुक्त्वा परिहारसाम्यमाह –
यत इति ।
यतो नियमादित्यर्थः । ज्या वयोहानावित्यस्य निष्ठायां संप्रसारणे नञ्समासे चाऽजीनमिति रूपम् । अस्मादध्यस्तदीर्घभावाद्यद्यपि ज्योनेर्वयोहानेरभावं सत्यमवगच्छति। वक्ता तु ह्रस्वत्वेनाजिनमिति उच्चरिते भ्रमादजीनमिति गृहीतादस्माच्छब्दाद्या वयोहानिप्रतीतिः सा भ्रान्तिरजिनशब्दो हि चर्मवचन इति ।
अत्र यथा आरोपितत्वाविशेषेऽपि किंचिद्दैर्ध्यं सत्यबोधकं किंचिदसत्यबोधकमेवमस्माकमपीत्यर्थः । पायं पायं पीत्वा पीत्वा । तारक्षवीं व्याघ्रमयीं तनुमास्थायेत्यन्वयः । व्याप्तं विवृतं विकटाभ्यां वक्त्रभ्यां दंष्ट्राभ्यां करालं भयानकम् आननं यस्याः सा तथोक्ता । उत्तब्धम् उन्नमय्य धृतम् । बम्भ्रमदत्यर्थं भ्रमन्मस्तकावचुम्बि लाङ्गूलं यस्याः सा तथा । ध्वस्ते इतस्ततो विक्षिप्ते लोचने यस्याः सा तथा । अमित्रमभि प्रतियोद्धुं गताम् अभ्यमित्रीणाम् । स्फटिकशैलप्रतिबिम्बितां ह्यमित्रमिति भ्रमादात्मतनुं धावन्तीं सुप्तो व्याघ्रतनुमास्थितः पश्यतीति। यदि स्वप्नदृशोऽवगतिरबाधिता स्यात् , तर्ह्येवोपपद्यत इत्यर्थः । भेदाभेदव्यवहारौ भेदाभेदोपपादकाविति वदन् प्रष्टव्यः किं ब्रह्मज्ञानात्प्राचीनौ तदुपपादकौ पराचीनौ वेति।
नाद्य इत्युक्तं –
नानात्वांशेन कर्मकाण्डाश्रय इत्यादिना ।
तत्त्वज्ञानात्प्रागभेदव्यवहारस्याप्राप्तत्वान्न स उपन्यस्तः ।
द्वितीयमिदानीं शङ्कते –
यच्चोक्तमिति ।
एकत्वज्ञानोत्तरकालम् एकत्वव्यवहारोऽपि नास्ति , नतरामनेकत्वव्यवहार इति परिहरति –
यदि खल्विति ।
डुलिः कच्छपी । न तस्याः क्षीरमस्ति , स्मृत्या हि साऽपत्यानि पोषयति। अवगतिर्वृत्ति व्यक्तं स्वरूपम् ।
यथा खलु घटध्वंसो घटविरोधिकार्योदय एव , नाभावस्तस्य तुच्छत्वेन कार्यत्वायोगादेवमविद्यानिवृत्तिरपि विरोधिविद्याभिव्यक्तिरित्याह –
अविद्याविरोधिस्वभावतयेति ।
अविद्यानिवृत्तिर्यदि विद्यायाः स्वरूपं , कथं तर्हि विद्याफलमत आह –
अविद्यानिवृत्तिश्चेति ।
न वयं ज्ञानात्पराचीनव्यवहाराय द्वैतसत्यत्वं कल्पयामः , किन्तु प्राचीनसिध्द्यर्थमेवेति शङ्कते –
स्यादेतदिति ।
एकत्वनिबन्धनो व्यवहारो मा भूत् । द्वैतसत्यत्वाक्षेपक इति शेषः । पूर्वं नानात्वांशेन कर्मकाण्डाश्रय इति ग्रन्थे प्रमाणसिद्धाद्भेदव्यवहाराद्भेदसत्यत्वमाशङ्क्य परिहृतम् , इदानीं सर्वलोकप्रसिद्धेर्भेदसत्यत्वमाशङ्क्य देहात्मभाववद् मिथ्यात्वेऽपि तदुपपत्तिमाहेति भेदः॥१४॥
कार्यं कारणादभिन्नं तद्भाव उपलब्धेरित्यापातसिद्धे सूत्रार्थे दोषं दृष्ट्वा व्याख्याति –
कारणस्य भाव इति ।
भाव इत्यस्य व्याख्यानं –
सत्ता चेति ।
ननु कारणस्य भाव एव सूत्रे प्रतीयते , कार्यस्योपलब्धिरेव , तत्कथमुभयत्रेतरेतरविशिष्टयोर्हेतुत्वमत आह –
एतदिति ।
