भामतीव्याख्या
वेदान्तकल्पतरुः
 

सर्वधर्मोपपत्तेश्च ।

अत्र

सर्वज्ञमिति ।

दृश्यते सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः ।

सर्वशक्तीति ।

सर्वस्य जगत उपादानकारणं निमित्तकारणं चेत्युपपादितम् ।

महामायमिति ।

सर्वानुपपत्तिशङ्का परास्ता । तस्माज्जगत्कारणं ब्रह्मेति सिद्धम् ॥ ३७ ॥

इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरिकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥ १ ॥

सर्वधर्मोपपत्तेश्च॥३७॥ निर्गुणब्रह्मणो जगदुपादानत्ववादिसमन्वयस्य यन्निर्गुणं न तदुपादानं गन्ध इवेति न्यायविरोधसंदेहे भवतु विषमस्रष्टृत्वं पक्षपातेनाव्याप्तमनेकान्तम् । साध्येन तु सगुणत्वे उपादानत्वमिति प्राप्ते विवर्ताधिष्ठानत्वमिहोपादानत्वम् । तच्च निर्गुणेऽप्यविरुद्धम् ; जात्यादावनित्यत्वाद्यारोपोपलब्धेरिति सिद्धान्तः । भाष्यकारेण सौत्रीं सर्वधर्मोपपत्तिं व्याकुर्वता सर्वज्ञत्वादयः कारणधर्मा ब्रह्मण्युपपद्यन्त इत्युक्तम् , तदयुक्तमिव ; न ह्येते लोके कस्यचित्कारणस्य धर्मा दृश्यन्ते , अत आह –

अत्रेति ।

जडप्रेरकत्वं कुलालादौ दृष्ठं , ब्रह्मण्यपि नियन्तरि तेन भाव्यम् । तस्य सर्वप्रेरकत्वस्य श्रुतिसिद्धत्वादर्थात्सर्वज्ञत्वसिद्धिः । एवं सर्वशक्तित्वादौ योज्यम् । सर्वशक्तित्वेनोपादानकारणत्वमुपपादितम् । सर्वज्ञत्वेन निमित्तकारणं चेत्युपपादितमित्यर्थः । महामायाविषयीकृतत्वेन निर्गुणत्वादिप्रयुक्तसर्वानुपपत्तिशङ्काऽपास्तेत्यर्थः॥३७॥

इति त्रयोदशं सर्वधर्मोपपत्त्यधिकरणम्॥