वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ।
अतिरोहितोऽत्र पूर्वः पक्षः । उत्तरस्तूच्यते उच्चावचमध्यमसुखदुःखभेदवत्प्राणभृत्प्रपञ्चं च सुखदुःखकारणं सुधाविषादि चानेकविधं विरचयतः प्राणभृद्भेदोपात्तपापपुण्यकर्माशयसहायस्यात्रभवतः परमेश्वरस्य न च वैषम्यनैर्घृण्ये प्रसज्येते । नहि सभ्यः सभायां नियुक्तो युक्तवादिनं युक्तवाद्यसीति चायुक्तवादिनमयुक्तवाद्यसीति ब्रुवाण, सभापतिर्वा युक्तवादिनमनुगृह्णन्नयुक्तवादिनं च निगृह्णन्ननुक्तो द्विष्टो वा भवत्यपि तु मध्यस्थ इति वीतरागद्वेष इति चाख्यायते, तद्वदीश्वरः पुण्यकर्माणमनुगृह्णन्नपुण्यकर्माणं च निगृह्णन्मध्यस्थ एव नामध्यस्थः । एवं ह्यसावमध्यस्थः स्याद्यकल्याणकारिणमनुगृह्णीयात्कल्याणकारिणं च निगृह्णीयात् । नत्वेतदस्ति । तस्मान्न वैषम्यदोषः । अत एव न नैर्घृण्यमपि संहरतः समस्तान् प्राणभृतः । स हि प्राणभृत्कर्माशयानां वृत्तिनिरोधसमयः, तमतिलङ्घयन्नयमयुक्तकारी स्यात् । नच कर्मापेक्षायामीश्वरस्य ऐश्वर्यव्याघातः । नहि सेवादिकर्मभेदापेक्षः फलभेदप्रदः प्रभुरप्रभुर्भवति । न च “एष ह्येव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निनिषते”(कौ.उ.३-८) इति श्रुतेरीश्वर एष द्वेषपक्षपाताभ्यां साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा लोकं नयति, तस्माद्वैषम्यदोषप्रसङ्गान्नेश्वरः कारणमिति वाच्यम् । विरोधात् । यस्मात्कर्म कारयित्वेश्वरः प्राणिनः सुखदुःखिनः सृजति इति श्रुतेरवगम्यते, तस्मान्न सृजतीति विरुद्धमभिधीयते । नच वैषम्यमात्रमत्र ब्रूमो न त्वीश्वरकारणत्वं व्यासेधाम इति वक्तव्यम् । किमतो यद्येवम् । तस्मादीश्वरस्य सवासनक्लेशापरामर्शमभिवदन्तीनां भूयसीनां श्रुतीनामनुग्रहायोन्निनीषतेऽधो निनीषत इत्येतदपि तज्जातीयपूर्वकर्माभ्यासवशात्प्राणिन इत्येवं नेयम् । यथाहुः “जन्मजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः ॥' इति । अभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तम् । अनिर्वाच्या तु सृष्टिरिति न प्रस्मर्तव्यमत्रापि । तथा च मायाकारस्येवाङ्गसाकल्यवैकल्यभेदेन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्धृण्यम् , एवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिर्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चिद्दोषः ॥ ३४ ॥
इति स्थिते शङ्कापरिहारपरं सूत्रम्
न कर्माविभागादिति चेन्नानादित्वाद् ।
शङ्कोत्तरे अतिरोहितार्थेन भाष्यग्रन्थेन व्याख्याते ॥ ३५ ॥
अनादित्वादिति सिद्धवदुक्तं, तत्साधनार्थं सूत्रम्
उपपद्यते चाप्युपलभ्यते च ।
अकृते कर्मणि पुण्ये पापे वा तत्फलं भोक्तारमध्यागच्छेत् , तथा च विधिनिषेधशास्त्रमनर्थकं भवेत्प्रवृत्तिनिवृत्त्यभावादिति । मोक्षशास्त्रस्य चोक्तमानर्थक्यम् ।
न चाविद्या केवलेति लयाभिप्रायम् ।
विक्षेपलक्षणाSविद्यासंस्कारस्तु कार्यत्वात्स्वोत्पत्तौ पूर्वं विक्षेपमपेक्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा पुण्यापुण्यप्रवृत्तिहेतुभूतरागद्वेषनिदानं, स च रागादिभिः सहितः स्वकार्यैर्न शरीरं सुखदुःखभोगायतनमन्तरेण सम्भवति । नच रागाद्वैषावन्तरेण कर्म । नच भोगसहितं मोहमन्तरेण रागद्वेषौ । नच पूर्वशरीरमन्तरेण मोहादिरिति पूर्वपूर्वशरीरापेक्षो मोहादिरेवं पूर्वपूर्वमोहाद्यपेक्षं पूर्वपूर्वशरीरमित्यनादितैवात्र भगवती चित्तमनाकुलयति । तदेतदाह
रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यादिति ।
रागद्वेषमोहा रागादयस्त एव हि पुरुषं संसारदुःखमनुभाव्य क्लेशयन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तानि प्रवर्त्तितानि कर्माणि तदपेक्षा लयलक्षणा अविद्या । स्यादेतत् । भविष्यतापि व्यपदेशो दृष्टो यथा “पुरोडाशकपालेन तुषानुपवपति” इति । अत आह
नच धारयिष्यतीत्यत इति ।
तदेवमनादित्वे सिद्धे “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” (छा. उ. ६ । २ । १) इति प्राक्सृष्टेरविभागावधारणं समुदाचरद्रूपरागादिनिषेधपरं न पुनरेतान्प्रसुप्तानप्यपाकरोतीति सर्वमवदातम् ॥ ३६ ॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति॥३४ ॥ यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन समन्वयस्य विरोधसंदेहे पूर्वत्र लीलया स्रष्टृत्वमुक्तम् , इदानीं सैव न सापेक्षस्य सम्भवति ; अनीश्वरत्वप्रसङ्गाद् , निरपेक्षत्वे च रागादिमत्त्वमित्याक्षिप्यते । अनुमानस्य व्यभिचारमाह –
न हि सभ्य इति ।
सापेक्षत्वेऽनीश्वरत्वमाशङ्क्य व्यभिचारमाह –
न हि सेवेति ।
कर्मापेक्षत्वेन वैषम्यं परिहृतं , तर्हि विषमकर्मणि प्रेरकत्वेन वैषम्यतादवस्थ्यमित्याशङ्क्याह –
न चैष इति ।
वैषम्यादिप्रसङ्गान्नेश्वरः कारणमिति न च वाच्यमित्यन्वयः । यदीश्वरोऽपि विषमं सृजेत्तर्हि रागादिमत्तयाऽनीश्वरः स्यादीश्वरश्चायं तस्मान्न विषमं सृजतीति किमनुमीयते उत ईश्वरो रागादिमान् विषमस्रष्टृत्वादिति वैषम्यम् । नाद्यो विरोधादित्युक्तम् ।
तमेवागमविरोधं दर्शयति –
यस्मादिति ।
द्वितीयं निषेधति –
न चेति ।
यद्येवं वैषम्यमनुमितं किमतो निरवद्यत्वस्यापि श्रुतिसिद्धत्वेनातीतकालतातादवस्थ्यादित्यर्थः ।
तदेव दर्शयति –
तस्मादिति ।
श्रुतीनां ग्रावप्लवनादिश्रुतिभ्यो वैषम्यार्थमर्थसंभावनां दर्शयति –
तज्जातीयेति ।
उन्निनीषते ऊर्ध्वं नेतुमिच्छति। ईश्वरः पर्जन्यवत्सृष्टिमात्रे कारणं , वैषम्ये तु बीजवत्तत्तत्प्राणिकर्मवासने इति नेश्वरस्य सावद्यतेत्यर्थः । अपि च मायामयी सृष्टिरस्माकम् । यदि च तथाविधसृष्टिकर्तृत्वेन रागादिमत्त्वमनुमीयते , तर्ह्यनैकान्तिकत्वमित्याह – अभ्युपेत्य चेति॥३४॥३५॥
अकृताभ्यागमप्रसङ्गं व्याकरोति –
अकृते इति ।
तदङ्गीकारे आगतौ दोषावाह –
तथा चेति ।
वेदान्तानर्थक्यं मुक्तानामपीति भाष्योक्तमित्याह –
मोक्षशास्त्रस्येति ।
भाष्ये केवलाया अविद्याया वैषम्यकरत्वनिषेधोऽनुपपन्नः , भ्रान्तेर्विचित्रत्वेन वैषम्यहेतुत्वोपपत्तेरित्याशङ्क्याह –
लयेति ।
ननु - मा भूल्लयलक्षणाविद्या वैषम्यकरी , भ्रमसंस्कारस्तु किं न स्यादिति - चेत् , अस्तु न तु संसारानादितामन्तरेण स्यात् , तथा च सिद्धं नः समीहितमित्याह –
विक्षेपेति ।
विभ्रमसंस्कारस्य भ्रमसापेक्षत्वान्न स्वत एव वैषम्यहेतुत्वं , विभ्रमश्च न केवलो वैषम्यहेतुरपि रागादीन् जनयित्वा तत्सहितः । तथा च विभ्रमो रागादिसहितः शरीराच्छरीरं कर्मणः कर्म रागद्वेषाभ्यां तौ च मोहसंज्ञाद्विभ्रमात् स च शरीरादुदेतीति चक्रकभ्रमणमनादितैव समादधातीत्यर्थः । अवघातनिष्पन्नास्तुषान् पुरोडाशकपालेनोपवपति विगमयतीत्यत्रावघातसमये कपालेषु पुरोडाशश्रपणाभावाद्भविष्यच्छ्रपणमपेक्ष्य कपालानां पुरोडाशसबन्धकीर्तनमिति॥३६॥