नाभाव उपलब्धेः ।
पूर्वाधिकरणसङ्गतिमाह
एवमिति ।
बाह्यार्थवादिभ्यो विज्ञानमात्रवादिनां सुगताभिप्रेततया विशेषमाह
केषाञ्चित्किलेति ।
अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्त्वपरिसमाप्तिरासामन्यतमाभावेऽपि तत्त्वस्याव्यवस्थानात् । तस्मादनेन विज्ञानस्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथाच न विज्ञानस्कन्धमात्रं तत्त्वम् । नह्यस्ति सम्भवो विज्ञानमात्रं चतस्रो विधाश्चेत्यत आह
तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणेति ।
यद्यप्यनुभवान्नान्योऽनुभाव्योऽनुभवितानुभवनं, तथापि बुद्ध्यारूढेन बुद्धिपरिकल्पितेनान्तस्थ एवैष प्रमाणप्रमेयफलव्यवहारः प्रमातृव्यवहारश्चेत्यपि द्रष्टव्यम् । न पारमार्थिक इत्यर्थः । एवं च न सिद्धसाधनम् । न हि ब्रह्मवादिनो नीलाद्याकारां वित्तिमभ्युपगच्छन्ति, किन्त्वनिर्वचनीयं नीलादीति । तथाहि स्वरूपं विज्ञानस्यासत्याकारयुक्तं प्रमेयं प्रमेयप्रकाशनं प्रमाणफलं, तत्प्रकाशनशक्तिः प्रमाणम् । बाह्यवादिनोरपि वैभाषिकसौत्रान्तिकयोः काल्पनिक एव प्रमाणफलव्यवहारोऽभिमत इत्याह
सत्यपि बाह्येऽर्थ इति ।
भिन्नाधिकरणत्वे हि प्रमाणफलयोस्तद्भावो न स्यात् । नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति । तस्मादनयोरैकाधिकरण्यं वक्तव्यम् । कथं च तद्भवति । यदि ज्ञानस्थे एव प्रमाणफले भवतः । न च ज्ञानं स्वलक्षणमनंशमंशाभ्यां वस्तुसद्भ्यां युज्यते । तदेव ज्ञानमज्ञानव्यावृत्तिकल्पितज्ञानत्वांशं फलम् । अशक्तिव्यावृत्तिपरिकल्पितात्मानात्मप्रकाशनशक्त्यंशं प्रमाणम् । प्रमेयं त्वस्य बाह्यमेव । एवं सौत्रान्तिकसमयेऽपि । ज्ञानस्यार्थसारूप्यमनीलाकारव्यावृत्त्या कल्पितनीलाकारत्वं प्रमाणं व्यवस्थापनहेतुत्वात् । अज्ञानव्यावृत्तिकल्पितं च ज्ञानत्वं फलं व्यवस्थाप्यत्वात् । तथा चाहुः “नहि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् । तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्” इति । प्रश्नपूर्वकं बाह्यार्थाभाव उपपत्तीराह
कथं पुनरवगम्यत इति ।
स हि विज्ञानालम्बनत्वाभिमतो बाह्योऽर्थः परमाणुस्तावन्न सम्भवति । एकस्थूलनीलाभासं हि ज्ञानं न परमसूक्ष्मपरमाण्वाभासम् । न चान्याभासमन्यगोचरं भवितुमर्हति । अतिप्रसङ्गेन सर्वगोचरतया सर्वसर्वज्ञत्वप्रसङ्गात् । न च प्रतिभासधर्मः स्थौल्यमिति युक्तम् । विकल्पासहत्वात् । किमयं प्रतिभासस्य ज्ञानस्य धर्म उत प्रतिभासनकालेऽर्थस्य धर्मः । यदि पूर्वः कल्पः, अद्धा, तथासति हि स्वांशालम्बनमेव विज्ञानमभ्युपेतं भवति । एवं च कः प्रतिकूलीभवत्यनुकूलमाचरति । द्वितीय इति चेत् । तथा हि रूपपरिमाणव एव निरन्तरमुत्पन्ना एकविज्ञानोपारोहिणः स्थौल्यम् । न चात्र कस्यचिद्भ्रान्तता । नहि न ते रूपपरमाणवः । नच न निरन्तरमुत्पन्नाः । न चैकविज्ञानानुपारोहिणः । तेन मा भून्नीलत्वादिवत्परमाणुधर्मः, प्रत्येकं परमाणुष्वभावात् । प्रतिभासदशापन्नानां तु तेषां भविष्यति बहुत्वादिवत्सांवृतं स्थौल्यम् । यथाहुः “ग्रहेऽनेकस्य चैकेन किञ्चिद्रूपं हि गृह्यते । सांवृतं प्रतिभासस्थं तदेकात्मन्यसम्भवात् ॥ १ ॥ नच तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः । सांवृतं ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥ २ ॥' इति । तन्न । नैरन्तर्यावभासस्य भ्रान्तत्वात् । गन्धरसस्पर्शपरमाण्वन्तरिता हि ते रूपपरमाणवो न निरन्तराः तस्मादारात्सान्तरेषु वृक्षेष्वेकधनवनप्रत्ययवदेष स्थूलप्रत्ययः परमाणुषु सान्तरेषु भ्रान्त एवेति पश्यामः । तस्मात्कल्पनापोढत्वेऽपि भ्रान्तत्वाद्घटादिप्रत्ययस्य पीतशङ्खादिज्ञानवन्न प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे । तदिदमुक्तम् , न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति । नापि तत्समूहा वा स्तम्भादयोऽवयविनः । तेषामभेदे परमाणुभ्यः परमाणव एव । तत्र चोक्तं दूषणम् । भेदे तु गवाश्वस्येवात्यन्तवैलक्षण्यमिति न तादात्म्यम् । समवायश्च निराकृत इति । एवं भेदाभेदविकल्पेन जातिगुणकर्मादीनपि प्रत्याचक्षीत । तस्माद्यद्यत्प्रतिभासते तस्य सर्वस्य विचारासहत्वात् , अप्रतिभासमानसद्भावे च प्रमाणाभावान्न बाह्यालम्बनाः प्रत्यया इति । अपि च न तावद्विज्ञानमिन्द्रियवन्निलीनमर्थं प्रत्यक्षयितुमर्हति । नहि यथेन्द्रियमर्थविषयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयितुमर्हति । तत्रापि समानत्वादनुयोगस्यानवस्थाप्रसङ्गात् । न चार्थाधारं प्राकट्यलक्षणं फलमाधातुमुत्सहते । अतीतानागतेषु तदसम्भवात् । नह्यस्ति सम्भवोऽप्रत्युत्पन्नो धर्मी धर्माश्चास्य प्रत्युत्पन्ना इति । तस्माज्ज्ञानस्वरूपप्रत्यक्षतैवार्थप्रत्यक्षताभ्युपेया । तच्चानाकारं सदाजानतो भेदाभावात्कथमर्थभेदं व्यवस्थापयेदिति तद्भेदव्यवस्थापनायाकारभेदोऽस्यैषितव्यः । तदुक्तम् “न हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् । तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्” इति । एकश्चायमाकारोऽनुभूयते । स चेद्विज्ञानस्य नार्थसद्भावे किञ्चन प्रमाणमस्तीत्याह
अपिचानुभवमात्रेण साधारणात्मनो ज्ञानस्येति ।
अपि च सहोपलम्भनियमादिति ।
यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः । नियतसहोपलम्भश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः । निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते कदाचिदभ्रापिधानेऽन्यतरस्यैकस्योपलब्धेः । सोऽयमिह भेदव्यापकानियमविरूद्धो नियम उपलभ्यमानस्तद्व्याप्यं भेदं निवर्तयतीति । तदुक्तम् “सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्द्दृश्यतेन्दाविवाद्वये ॥' इति । स्वप्नादिवच्चेदं द्रष्टव्यम् । यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्नमायादिप्रत्ययः, तथा चैष विवादाध्यासितः प्रत्यय इति स्वभावहेतुः । बाह्यानालम्बनता हि प्रत्ययत्वमात्रानुबन्धिनी वृक्षतेव शिंशपात्वमात्रानुबन्धिनीति तन्मात्रानुबन्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं स्वभावहेतुः । अत्रान्तरे सौत्रान्तिकश्चोदयति
कथं पुनरसति बाह्येऽर्थे नीलमिदं पीतमित्यादिप्रत्ययवैचित्र्यमुपपद्यते ।
स हि मेने ये यस्मिन् सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तहेतुसापेक्षाः, यथा विवक्षत्यजिगमिषति मयि वचनगमनप्रतिभासाः प्रत्ययाश्चेतनसन्तानान्तरसापेक्षाः । तथा च विवादाध्यासिताः सत्यप्यालयविज्ञानसन्ताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः । यश्चासावालयविज्ञानसन्तानातिरिक्तः कादाचित्कप्रवृत्तिज्ञानभेदहेतुः स बाह्योऽर्थमिति । वासनापरिपाकप्रत्ययकादाचित्कत्वात्कदाचिदुत्पाद इति चेत् । नन्वेकसन्ततिपतितानामालयविज्ञानानां तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना, तस्याश्च स्वकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसन्तानवर्ती पूर्वक्षणः सन्तानान्तरापेक्षानभ्युपगमात् , तथाच सर्वेऽप्यालयसन्तानपतिताः परिपाकहेतवो भवेयुः । न वा कश्चिदपि, आलयसन्तानपातित्वाविशेषात् । क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् । नन्वेवमेकस्यैव नीलज्ञानोपजनसामर्थ्यं तत्प्रबोधसामर्थ्यं चेति क्षणान्तरस्यैतन्न स्यात् । सत्त्वे वा कथं क्षणभेदात्सामर्थ्यभेद इत्यालयसन्तानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः । स्वसन्तानमात्राधीनत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः । नच ज्ञानसन्तानान्तरनिबन्धनत्वं सर्वेषामिष्यते प्रवृत्तिविज्ञानानां विज्ञानवादिभिरपि तु कस्यचिदेव विच्छिन्नगमनवचनप्रतिभासस्य प्रवृत्तिविज्ञानस्य । अपि च सत्त्वान्तरसन्ताननिमित्तत्वे तस्यापि सदा संनिधानान्न कादाचित्कत्वं स्यात् । न हि सत्त्वान्तरसन्तानस्य देशतः कालतो वा विप्रकर्षसम्भवः । विज्ञानवादे विज्ञानातिरिक्तदेशानाभ्युपगमादमूर्तत्वाच्च विज्ञानानामदेशात्मकत्वात्संसारस्यादिमत्त्वप्रसङ्गेनापूर्वसत्त्वप्रादुर्भावानभ्युपगमाच्च न कालतोऽपि विप्रकर्षसम्भवः । तस्मादसति बाह्येऽर्थे प्रत्ययवैचित्र्यानुपपत्तेरस्त्यानुमानिको बाह्यार्थ इति सौत्रान्तिकाः प्रतिपेदिरे, तान्निराकरोति
वासनावैचित्र्यादित्याह
विज्ञानवादी । इदमत्राकूतम् स्वसन्तानमात्रप्रभवत्वेऽपि प्रत्ययकादाचित्कत्वोपपत्तौ सन्दिग्धविपक्षव्यावृत्तिकत्वेन हेतुरनैकान्तिकः । तथाहि बाह्यनिमित्तकत्वेऽपि कथं कदाचित्नीलसंवेदनं कदाचित्पीतसंवेदनम् । बाह्यनीलपीतसंनिधानासंनिधानाभ्यामिति चेत् । अथ पीतसंनिधानेऽपि किमिति नीलज्ञानं न भवति, पीतज्ञानं भवति । तत्र तस्य सामर्थ्यादसामर्थ्याच्चेतरस्मिन्निति चेत् । कुतः पुनरयं सामर्थ्यासामर्थ्यभेदः । हेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्वकारणभेदनिबन्धः शक्तिभेदो भविष्यति । सन्तानिनो हि क्षणाः कार्यभेदहेतवस्ते च प्रतिकार्यं भिद्यन्ते च । न च सन्तानो नाम कश्चिदेक उत्पादकः क्षणानां यदभेदात्क्षणा न भिद्येरन् । ननूक्तं न क्षणभेदाभेदाभ्यां शक्तिभेदाभेदौ, भिन्नानामपि क्षणानामेकसामर्थ्योपलब्धेः । अन्यथैक एव क्षणे नीलज्ञानजननसामर्थ्यमिति न भूयो नीलज्ञानानि जायेरन् । तत्समर्थस्यातीतत्वात् , क्षणान्तराणां चासामर्थ्यात् । तस्मात्क्षणभेदेऽपि न सामर्थ्यभेदः, सन्तानभेदे तु सामर्थ्यं भिद्यत इति । तन्न । यदि भिन्नानां सन्तानानां नैकं सामर्थ्यं, हन्त तर्हि नीलसन्तानानामपि मिथो भिन्नानां नैकमस्ति नीलाकाराधानसामर्थ्यमिति संनिधानेऽपि नीलसन्तानान्तरस्य न नीलज्ञानमुपजायेत । तस्मात्सन्तानान्तराणामिव क्षणान्तराणामपि स्वकारणभेदाधीनोपजनानां केषाञ्चिदेव सामर्थ्यभेदः केषाञ्चिन्नेति वक्तव्यम् । तथा चैकालयज्ञानसन्तानपतितेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्रत्ययासादितः । यतो नीलाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् । कस्यचित्तु स तादृशो यतः पीताकारं ज्ञानं न नीलाकारमिति वासनावैचित्र्यादेव स्वप्रत्ययासादिताज्ज्ञानवैचित्र्यसिद्धेर्न तदतिरिक्तार्थसद्भावे किञ्चनास्ति प्रमाणमिति पश्यामः । आलयविज्ञानसन्तानपतितमेवासंविदितं ज्ञानं वासना तद्वैचित्र्यान्नीलाद्यनुभववैचित्र्यं, पूर्वनीलाद्यनुभववैचित्र्याच्च वासनावैचित्र्यमित्यनादितानयोर्विज्ञानवासनयोः । तस्मान्न परस्पराश्रयदोषसम्भवो बीजाङ्कुरसन्तानवदिति । अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यस्यैव ज्ञानवैचित्र्यहेतुता नार्थवैचित्र्यस्येत्याह
