महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ।
यथा महद्द्रव्यं त्र्यणुकादि हृस्वाद्द्व्यणुकाज्जायते, न तु महत्त्वगुणोपजनने द्व्यणुकगतं महत्त्वमपेक्षते, तस्य हृस्वत्वात् । यथा वा तदेव त्र्यणुकादि दीर्धं हृस्वाद् द्व्यणुकाज्जायते, न तु तद्गतं दीर्घत्वमपेक्षते, तदभावात् । वाशब्दश्चार्थेऽनुक्तसमुच्चयार्थः । यथा द्व्यणुकमणु हृस्वपरिमाणं परिमण्डलात्परमाणोरपरिमण्डलं जायत एवं चेतनाद्ब्रह्मणोऽचेतनं जगन्निष्पद्यत इति सूत्रयोजना । भाष्ये
परमाणुगुणविशेषस्त्विति ।
पारिमाण्डल्यग्रहणमुपलक्षणम् । न द्व्यणुकेऽणुत्वमपि पारमाणुवर्ति पारिमाण्डल्यमारभते, तस्य हि द्वित्वसङ्ख्यायोनित्वादित्यपि द्रष्टव्यम् । ह्रस्वपरिमण्डलाभ्यामिति सूत्रं गुणिपरं न गुणपरम् । यदापि द्वे द्वे द्व्यणुके इति पठितव्ये प्रमादादेकं द्वेपदं न पठितम् । एवं चतुरणुकमित्याद्युपपद्यते । इतरथा हि द्व्यणुकमेव तदपि स्यान्न तु महदित्युक्तम् । अथवा द्वे इति द्वित्वे, यथा “द्व्येकयोर्द्विवचनैकवचने”(पा.सू. १-४-२२) इति । अत्र हि द्वित्वैकत्वयोरित्यर्थः । अन्यथा ह्येकेष्विति स्यात्सङ्ख्येयानां बहुत्वात् । तदेवं योजनीयं द्व्यणुकाधिकरणे ये द्वित्वे ते यदा चतुरणुकमारभेते सङ्ख्येयानां चतुर्णां द्व्यणुकानामारम्भकत्वात्तत्तद्गते द्वित्वसङ्ख्ये अपि आरम्भिके इत्यर्थः । एवं व्यवस्थितायां वैशेषिकप्रक्रियायां तद्दूषणस्य व्यभिचार उक्तः । अथाव्यवस्थिता तथापि तदवस्थो व्यभिचार इत्याह
यदापि बहवः परमाणव इति ।
नाणु जायते नो ह्रस्वं जायते इति योजना ।
चोदयति
अथ मन्यसे विरोधिना परिमाणान्तरेण स्वकारणद्वारेणाक्रान्तत्वादिति ।
परिहरति
मैवं मंस्था इति ।
कारणगता गुणा न कार्ये समानजातीयं गुणान्तरमारभन्त इत्येतावतैवेष्टसिद्धौ न तद्धेत्वनुसरणे खेदनीयं मन इत्यर्थः । अपि च सत्परिमाणान्तरमाक्रामति नोत्पत्तेश्च प्राक्परिमाणान्तरं सदिति कथमाक्रामेत् । नच तत्कारणमाक्रामति । पारिमाण्डल्यस्यापि समानजातीयस्य कारणस्याक्रमणहेतोर्भावेन समानबलतयोभयकार्यानुत्पादप्रसङ्गादित्याशयवानाहन
न च परिमाणान्तरात्क्रान्तत्वमिति ।
नच परिमाणान्तरारम्भे व्यापृतता पारिमाण्डल्यादीनाम् । नच कारणबहुत्वादीनां सन्निधानमसंनिधानं च पारिमाण्डल्यस्येत्याह
नच परिमाणान्तरारम्भे इति ।
व्यभिचारान्तरमाह
संयोगाच्चेति ।
शङ्कते
द्रव्ये प्रकृत इति ।
निराकरोति
न । दृष्टान्तेनेति ।
न चास्माकमयमनियमः, भवतामपीत्याह
सूत्रकारोऽपीति ।
सूत्रं व्याचष्टे
यथा प्रत्यक्षाप्रत्यक्षयोरिति ।
शेषमतिरोहितार्थम् ॥ ११ ॥