विषयपदं भावपरम् , भावो ह्युपलब्धिविषय इति तद्दण्डिन्यायेन विषयविषयिपरम् । एवं विषयिपदमुपलब्धिपदमप्युभयपरमित्यर्थः । उपादेयं कार्यम् ।
सविशेषहेतौ फलमाह –
तथा चेति ।
उपलब्धावुपलब्धेरिति हेतूकारे प्रभासाक्षात्कारे साक्षात्कृतेन चाक्षुषेण व्यभिचारः स्यात् । न हि घटादेः प्रभायाश्चाभेदस्तन्निवृत्त्यर्थं भावे भावादिति विशेषणम् । न हि प्रभाया भाव एव घटो भवतीत्यर्थः ।
यदा तद्भावानुरक्तधीबोध्यत्वं हेत्वर्थस्तदापि भाति घट इति प्रभानुरक्तधीगम्येऽनेकान्तस्तदिदमुक्तं –
प्रभारूपानुविद्धेति ।
यदि भावे भावादिति हेतुस्तर्हि वह्निभावे भवति विशिष्टधूमेऽनेकान्तः स्यात् ।
उपलब्धावुपलब्धेरिति विशेषेण तु न भवेद्धूमस्य वह्न्युपलब्धावेवोपलब्धिरिति नियमाभावादित्याह –
नापीति ।
तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदाम इति भाष्यम् ।
अत्र कारणस्वभावानुविद्धा कार्यबुद्धिर्हेतुत्वेनोक्तेति न भ्रमितव्यम् ; तत्रापि व्यभिचारस्योक्तत्वात् , किंतु सूत्रगतोपलब्धिं बुद्धिं कार्यकारणोभयविषयां तयोः कार्यकारणयोर्भावेन सत्तयोपरक्तां विशेषितां हेतुं वयं वदाम इति भाष्यार्थ इत्याह –
तदनेनेति ।
हेतुविशेषणमुक्तं न हेत्वन्तरपरत्वेन व्याख्यानमित्यर्थः ।
पटस्य तन्तुव्यतिरेकेणानुपलम्भः समवायस्य भेदतिरोधायकत्वादन्यथासिद्ध इत्याशङ्क्याह –
न चेति ।
सम्बन्धस्य भिन्नाश्रितत्वाद्भेदसिद्धौ समवायः समवायाच्च व्यतिरेकानुपलब्धौ समाहितायां भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।
पटस्तन्तुभ्यो भिद्यते तदुपलम्भेऽपि कुविन्दव्यापारात्प्रागनुपालब्धत्वात् कुम्भवदित्यनुमानाद्भेदसिद्धेर्नेतरेतराश्रयमित्याशङ्क्याह –
न च भेद इति ।
अभेदवादिनस्तन्तूपलम्भे तदभिन्नपटोपलम्भाद्धेत्वसिद्धिरित्यर्थः ।कारणसत्त्वे तन्त्वादि सत्यं स्यादित्याशङ्क्याह –
अनयेति ॥१५॥
उपपत्तिश्चात्र भवतीति ।
आहेति शेषः ।
उपपत्तिमेव दर्शयति –
न हीति ।
यथा मृदि घटो मृदात्मनाऽस्ति , तथा सिकतायां तदात्मना न तैलमस्ति , तदुपादानोपादेयत्वाभावकृतमित्यर्थः ।
ननु मृदेव घटोत्पत्तेः प्रागस्ति , कथं तदात्मना घटस्य सत्ता ? अत आह –
प्रत्युत्पन्नो हीति ।
उत्पन्नस्य घटस्य मृदात्मत्वदर्शनान्मृदि सत्यां घटसत्त्वं युक्तमित्यर्थः । इत्थं तर्किते कार्यकारणाभेदे प्रयुज्यते - घटत्वं , मृन्निष्ठं घटनिष्ठत्वात्सत्त्ववदिति। एवं जगद्ब्रह्मणोरभेदेऽपि शब्दो ब्रह्मवृत्तिः , आकाशवृत्तित्वात्सत्त्ववदिति ।
कार्यस्य कालत्रये सत्यत्वं भाष्योक्तमयुक्तम् ; तथा सति कर्यत्वव्याघातादित्याशङ्क्यानिर्वाच्यरूपस्य कादाचित्कत्वेऽपि कार्यस्य तत्त्वमधिष्ठानं तच्च नित्यमिति युक्तितः प्रतिपादयति – यथा हि घट इति । कार्यस्य सत्त्वं स्वरूपं धर्मो वा । आद्ये तस्य कदाचिदसत्त्वं न स्यात् । धर्मत्वे च सत्त्वाऽसत्त्वयोर्धर्मयोः कार्यस्य धर्मिणोऽन्वयात् कादाचित्कत्वव्याहतिरित्याद्युपपादितम् । अधस्तात् दृष्टनष्टस्वरूपत्वादिति भाष्यव्याख्यानावसर इत्यर्थः ।