अपि चान्वयव्यतिरेकाभ्यामिति ।
एवं प्राप्ते ब्रूमः । नाभाव उपलब्धेरिति ।
न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । स ह्युपलम्भाभावाद्वाध्यवसीयेत, सत्यप्युपलम्भे तस्य बाह्याविषयत्वाद्वा, सत्यपि बाह्यविषयत्वे बाह्यार्थबाधकप्रमाणसद्भावाद्वा । न तावत्सर्वथोपलम्भाभाव इति प्रश्नपूर्वकमाह
कस्मात् । उपलब्धेरिति ।
नहि स्फुटतरे सर्वजनीन उपलम्भे सति तदभावः शक्यो वक्तुमित्यर्थः ।
द्वितीयं पक्षमवलम्बते
ननु नाहमेवं ब्रवीमीति ।
निराकरोति
बाढमेवं ब्रवीषि ।
उपलब्धिग्राहिणा हि साक्षिणोपलब्धिर्गृह्यमाणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रमित्यर्थः । अतश्च इति वक्ष्यमाणोपपत्तिपरामर्शः । तृतीयं पक्षमालम्बते
ननु बाह्यस्यार्थस्यासम्भवादिति ।
निराकरोति
नायं साधुरध्यवसाय इति ।
इदमत्राकूतम् घटपटादयो हि स्थूला भासन्ते न तु परमसूक्ष्माः । तत्रेदं नानादिग्देशव्यापित्वलक्षणं स्थौल्यं यद्यपि ज्ञानाकारत्वेनावरणानावरणलक्षणेन विरुद्धधर्मसंसर्गेण युज्यते ज्ञानोपाधेरनावृतत्वादेव तथापि तद्देशत्वातद्देशत्वकम्पाकम्पत्वरक्तारक्तत्वलक्षणैर्विरुद्धधर्मसंसर्गैरस्य नानात्वं प्रसज्यमानं ज्ञानाकारत्वेऽपि न शक्यं शक्रेणापि वारयितुम् । व्यतिरेकाव्यतिरेकवृत्तिविकल्पौ च परमाणोरंशवत्त्वं चोपपादितानि वैशेषिकपरीक्षायाम् । तस्माद्बाह्यार्थवन्न ज्ञानेऽपि स्थौल्यसम्भवः । न च तावत्परमाण्वाभासमेकज्ञानम् , एकस्य नानात्मत्वानुपपत्तेः । आकाराणां वा ज्ञानतादात्म्यादेकत्वप्रसङ्गात् । न च यावन्त आकारास्तावन्त्येव ज्ञानानि, तावतां ज्ञानानां मिथो वार्तानभिज्ञतया स्थूलानुभवाभावप्रसङ्गात् । न च तत्पृष्ठभावी समस्तज्ञानाकारसङ्कलनात्मक एकः स्थूलविकल्पो विजृम्भत इति साम्प्रतम् । तस्यापि साकारतया स्थौल्यायोगात् । यथाह धर्मकीर्तिः “तस्मान्नार्थे न च ज्ञाने स्थूलाभासस्तदात्मनः । एकत्र प्रतिषिद्धत्वाद्बहुष्वपि न सम्भवः ॥' इति । तस्माद्भवतापि ज्ञानाकारं स्थौल्यं समर्थयमानेनप्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सम्भवासम्भवावास्थेयौ । तथा चेदन्तास्पदमशक्यं ज्ञानाद्भिन्नं बाह्यमपह्नोतुमिति । यच्च ज्ञानस्य प्रत्यर्थं व्यवस्थायै विषयसारूप्यमास्थितं, नैतेन विषयोऽपह्नोतुं शक्यः, असत्यर्थे तत्सारूप्यस्य तद्व्यवस्थायाश्चानुपपत्तेरित्याह
न च ज्ञानस्य विषयसारूप्यादिति ॥
यश्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते । यदि ज्ञानार्थयोः साहित्येनोपलम्भस्ततो विरुद्धो हेतुर्नाभेदं साधयितुमर्हति, साहित्यस्य तद्विरुद्धभेदव्याप्तत्वादभेदे तदनुपपत्तेः । अथैकोपलम्भनियमः । न एकत्वस्यावाचकः सहशब्दः । अपि च किमेकत्वेनोपलम्भ आहो एक उपलम्भो ज्ञानार्थयोः । न तावदेकत्वेनोपलम्भ इत्याह
बहिरुपलब्धेश्च विषयस्य ।
अथैकोपलम्भनियमः, तत्राह
अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोऽरुपायोपेयभावहेतुको नाभेदहेतुक इत्यवगन्तव्यम् ।