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥११॥ यद्यप्यस्य स्वपक्षदोषपरिहारस्य स्मृतिपादे एव सङ्गतिः ; तथापि यदि प्रधानगुणानन्वयाज्जगन्न तत्प्रकृतिकं , तर्हि ब्रह्मविशेषगुणानन्वयान्न तदुपादानकम् इत्यवान्तरसङ्गतिलोभादिह लिखितः । तत्त्वज्ञानप्रधानस्यास्य शास्त्रस्य परमतनिरासपरत्वाभावान्निराकृतो निराकर्तव्य इति च भाष्यनिर्देशायोगमाशङ्क्याह –
यथैवेति ।
श्रौतब्रह्मधीसिद्धौ तन्निरास इत्यर्थः । एतेनेत्यत्र कारणं कार्यन्न्यूनपरिमाणमिति नियमो भग्नः , इह कारणविशेषगुणस्य कार्ये गुणारम्भनियमो भज्यत इति सत्यपि भेदे रीतिसाम्यकृतजामित्वपरिहारः ।
प्रपञ्च आरभ्यत इति ।
कारणगुणस्य प्रक्रम उपक्रमो नियतपूर्वसत्त्वं तेन तमसमवायिकारणं कृत्वेत्यर्थः ।
तर्कस्य विपर्ययमनुमानमाह –
तस्मादिति ।
विमतमचेतनोपादानकं कार्यद्रव्यत्वात्संमतवदित्यर्थः । ज्ञानादौ व्यभिचारवारणाय द्रव्यपदम् । मायाशबलब्रह्मोपादानत्वेन सिद्धसाधनत्वं व्यावर्तयितुमेवकारः ।
प्रधानसिद्व्याऽर्थान्तरत्वमाशङ्क्याह –
तच्चेति ।
इत्युक्तमिति ।
एतेन शिष्टापरिग्रहा (ब्र.अ.२.पा.१. सू.१२) इत्यत्र पूर्वपक्षे इत्यर्थः ।
महाप्रलये प्रयत्नाभिघाताद्यभावात् कथमणुषु कर्म ? तत्राह –
अदृष्टवदिति ।
ननु किं द्व्यणुकारम्भव्यवधिनाऽत आह –
बहवस्त्विति ।
असंयुक्तानामारम्भानभ्युपगमात् सिद्धसाधनमाश्क्याह –
संयुक्ता इति ।
सहसेति ।
द्व्यणुकमनारभ्येत्यर्थः । अनेन बाधोऽपोदितः । तन्त्वादिषु व्यभिचारवारणार्थमणुत्वम् इति। द्व्यणुकेषु अनैकान्तिकत्ववारणार्थं परमेति । परमाण्वोः स्वापेक्षया स्थूलद्व्यणुकारम्भकयोरव्यभिचाराय बहुत्वादिति।
साध्यवैलक्यमाशङ्क्याह –
यदि हीति ।
परमाणवः किम् अनारभ्य द्व्यणुकादीनि कुम्भमारभन्त इति उतारभ्य ।
नाद्य इत्याह –
न घटे इति ।
सत्येव घटे बुध्द्या विभज्यमाने कपिलादिखण्डावयविनो नोपलभ्येरन् । तथाच त्रसरेणुवदनुपलब्धरेखोपरेखे घटे संस्थानविशेषानुपपत्तेर्व्यञ्जकाभावाद् घटत्वानुपलब्धिप्रसङ्ग इत्यर्थः ।
न द्वितीय इत्याह –
घटस्यैव त्विति ।
यदि हि परमाणव एव खण्डावयविनम् आरभ्य महावयविन आरभेरन् , तथा सति सर्वएव ते परमाणुषु संभवेयुः । तच्च न ; मूर्तानामवयवावयविभावविरहिणामेकदेशत्वाभावनियमात् । अवयवावयविनौ हि तन्तुपटावेकत्र संयोगिभूभागे भवतो नतु परमाणुषु समवयतामवयविनामस्ति परस्परमवयवावयविभाव इति न समानदेशता । तस्माद्यपि परमाणुभिः स्थूलमारभ्येत घट एव वाऽऽरभ्यः स्यान्न कपालादीनीत्यर्थः ।
यदि न घट एव परमाणुभिरारब्धस्तदा न केवलं विद्यमाने घटे संस्थानानुपलम्भप्रसङ्गः , किंतु नाशादूर्ध्वमपि कपालाद्यनुपलम्भप्रसङ्ग इत्याह –
तथा सतीति ।