कार्यस्य त्रिषु कालेषु सत्त्वे कारणस्यापि तथात्वाद् द्वे सत्त्वे स्यातां , तथाचाभेदासिद्धिरित्युक्ताभिप्रायानभिज्ञः शङ्कते –
सत्त्वं चेदिति ।
त्रिष्वपि कालेषु कार्यस्य सत्त्वं चेदित्यर्थः । कार्यकारणयोः स्वरूपसत्त्वं चैकमित्यर्थः ।
यदि कार्यकारणयोरेकसत्त्वादभेदादभिन्नत्वं , तर्हि तस्यापि द्वाभ्यामभेदाद्भेदापत्तिरित्याशङ्क्याह –
न च ताभ्यामिति ।
न हि वयं सत्त्वेन कार्यकारणयोः साक्षादभेदं ब्रूमः , किंतु तत्र तयोरारोपितत्वेन तद्व्यतिरेकेणाभावम् ।
यदि मन्येत सत्त्वमेव कार्यकारणयोरारोपितमस्त्विति , तत्राह –
तथा सति हीति ।
स्वकृतस्यैव प्रसञ्जनमयुक्तं दर्शयितुं तामेव पक्षविभागपूर्वकमाह –
तत्रेति ।
भेदः कार्यकारणलक्षणः । सत्त्वमभेदः । अस्मादयं भिन्न इत्यत्र पञ्चम्युल्लिखितावधेर्ग्रहो धर्मिणः सकाशादगृहीतभेदस्य न सम्भवति। भेदग्रहश्च नागृहीते प्रतियोगित्वे उपपद्यते ।
धर्मिणोपि स्वापेक्षया तत्प्रसङ्गात्ततश्चान्योन्याश्रयग्रस्तभेद एवारोपितो नाऽभेद इत्याह –
वयं त्विति ।
यस्तु – अयमन्योन्याश्रयस्य केनचिदुद्धारः कृतः , प्रतियोगित्वेनाप्रतीतावधिकरणत्वप्रतीतिरधिकरणत्वेनाप्रतीतौप्रतियोगित्वप्रतीतेश्च भेदग्रहणकारणं , न भेदेन गृहीतत्वम् । एकं हि अन्योन्याभावाख्यभेदं प्रति स्तम्भकुम्भयोरधिकरणत्वं प्रतियोगित्वं चास्ति। अतः स्वस्मादपि स्वस्य भेदग्रहवारणाय प्रतियोगित्वेनेत्यादिविशेषणम् । स्तम्भाद्भिन्नः कुम्भ इत्यत्र हि स्तम्भः प्रतियोगित्वेनैव प्रतीयते नाधिकरणत्वेन । कुम्भश्चाधिकरणत्वेन न प्रतियोगितया । कुम्भाद्भिन्नः स्तम्भ इति प्रतीत्यन्तरे तु तमेव भेदं प्रति कुम्भः प्रतियोगितया प्रतिभाति , स्तम्भश्च धर्मितया । ततश्चोक्तविधवस्तुप्रतीतिर्भेदग्रहे हेतुरिति क्वेतरेतराश्रयम् – इति सोऽसाधुः ; भेदाधिकरणत्वेन भेदप्रतियोगित्वेन च प्रतीतेरपेक्षायामन्योन्याश्रयादनिस्तारात् , यस्य कस्यचिदधिकरणत्वेन प्रतियोगित्वेन च प्रतीत्यपेक्षायां सत्ताधिकरणत्वेन पुरोदेशादन्यदेशगतसंसर्गाभावं प्रति प्रतियोगित्वेन च स्फुरतः शक्तिदमंशस्य रजताद्भेदग्रहप्रसङ्गेन भ्रमानुदयप्रसङ्गाद्वस्तुवृत्तेन भेदाधिकरणस्य तत्प्रतियोगिनश्च स्वरूपेण प्रतीत्यपेक्षाप्यत एवापास्तः , स्वरूपेण गृहीतयोः शुक्तीदमंशरजतयोर्वस्तुवृत्तेन तथाभूतयोर्भेदग्रहप्रसङ्गात् । एवं स्वरूपं भेद इति चात एवापास्तम् । असाधारणं स्वरूपं भेद इत्यपि न ; असाधारणत्वस्य भेदग्रहाधीनग्रहत्वेन भेदान्तरापेक्षायां स्वरूपभेदाभ्युपगमभङ्गादिति दिक् ।
भेदेनोपजीव्यत्वाच्चाभेदो नाध्यस्त इत्याह –
एकैकेति ।