यथा हि सर्वं चाक्षुषं प्रभारूपानुविद्धं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते, न चैतावता घटादिरूपं प्रभात्मकं भवति, किन्तु प्रभोपायत्वान्नियमः, एवमिहाप्यात्मसाक्षिकानुभवोपायत्वादर्थस्यैकोपलम्भनियम इति । अपि च यत्रैकविज्ञानगोचरौ घटपटौ तत्रार्थभेदं विज्ञानभेदं चाद्यवस्यन्ति प्रतिपत्तारः । न चैतदैकात्म्येऽवकल्पत इत्याह
अपिच घटज्ञनं पटज्ञानमिति ।
तथार्थाभेदेऽपि विज्ञानभेददर्शनान्न विज्ञानात्मकत्वमर्थस्येत्याह
तथा घटदर्शनं घटस्मरणमिति ।
अपि च स्वरूपमात्रपर्यवसितं ज्ञानं ज्ञानान्तरवार्तानभिज्ञमिति ययोर्भेदस्ते द्वे न गृहीते इति भेदोऽपि तद्गतो न गृहीत इति । एवं क्षणिकशून्यानात्मत्वादयोऽप्यनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्याः । एवं स्वमसाधारणमन्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्व्यावर्तते यतश्च व्यावर्तते तदनेकज्ञानसाध्यम् । एवं सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वानेकज्ञानगम्यम् । एवं वास्यवासकभावोऽनेकज्ञानसाध्यः । एवमविद्योपप्लववशेन यत्सदसद्धर्मत्वं यथा नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः । शक्यं हि शशविषाणममूर्तं वक्तुम् । शक्यं च विज्ञानममूर्तं वक्तुम् । यथोक्तम् “अनादिवासनोद्भूतविकल्पपरिनिष्ठितः । शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ॥”(प्रमाणवार्तिकम् ३-२०४) इति । एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकज्ञानसाध्या । एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिज्ञेति यत्प्रतिपादयति येन प्रतिपादयति यश्च पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तदनेकज्ञानसाध्येत्यसत्येकस्मिन्ननेकार्थज्ञानप्रतिसन्धातरि नोपपद्यते । तत्सर्वं विज्ञानस्य स्वांशालम्बनेऽनुपपन्नमित्याह
अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोरिति ।
अपि च भेदाश्रयः कर्मफलभावो नाभिन्ने ज्ञाने भवितुमर्हति । नो खलु छिदा छिद्यते किन्तु दारु । नापि पाकः पच्यतेऽपि तु तण्डुलाः । तदिहापि न ज्ञानं स्वांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु तदतिरिक्तोऽर्थः, पाच्या इव तण्डुलाः पाकातिरिक्ता इति । भूमिरचनापूर्वकमाह
किञ्चान्यत् । विज्ञानं विज्ञानमित्यभ्युपगच्छेतेति ।
चोदयति
ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्व इति ।
अयमर्थः स्वरूपादतिरिक्तमर्थं चेद्विज्ञानं गृह्णाति ततस्तदप्रत्यक्षं सन्नर्थं प्रत्यक्षयितुमर्हति । न हि चक्षुरिव तन्निलीनमर्थे कञ्चनातिशयमाधत्ते, येनार्थमप्रत्यक्षं सत्प्रत्यक्षयेत् । अपितु तत्प्रत्यक्षतैवार्थप्रत्यक्षता । यथाहुः “अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति” इति । तच्चेत्ज्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमपरोक्षयितुमर्हति । एवं तत्तदित्यनवस्था तस्मादनवस्थाया बिभ्यता वरं स्वात्मनि वृत्तिरास्थिता । अपिच यथा प्रदीपो न दीपान्तरमपेक्षते, एवं ज्ञानमपि न ज्ञानान्तरमपेक्षितुमर्हति समत्वादिति । तदेतत्परिहरति
तदुभयमप्यसत् । विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः ।