न च वाच्यं कुम्भभङ्गसमनन्तरमवस्थितसंयोगसचिवाः परमाणवः कपालकणादीनारभन्ते , सति तु कुम्भे तेन प्रतिबन्धादसन्तोऽपि संयोगा नारभन्त इति ; यतः कपालादीनामेव सहसारम्भे संस्थानानुपलम्भः स्याद् , द्व्यणुकादीन्यारभ्य तदारम्भे मूर्तानां समानदेशत्वायोगो द्व्यणुकादिप्रक्रमेण तदारम्भे कुम्भारम्भोऽपि तथा भवत्विति वृथा शुष्कवर्णनमिति। ननु - द्व्यणुकैरपि यदि बहुभिः कार्यमारभ्यते , तर्हि घटादयोऽप्यारभ्यन्तां , तथा चान्तरालिककार्यानुपलम्भप्रसङ्गः । अथ तैस्त्रसरेणुरेवारभ्यते , तर्हि परमाणुभिरपि स एवारभ्यतां , मुधा द्व्यणुकं विशेषो वाच्यः , उच्यते – किं सर्वत्र परमाणूनामारम्भकत्वमुत क्वचिद् द्व्यणुकादिप्रक्रमोऽपि । नाद्यः ; यतोऽस्ति तावल्लोष्टमूलावयवपरमाणुसंख्यापेक्षया लोष्टावयवमूलपरमाणूनां संख्यापकर्षः । अन्यथा लोष्टतदवयवयोर्गुरुत्वादिसाम्यप्रसङ्गात् । एवं तदपेक्षया तदवयवतदवयवानां मूलावयवपरमाणुसंख्यापकर्षो द्रष्टव्यः । नचायं निरवधिः ; एकत्वात्परन्यूनसंख्यासंभवात् । न च त्रित्वमारम्भकसंख्यावधिः ; ततः परमप्येकत्वद्वित्वभावात् । न चैकत्वमेकस्य संयोगानुपपत्तावसमवायिकारणविधुरस्यानारम्भकत्वात् । तस्मात्सजातीयसंयुक्तपरमाणुगतद्वित्वमारम्भकसंख्यापकर्षावधिरिति सिद्धं द्व्यणुकम् । तथाच न सर्वत्र परमाणुभिस्त्र्यणुकारम्भः । नापि द्वितीयः ; सिद्धं हि परमाणोस्त्र्यणुककारणं द्व्यणुकं प्रति कारणत्वम् । तथाच न तस्य क्वापि त्र्यणुककारणत्वसंभवः ; कारणजातीयस्य कार्यजातीयं प्रति अनारम्भकत्वात् । न ह्यणुजातीयः तन्तुः कार्यं पटजातीयमारभत इति। बहुत्वं प्रति बहूनां परमाणूनां समवायिकारणत्वाद् द्रव्यं प्रतीत्युक्तम् । प्रलयेऽस्मादादीनामपेक्षाबुद्ध्यभावमाशङ्क्येश्वरबुद्धिमित्युक्तम् ।
तदपि हीति ।
परिमाणस्य सजातीयपरिमाणारम्भकत्वनियमादित्यर्थः ।
कारणबहुत्वेति ।
समपरिमाणदृढसंयोगवत्तन्त्वारब्धपटयोर्मध्ये यदन्यतरस्मिन् महत्त्वमुद्रिक्तं तस्य कारणबहुत्वादुत्पत्तिः । समसंख्यदृढसंयोगवत्तन्त्वारब्धयोस्तु कारणमहत्त्वात् समपरिमाणसमसख्यतन्त्वारब्धयोः पुनः कारणप्राचुर्यादित्यर्थः ।
यथा तूलपिण्डानां प्रवयस्तथा द्व्यणुकयोर्नास्तीत्यत्र हेतुमाह –
तदवयवानामिति ।
प्रचयो ह्यारम्भकावयवगत शिथिलसंयोगः समतुलिततूलपिष्टद्वयाभ्याम् आरब्धयोर्महत्तूलपिण्डयोरन्यतरमहत्त्वातिशयकारणम् । न च द्व्यणुकयोरवयवानां परमाणूनां भागेन लग्नत्वं भागेनालग्नत्वमित्येवं रूपः शिथिलसंयोगः ; निरवयवत्वादित्यर्थः ।
यदि द्व्यणुकगत संख्यैव त्र्यणुकगतमहत्त्वकारणं , तर्हि त्र्यणुकादिगता संख्यैव तत्कार्यमहत्त्वहेतुरस्तु इत्याशङ्क्य तत्र महत्त्वादिसंभवादनियम इत्याह –
त्र्यणुकादिभिरिति ।
समानजातीयगुणान्तरमारभन्त इति दूषणव्यभिचाराद्धेतोरदूषणीक्रियते सूत्रकारेणेत्याह - भाष्यकारः - इममभ्युपगमं तदीययैव प्रक्रिययेत्यादिभाष्येणेति शेषः ।
