भामतीव्याख्या
वेदान्तकल्पतरुः
 

विचित्रशक्तित्वमुक्तं ब्रह्मण, तत्र श्रुत्युपन्यासपरं सूत्रम्

सर्वोपेता च तद्दर्शनात् ॥ ३० ॥

एतदाक्षेपसमाधानपरं सूत्रम्

विकरणत्वान्नेति चेत्तदुक्तम् ।

कुलालादिभ्यस्तावद्बाह्यकरणापेक्षेभ्यो देवादीनां बाह्यानपेक्षाणामान्तरकरणापेक्षसृष्ठीनां प्रमाणेन दृष्टो यथा विशेषो नापह्नोतुं शक्यः, यथा तु जाग्रत्सृष्टेर्बाह्यकरणापेक्षायास्तदनपेक्षान्तरकरणमात्रसाध्या दृष्टा स्वप्ने रथादिसृष्टिरशक्यापह्नोतुम् , एवं सर्वशक्तेः परस्या देवताया आन्तरकरणानपेक्षाया जगत्सर्जनं श्रूयमाणं न सामान्यतो दृष्टमात्रेणापह्नवमर्हतीति ॥ ३१ ॥

सर्वोपेता च तद्दर्शनात्॥३०॥ मायाशक्तिमद्ब्रह्मणः जगत्सर्वं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधसंदेहे संगतिमाह –

विचित्रेति ।

अन्तर्याम्यधिकरणे (ब्र.अ.१.पा.३.सू.१८) त्वविद्योपार्जितत्वसम्बन्धे जगद्ब्रह्मणोः सिद्धे शरीररहितस्यापि नियन्तृत्वसम्भव उक्तः , इह त्वशरीरस्याविद्यैवाक्षिप्यत इति भेदः॥३०॥

तदुक्तमित्येतद्देवादिवदपीति (ब्र.अ.२.पा.१.सू.२८) सूत्रोक्तिपरत्वेन व्याचष्टे –

कुलालादिभ्य इति ।

आत्मनि चैव (ब्र.अ.२.पा.१.सू.२५) मिति सूत्रोक्तिपरत्वेनापि व्याचष्टे –

यथा त्विति ।

शक्तिमन्तो देवादयो यद्यपि शरीरिणः , तथापि बाह्यसाधनानपेक्षाः । यदि तु तत्र दृष्टं शरीरित्वं शक्तिमत्त्वेन ब्रह्मण्यापाद्यते , तर्हि कर्तृत्वेन कुलालादिषु दृष्टं बाह्यसाधनापेक्षत्वं देवादिष्वप्यापाद्येतेति प्रतिबन्ध्या प्रमेयसंभावनोक्ता । श्रूयमाणम् इति प्रमाणमुक्तम्॥३१॥

इति दशमं सर्वोपेताधिकरणम्॥