अयमर्थः सत्यमप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिध्यति, न तूपलब्धारं प्रति तत्प्रत्यक्षत्वायोपलम्भान्तरं प्रार्थनीयम् , अपितु तस्मिन्निन्द्रियार्थसंनिकर्षादन्तःकरणविकारभेद उत्पन्नमात्र एव प्रमातुरर्थश्चोपलम्भश्च प्रत्यक्षौ भवतः । अर्थो हि निलीनस्वभावः प्रमातारं प्रति स्वप्रत्यक्षत्वायान्तःकरणविकारभेदमनुभवमपेक्षते, अनुभवस्तु जडोऽपि स्वच्छतया चैतन्यबिम्बोद्ग्रहणाय नानुभवान्तरमपेक्षते, येनानवस्था भवेत् । नह्यस्ति सम्भवोऽनुभव उत्पन्नश्च, न च प्रमातुः प्रत्यक्षो भवति, यथा नीलादिः । तस्माद्यथा छेत्ता छिदया छेद्यं वृक्षादि व्याप्नोति, न तु छिदा छिदान्तरेण, नापि छिदैव छेत्री, किन्तु स्वत एव देवदत्तादिः, यथा वा पक्ता पाक्यं पाकेन व्याप्नोति ननु पाकं पाकान्तरेण, नापि पाक एव पक्ता किन्तु स्वत एव देवदेत्तादिः, एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रमां प्रमान्तरेण, नापि प्रमैव प्रमात्री, किन्तु स्वत एव प्रमायाः प्रमाता व्यापकः । न च प्रमातरि कूटस्थनित्यचैतन्ये प्रमापेक्षासम्भवो यतः प्रमातुः प्रमायाः प्रमात्रन्तरापेक्षायामनवस्था भवेत् । तस्मात्सुष्ठूक्तं “विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणः प्रमातुः कूटस्थनित्यचैतन्यस्य ग्रहणाकाङ्क्षानुत्पादात्” इति । यदुक्तं “समत्वादवभास्यावभासकभावानुपपत्तेः” इति । तत्राह
साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः ।
मा भूत्ज्ञानयोः साम्येन ग्राह्यग्राहकभावः । ज्ञातृज्ञानयोस्तु वैषम्यादुपपद्यत एव । ग्राह्यत्वं च ज्ञानस्य न ग्राहकक्रियाजनितफलशालितया यथा बाह्यार्थस्य, फले फलान्तरानुपपत्तेः । यथाहुः “न संविदर्यते फलत्वात्” इति । अपि तु प्रमातारं प्रति स्वतःसिद्धप्रकटतया । ग्राह्योऽप्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि प्रकटा । यथाहुरन्येनास्याः कर्मभावो विद्यते इति । स्यादेतत् यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थौ तथा च साक्षिति नास्ति प्रत्ययसाक्षिणोर्वैषम्यमित्यत आह
स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात् ।
तथाहि - अस्य साक्षिणः सदासन्दिग्धाविपरीतस्य नित्यसाक्षात्कारतानागन्तुकप्रकाशत्वे घटते । तथाहिप्रमाता सन्दिहानोऽप्यसन्दिग्धो विपर्यस्यन्नप्यविपरीतः परोक्षमर्थमुत्प्रेक्षमाणोऽप्यपरोक्षः स्मरन्नप्यनुभविकः प्राणभृन्मात्रस्य । न चैतदन्याधीनसंवेदनत्वे घटते । अनवस्थाप्रसङ्गश्चोक्तः । तस्मात्स्वयंसिद्धतास्यानिच्छताप्यप्रत्याख्येया प्रमाणमा्र्गायत्तत्वादिति । किञ्चोक्तेन क्रमेण ज्ञानस्य स्वयमवगन्तृत्वाभावात्प्रमातुरनभ्युपगमे च प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् । शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् । अवगन्तुश्चेत्कस्यचिदपि न प्रकाशते कृतमवगमेन स्वयम्प्रकाशेनेति । विज्ञानमेवावगन्त्रिति मन्वानः शङ्कते
बाढमेवम् । अनुभवरूपत्वादिति ।
न फलस्य कर्तृत्वं कर्मत्वं वास्तीति प्रदीपवत्कर्त्रन्तरमेषितव्यं, तथा च न सिद्धसाधनमिति परिहरति
न । अन्यस्यावगन्तुरिति ।
ननु साक्षिस्थानेऽस्त्वस्मदभिमतमेव विज्ञानं तथा च नाम्न्येव विप्रतिपत्तिर्नार्थ इति शङ्कते
साक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता अभिप्रेयता स्वयं प्रथते विज्ञानमित्येष एवेति ।
निराकरोति
नेति ।
भवन्ति हि विज्ञानस्योत्पादादयो धर्मा अभ्युपेतास्तथा चास्य फलतया नावगन्तृत्वं, कर्तृफलभावस्यैकत्र विरोधात् । किन्तु प्रदीपादितुल्यतेत्यर्थः ॥ २८ ॥
वैधर्म्याच्च न स्वप्नादिवत् ।
