उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ।
ब्रह्म खल्वेकमद्वितीयतया परानपेक्षं क्रमेणोत्पद्यमानस्य जगतो विविधविचित्ररूपस्योपादानमुपेयते तदनुपपन्नम् । नह्येकरूपात्कार्यभेदो भवितुमर्हति, तस्याकस्मिकत्वप्रसङ्गात् । कारणभेदो हि कार्यभेदहेतुः, क्षीरबीजादिभेदाद्दद्यङ्कुरादिकार्यभेददर्शनात् । न चाक्रमात्कारणात्कार्यक्रमो युज्यते, समर्थस्य क्षेपायोगादद्वितीयतया च क्रमवत्तत्सहकारिसमवधानापपत्तेः । तदिदमुक्तम्
इह हि लोक इति ।
एकैकं मृदादि कारकं तेषां तु सामग्र्यं साधनम् , ततो हि कार्यं साधयत्येव, तस्मान्नाद्वितीयं ब्रह्म जगदुपादानमिति प्राप्ते, उच्यते
क्षीरवद्धि ।
इदं तावद्भवान् पृष्टो व्याचष्टाम् किं तात्त्विकमस्य रूपमपेक्ष्येदमुच्यते उतानादिनामरूपबीजसहितं काल्पनिकं सार्वज्ञ्यं सर्वशक्तित्वम् । तत्र पूर्वस्मिन् कल्पे किं नाम ततोऽद्वितीयादसहायादुपजायते । नहि तस्य शुद्धबुद्धमुक्तस्वभावस्य वस्तुसत्कार्यमस्ति । तथा च श्रुतिः “न तस्य कार्यं करणं च विद्यते”(श्वे. उ. ६ । ८) इति । उत्तरस्मिंस्तु कल्पे यदि कुलालादिवदत्यन्तव्यतिरिक्तसहकारिकारणाभावादनुपादानत्वं साध्यते, ततः क्षीरादिभिर्व्यभिचारः । तेऽपि हि बाह्यचेतनादिकारणानपेक्षा एव कालपरिवशेन स्वत एव परिणामान्तरमासादयन्ति । अत्रान्तरकारणानपेक्षत्वं हेतुः क्रियते, तदसिद्धम् , अनिर्वाच्यनामरूपबीजसहायत्वात् । तथा च श्रुतिः “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”(श्वे. उ. ४ । १०) इति कार्यक्रमेण तत्परिपाकोऽपि क्रमवानुन्नेयः । एकस्मादपि च विचित्रशक्तेः कारणादनेककार्योत्पादो दृश्यते । यथैकस्माद्वह्नेर्दाहपाकावेकस्माद्वा कर्मणः संयोगविभागसंस्काराः । २४ ॥
यदि तु चेतनत्वे सतीति विशेषणान्न क्षीरादिभिर्व्यभिचारः, दृष्टा हि कुलालादयो बाह्यमृदाद्यपेक्षाः, चेतनं च ब्रह्मेति, तत्रेदमुपतिष्ठते
देवादिवदपि लोके ।
लोक्यतेऽनेनेति लोकः शब्द एव तस्मिन् ॥ २५ ॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि॥२४॥ ब्रह्म नोपादानमसहायत्वात्संमतवदिति न्यायेन समन्वयस्य विरोधसन्देहे पूर्वत्रौपाधिकजीवब्रह्मभेदाद्धिताकरणादिदोषः परिहृतः , इह तूपाधितोऽपि विभक्तमधिष्ठात्रादि नास्तीति पूर्वपक्षमाह –
ब्रह्म खल्वित्यादिना ।
एकमित्युपादानभेदवारणम् । अद्वितीयतयेति सहकारिनिषेधः ।
एकत्वप्रयुक्तं दूषणमाह –
न ह्येकरूपादिति ।
कारणवैजात्ये हि कार्यवैजात्यमित्यर्थः ।
न केवलं कार्यवैजात्यायोग एकजातीयकार्याणामपि क्रमयोग इत्याह –
न चाक्रमादिति ।
समर्थमपि सहकार्यपेक्षं सत् क्रमेण कुर्यादित्याशङ्कामपनयन्नद्वितीयत्वप्रयुक्तामनुपपत्तिमाह –
अद्वितीयतया चेति ।
भाष्यस्थकारकसाधनपदयोरपौनरुक्त्यमाह –
एकैकमिति ।
समग्राणां भावः सामग्र्यम् ।
कथं तस्य साधनशब्दाभिधेयत्वमत आह –
ततो हीति ।
साधयत्येवेति ।
साधनमित्यर्थः॥ श्रुतौ – करणं निष्पादनम् । अत्यन्तव्यतिरिक्तत्वं स्वधर्मत्वेनानन्तर्भूतत्वम् । एकस्मिन्काले उषित्वा तं परित्यज्य कालान्तरेऽपि वासः परिवासः पर्युषितमिति दर्शनात् । आन्तरत्वं नाम स्वधर्मत्वम् । मायिनं मायाविषयम् । अज्ञातत्वस्य वस्तुधर्मत्वात् तद्द्वारेण मायाख्यमज्ञानमपि धर्म इत्यान्तरत्वम् ।
ननु मायाया अप्यक्रमत्वात् कथमक्रमात्कारणात् कार्यक्रमस्तत्राह –
कार्यक्रमेणेति ।
तस्या मायायाः परिपाकस्तत्तत्कार्यसर्गं प्रति पौष्कल्यम् । तस्य क्रमोऽपि कार्यक्रमान्यथानुपपत्त्या कल्प्य इत्यर्थः ।
पूर्वमविद्यासाचिव्यादसहायत्वमसिद्धमित्युक्तम् , इदानीमङ्गीकृत्यापि तदनैकान्तिकत्वमाह –
एकस्मादपीति ।
शरे उत्पन्नं हि कर्म पूर्वाकाशप्रदेशविभागमुत्तरप्रदेशसंयोगं शरे च वेगाख्यसंस्कारं जनयतीत्यनैकान्तिकम् । असहायत्वं नानाकार्यानुत्पादमित्यर्थः॥२४॥
असहायस्योपादानत्वं क्षीरवदुपपाद्यासहायस्याधिष्ठातृत्वसमर्थकं सूत्रमवतारयति –
यदि त्विति॥२५॥