सूत्रमुदाहृत्य व्याचष्टे –
यथेत्यादिना ।
यथाश्रुतसूत्रे परिमण्डलादपि महदारम्भो भाति स चायुक्त इति मत्वा वक्ति –
अनुक्तेति ।
अनुक्तमेव दर्शयति –
यथा द्व्यणुकमिति ।
सूत्रे वतोरधस्ताद् अण्वित्यध्याहर्तव्यम् । तथा च यथाक्रमं ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुवदिति सूचनाय वाशब्द इत्यर्थः । परिमाणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभत इति भाष्ये परमाणुपारिमाण्डल्याद् द्व्यणुके पारिमाण्डल्यारम्भनिषेधात् ।
अर्थाद् द्व्यणुकगताणुत्वस्य पारिमाण्डल्यादारम्भ इति भ्रमः स्यात्तं निरस्यति –
पारिमाण्डल्यग्रहणमिति ।
ननु सूत्रे ह्रस्वपरिमाणस्य महद्दीर्घारम्भकत्वं परिमण्डलपरिमाणस्य ह्रस्वपरिमाणारम्भकत्वं च भाति , तदयुक्तम् ; अनन्तरनिषेधादत आह –
गुणपरमिति ।
परिमाणवद्द्रव्याभ्यां द्रव्यान्तरारम्भ उच्यते , न तु गुणारम्भ इत्यर्थः ।
द्व्यणुक इति सप्तम्येकवचनं कृत्वा वाक्यार्थमाह –
द्व्यणुकाधिकरण इति ।
ननु द्व्यणुकगतद्वित्वयोः कथं चतुरणुकारम्भकत्वम् , संख्याया द्रव्यारम्भकत्वायोगादत आह –
संख्येयानामिति ।
जायतेपदानुषङ्गमाह –
योजनेति ।
पारिमाण्डल्यादारम्भे अपोदिते विरोधिपरिमाणान्तराक्रान्तिरसिद्धेत्याशङ्क्याह –
स्वकारणेति ।
स्वकारणं संख्या । व्याप्तेर्व्यभिचारे उक्ते यत्र व्यभिचारस्तत्रास्त्यनारम्भे कारणमित्येतावदुच्यते उत तत्कारणराहित्येन व्याप्तिर्विशिष्यते ।
नाद्य इत्याह –
कारणगता इति ।
द्वितीयेऽपि किमणुमहत्परिमाणाभ्यां द्व्यणुकत्र्यणुकयोः स्वरूपेण व्याप्तिः पारिमाण्डल्याणुत्वयोरनारम्भे हेतुरुत तत्कारणेन ।
नाद्य इत्याह –
अपि चेति ।
न चरम इत्याह –
न चेति ।
परमाण्वादौ पारिमाण्ड्ल्यादिगुणवति सति तदारब्धद्व्यणुकादावणुमहत्त्वाद्यनुपपत्तिरुक्ता , संप्रति पारिमण्डल्यादेरेव त्वराविशेषादणुत्वाद्यारम्भकत्वं परमाणुद्व्यणुकगतद्वित्वबहुत्वयोर्वा सन्निधानविशेषादणुमहत्त्वाद्यारम्भकत्वमिति आशङ्कानिरासार्थं भाष्यं व्याचष्टे –
न च परिमाणान्तरारम्भ इति ।
न च परिमाणान्तरे व्यापृतता ; पारिमाण्डल्यादीनां व्यापृतत्वे पारिमाण्डल्याद्यारम्भेऽपि व्यापृततयास्तुल्यत्वादित्यर्थः । कारणबहुत्वादीनां सन्निधानं पारिमाण्डल्यादीनाम् असन्निधानमित्येतच्च नास्ति ; कारणैकार्थसमवायस्य तुल्यात्वादित्यर्थः । कारणावस्था द्रव्यमिति घृतद्रवत्वं वक्ष्यमाणमभिप्रेत्य भाष्ये द्रव्यस्य संयोग उदाहृतः । ननु - आरभेत गुणं कार्ये सजातिं समवायिगः । विशेषगुण इत्यस्या व्याप्तेः का नु प्रतिक्रिया ॥ उच्यते – न तावदस्ति विशेषगुण इति । यत्तूदयनेन तत्र लक्षणमभाणि स्वाश्रयव्यवच्छेदोचितावान्तरसामान्यविशेषवन्तो विशेषगुणा इति। नवसु मध्ये यस्मिन्द्रव्ये वर्तन्ते तस्येतराष्टद्रव्येभ्यो व्यावर्तका इत्युक्तं भवति । एवं च नवान्यतममात्रवृत्तिगुणत्वं लक्षणम् । तत्र किं नवान्यतममात्रवृत्तित्वं वा नवसु मध्ये एकैकमात्रवृत्तित्वं नवव्यतिरिक्तव्यतिरिक्तमात्रवृत्तित्वं वा पृथिव्यादिनवलक्षणव्यतिरिक्तव्यतिरिक्तानेकसमानाधिकरणत्वानापादकसामान्यवत्त्वं वा । नाग्निमः ; अव्याप्तेः । न द्वितीयः ; अतिव्याप्तेः । न तृतीयः ; स ह्येवम् । पृथिव्यादीनां यानि नव लक्षणानि तेभ्यो यानि व्यतिरिक्तानि तेभ्यश्च व्यतिरिक्तानि तान्येव नव लक्षणानि तैरनेकैः समानाधिकरणत्वानापादकानि यानि सामान्यानि गन्धत्वादीनि तद्वत्त्वं विशेषगुणत्वम् । तथा च विशेषगुणस्यैकैकपृथिव्यादिनिष्ठत्वसिद्धिरिति। तन्न ; किमिदं नवलक्षणव्यतिरिक्तव्यतिरिक्तत्वम् ? नवत्वविशिष्टव्यतिरिक्तत्वं वा , तदुपलक्षितव्यतिरिक्तव्यतिरिक्तत्वं वा । नाद्यः ; नवत्वविशिष्टव्यतिरिक्तसमुदितातिरिक्तैकैकपृथिव्यादिलक्षणेभ्यो व्यतिरिक्तानि यानि गुणादिलक्षणानि तैरनेकैः समानाधिकरणत्वानापादकपरिमाणत्वसामान्यवतः परिमाणस्यापि विशेष गुणत्वापत्त्यातिव्याप्तेः । न द्वितीयः ; उपलक्षितैकैकातिरिक्तनवत्वविशिष्टपृथिव्यादिलक्षणव्यतिरिक्तानेकगुणादिलक्षणसमानाधिकरणत्वानापादकपरिमाणत्वसामान्यवति परिमाणेऽपि गतत्वेनोक्तदोषतादवस्थात् । गुणत्वावान्तरजातिद्वारैकैकेन्द्रियग्राह्यसजातीया ये रूपादयो यानि च धर्माधर्मभावनासांसिद्धिकद्रवत्वानि तेभ्यो व्यतिरिक्तव्यतिरिक्तत्वं विशेषगुणत्वमिति चेत् , न ; मिलितव्यतिरिक्तैकैकव्यतिरिक्ते एकैकव्यतिरिक्तमिलितव्यतिरिक्ते च संख्यादावतिव्याप्तेः । स्वसमवेतविशेषणविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वं विशेषगुणत्वम् व्योमशिवोक्तमशिवम् ; स्वगतसंख्यात्वादिविशेषितैर्द्रव्यजातीयपृथिव्यादिव्यवच्छेदकैः संख्यादिभिरतिव्याप्तेः , गगनत्वजातिविरहेणैकजातीयकस्वाश्रयाव्यवच्छेदकशब्दाव्याप्तेश्च । स्वाश्रयैकजातिपदेन न वान्यतमविवक्षायाम् उक्तदोषादिति। एवमन्यदपि संभवल्लक्षणं खण्डनीयमिति । किंच कारणैकार्थसमवायाविशेषाद् महत्त्वमिव महत्त्वान्तरमणुत्वमपि कारणगतं कार्येऽणुत्वं किमिति नारभते ? कार्यस्याप्यणुत्वे भोगातिशयासिद्धेः नारभत इति चेत् , तर्हीहापि सर्वत्र जगति चेतनारम्भे शेषशेषिभावाभावाद्भोगो न स्यादतो मायाशबलब्रह्मण उपादानत्वान्मायागतं जाड्यं जगति जाड्यमारभते न ब्रह्मचेतना चेतनाम् । जीवेषु तु ब्रह्मावच्छेदेष्वचेतना वर्स्त्यतीति तुल्यम् । तदुक्तमाचार्यवार्तिककृता - तमःप्रधानःक्षेत्राणां चित्प्रधानश्चिदात्मनाम् । परः कारणतामेति भावनाज्ञानकर्मभिः ॥