वीप्सया भ्रान्तभेदानुवादः । अत एवैकाभाव इत्युक्तम्॥१६॥ व्याकृतनामरूपत्वादिति भाष्ये व्यक्ताव्यक्तस्वीकृतेः सांख्यवादापात इत्याशङ्क्याह – व्याकृतत्वेति॥१७॥ नान्याऽसतीति भाष्ये असतीति च्छेदः ।
कार्यरूपेण च सत्त्वं शक्तेरापाद्यते , तथा सति हि कार्यस्यासत्त्वप्रतिक्षेपः सिध्यतीति मन्वान आह –
नाप्यसतीति ।
भावाच्चेति द्वितीयपाठव्याख्यायां कारणातिरेकेण कार्यानुपलम्भस्योक्तत्वात्पुनरुक्तिमाशङ्क्याह –
यद्यपीति ।
स्वपरनिर्वाहकत्वात्समवायः सम्बन्धान्तरानपेक्षश्चेत्संयोगोऽपि नापेक्षेतेति प्रतिबन्दी , सा संयोगस्य कार्यस्वरूपविशेषादयुक्तेत्याशङ्क्य नित्ये आत्माकाशसंयोगे तस्यासिद्धिमाह –
अजेति ।
अजसंयोगमनिच्छन्तं प्रति सर्वत्रासिद्धमाह –
अपि चेति ।
अस्तु संयोगनित्यत्वाभावाय समवायोऽप्यनित्यः , तथापि नानवस्था ; समवायस्य समवायिकारणानभ्युपगमेन निमित्तकारणमात्रात्तदुत्पत्तेः समवायान्तराप्रसङ्गादित्याशङ्क्याह –
तथासतीति ।
ततः संयोगस्य समवायिकारणमिच्छता समवायस्यापि तदेष्ठव्यमित्यनवस्था तदवस्थैवेत्यर्थः । नानात्वेन सहैक आश्रयो यस्य स सम्बन्धस्तथोक्तः ।
उत्पत्तिकर्तुः कार्यस्य प्रागुत्पत्तेर्नासत्त्वमित्युक्ते तत्रोत्पत्तेर्न कार्यं कर्तृ , किंतु कारणमिति शङ्कते –
यद्युच्येतेति ।
यद्यप्युत्पद्यते घट इति कार्यस्य कर्तृत्वं भाति ; तथापि गौण्या वृत्त्या कारणस्य । तत्र च सिद्धेषु कपालेषु जायत इति पूर्वापरकालव्यासक्तप्रयोगानुपपत्तिः कार्योत्पादनाया व्यासक्तत्वादित्यर्थः ।
कपालकर्तृका घटविषयोत्पादना नोत्पत्तिः , सा तु घटकर्तृकेति परिहरति –
उत्पादनाहीत्यादिना ।
यद्युत्पत्तिरुत्पादनैव , तर्हि उत्पादनायामिवोत्पत्तावपि सकर्मकत्वाद् घटस्य कर्मत्वं व्यपदिश्येत , न चैवमस्तीत्यर्थः । भृत्यो हि घटं करोति स्वामी कारयति तत्र यथा करोतिकारयत्योराश्रयभेद एवमत्रापीत्यर्थः ।
धातूपात्तव्यापारः कर्त्तेति कर्तृलक्षणयोगाच्च घट एवोत्पत्तिकर्तेत्याह –
एवं चेति ।
स्वकारणे कार्यस्य समवायो जन्म स्वस्मिन्नसति कार्ये सत्तासमवायो वेत्यर्थः ।
भिन्नमेवेति ।
सामानाधिकरण्येन हि भिन्नमिवाभिन्नमिव चकास्तीति ।
अनयैवेति ।
इतरथा हि सांख्यवादः स्यादिति ।
भाष्यगतमूलकारणशब्देन ब्रह्मणोऽन्यः कश्चिन्मायाप्रतिबिम्बितो नाभिधीयते । तथा सति तस्य परिच्छन्नत्वादधिकरणोपक्रमोक्तस्य कारणविज्ञानात्सर्वविज्ञानस्यासम्भवप्रसङ्गात्किंतु सर्वाधिष्ठानमित्याह –
मूलकारणमिति॥१८॥
स्वशत्तया नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवभ्रान्तिनिमित्तं तद् बभाषे भामतीपतिः॥ अज्ञातं नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथा॥१९॥
कार्यमुपादानाद् भिन्नं , तदुपलब्धावपि अनुपलब्धत्वात् , ततोऽधिकपरिमाणत्वाच्च सम्मतवदित्यनुमानयोर्व्यभिचारार्थं - पटवच्चेति सूत्रम् । तस्यामेव प्रतिज्ञायां भिन्नकार्यकरत्वस्य व्यभिचारार्थं –
यथा च प्राणादि इति॥२०॥