बाधाबाधौ वैधर्म्यम् । स्वप्नप्रत्ययो बाधितो जाग्रत्प्रत्ययश्चाबाधितः । त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयं, तेन हि स्वप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते । जाग्रत्प्रत्ययस्य तु बाध्यत्वे स्वप्नप्रत्ययस्यासौ न बाधको भवेत् । नहि बाध्यमेव बाधकं भवितुमर्हति । तथा च न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात्स्वप्नवदिति । तस्माद्बाधाबाधाभ्यां वैधर्म्यान्न स्वप्नप्रत्ययदृष्टान्तेन जाग्रत्प्रत्ययस्य शक्यं निरालम्बनत्वमध्यवसातुम् ।
निद्राग्लानमिति ।
करणदोषाभिधानम् । मिथ्यात्वाय वैधर्म्यान्तरमाह
अपि च स्मृतिरेवेति ।
संस्कारमात्रजं हि विज्ञानं स्मृतिः । प्रत्युत्पन्नेन्द्रियसम्प्रयोगलिङ्गशब्दसारूप्यान्यथानुपपद्यमानयोग्यप्रमाणानुत्पत्तिलक्षणसामग्रीप्रभवं तु ज्ञानमुपलब्घिः । तदिह निद्राणस्य सामग्र्यन्तरविरहात्संस्कारः परिशिष्यते, तेन संस्कारजत्वात्स्मृतिः, सापि च निद्रादोषाद्विपरीतावर्तमानमपि पित्रादि वर्तमानतया भासयति । तेन स्मृतेरेव तावदुपलब्धेर्विशेषस्तस्याश्च स्मृतेर्वैपरीत्यमिति । अतो महदन्तरमित्यर्थः । अपि च स्वतःप्रामाण्ये सिद्धे जाग्रत्प्रत्ययानां यथार्थत्वमनुभवसिद्धं नानुमानेनान्यथयितुं शक्यम् , अनुभवविरोधेन तदनुत्पादात् । अबाधितविषयताप्यनुमानोत्पादसामग्रीग्राह्यतया प्रमाणम् । न च कारणाभावे कार्यमुत्पत्तुमर्हतीत्याशयवानाह
अपि चानुभवविरोधप्रसङ्गादिति ॥ २९ ॥
न भावोऽनुपलब्धेः ।
यथालोकदर्शनं चान्वयव्यतिरेकावनुश्रियमाणावर्थ एवोपलब्धेर्भवतो नार्थानपेक्षायां वासनायाम् । वासनाया अप्यर्थोपलब्ध्यधीनत्वदर्शनादित्यर्थः । अपि चाश्रयाभावादपि न लौकिकी वासनोपपद्यते । न च क्षणिकमालयविज्ञानं वासनाधारो भवितुमर्हति । द्वयोर्युगपदुत्पद्यमानयोः सव्यदक्षिणशृङ्गवदाधाराधेयभावाभावात् । प्रागुत्पन्नस्य चाधेयोत्पादसमयेऽसतः क्षणिकत्वव्याघात इत्याशयवानाह
अपि च वासना नामेति ।
शेषमतिरोहितार्थम् ॥ ३० ॥
क्षणिकत्वाच्च ।
स्यादेतत् । यदि साकारं विज्ञानं सम्भवति बाह्यश्चार्थः स्थूलसूक्ष्मविकल्पेनासम्भवी हन्तैवमर्थज्ञाने सत्त्वेन तावद्विचारं न सहेते । नाप्यसत्त्वेन, असतो भासनायोगात् । नोभयत्वेन, विरोधात्सदसतोरेकत्रानुपपत्तेः । नाप्यनुभयत्वेन, एकनिषेधस्येतरविधाननान्तरीयकत्वात् । तस्माद्विचारासहत्वमेवास्तु तत्त्वं वस्तूनाम् । यथाहुः “इदं वस्तु बलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥' इति ॥ न क्वचिदपि पक्षे व्यवतिष्ठन्त इत्यर्थः । तदेतन्निराचिकीर्षुराह
शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ।
लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते । यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथाच भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आह
नह्येयं सर्वप्रमाणप्रसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम् ।
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्त्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तन्ते । बाधकं चातात्त्विकत्वमेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् । यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचरविपरीततत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेषां प्रमाणानां बाधकेन दर्शनीयं न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितुम् । विचारासहत्वं वस्तूनां तत्त्वं व्यवस्थापयद्बाधकमतात्त्विकत्वं प्रमाणानां दर्शयतीति चेत् , किं पुनरिदं विचारासहत्वं वस्तु यत्तत्त्वमभिमतं, किं तद्वस्तु परमार्थतः सदादीनामन्यतमत्केवलं विचारं न सहते, अथ विचारासहत्वेन निस्तत्त्वमेव । तत्र परमार्थतः सदादीनामन्यतमद्विचारं न सहत इति विप्रतिषिद्धम् । न सहते चेन्न सदादीनामन्यतमत् । अन्यतमच्चेत्कथं न विचारं सहते । अथ निस्तत्त्वं चेत्कथमन्यतमत्तत्त्वमव्यवस्थाप्य शक्यमेवं वक्तुम् । न च निस्तत्त्वतैव तत्त्वं भावानाम् । तथा सति हि तत्त्वाभावः स्यात् । सोऽपि च विचारं न सहत इत्युक्तं भवद्भिः । अपि चारोपितं निषेधनीयम् । आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः । न चेत्किञ्चिदस्ति तत्त्वं कस्य कस्मिन्नारोपः । तस्मान्निष्प्रपञ्चं परमार्थसद्ब्रह्मानिर्वाच्यप्रपञ्चात्मनारोप्यते, तच्च तत्त्वं व्यवस्थाप्यातात्त्विकत्वेन सांव्यवहारिकत्वं प्रमाणानां बाधकेनोपपद्यत इति युक्तमुत्पश्यामः ॥ ३१ ॥
सर्वथानुपपत्तेश्च ।
विभजते
किं बहुना उक्तेन यथायथाग्रन्थतोऽर्थतश्च अयं वैनाशिकसमय इति ।
ग्रन्थतस्तावत्पश्यनातिष्ठनामिद्धपोषधाद्यसाधुपदप्रयोगः । अर्थतश्च नैरात्म्यमभ्युपेत्यालयविज्ञानं समस्तवासनाधारमभ्युपगच्छन्नक्षरमात्मानमभ्युपैति । एवं क्षणिकत्वमभ्युपेत्य “उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता” इति नित्यतामुपैतीत्यादि बहून्नेतव्यमिति ॥ ३२ ॥
नाभाव उपलब्धेः ॥२८॥ रूपादिरहितब्रह्मजगदुपादानत्ववादिसमन्वयस्य विज्ञानं नीलाद्याकारमित्यनुमानविरोधाविरोधसंदेहे पूर्वोक्तसमुदायाप्राप्त्यादिदूषणान्युपजीव्य बाह्यार्थापलापाद्धेतुहेतुमल्लक्षणां सङ्गतिमाहेत्यर्थः । व्याघातेन पूर्वपक्षानुत्थानमाशङ्कते –
अथेति ।
चोद्यप्रारम्भार्थोऽथशब्दः । वस्तुव्यवस्थित्यै प्रमाणाद्यभ्युपगम्य तन्निषेधो व्याघात इत्यर्थः ।
बुद्धिपरिकल्पितेनेति ।
विभागमात्रं ज्ञेयाद्याकाराणां परिकल्पितं ज्ञेयादिरूपत्वं बुद्धेर्वास्तवमेव ।
ननु नीलाद्याकारं विज्ञानम् इत्यनुमाने वेदान्तिनां सिद्धसाधनम् ; ब्रह्मणो विज्ञानात्मकस्य नीलाद्यात्मकत्वाद् , अन्यथा तदद्वैतासिद्धेरत आह –
एवं चेति ।
बौद्धा हि वित्तेर्विज्ञानस्यान्तरं नीलादिरूपमाचक्षते , न वयमित्यर्थः ।
बुद्धौ परिकल्पितं ज्ञेयादिविभागमुपपादयति –
तथा हीति ।
असत्याकारेति ।
आकारस्यासत्यत्वं बाह्यरूपेणासत्येनान्तररूपेण सत्येनाकारेण युक्तमित्यर्थः ।
ननु बाह्यार्थसत्यत्वे प्रमाणादयः सत्याः सिध्यन्ति , किं कल्पितत्वेनेत्याशङ्क्य तन्मते प्रमेयविभागः सत्य उपलभ्येतापि , प्रमाणफलविभागस्तावन्मिथ्या , तथा चार्थात्प्रमेयमिथ्यात्वमापत्स्यत इत्यभिप्रेत्याह –
बाह्यवादिनोरपीति ।
वैभाषिकमते प्रमाणफलविभागस्य कल्पितत्वमुपपादयति –
भिन्नाधिकरणत्वे हीति ।
प्रमाणं हि करणं प्रमितिः फलं तयोर्भिन्नाधिकरणत्वे करणफलभावो न स्यात् ।
करणफलभाव एकाधिकरणयोरेवेत्यत्र दृष्टान्तमाह –
न हीति ।
यद्यपि परशुः स्वावयवेषु समवेतो द्वैधीभावस्तु स्वदिरे ; तथापि व्यापाराविष्टकरणीभूतः परशुः संयोगेन खदिराधिकरण इति करणफलयोरैकाधिकरण्यम् ।
भवतु प्रमाणफलयोरेकाधिकरणता , तावता कथं तद्विभागस्य कल्पितत्वसिद्धिरत आह –
कथं चेति ।
यदि ज्ञानस्थे एव प्रमाणफले भवतः , तर्ह्येव तदैकाधिकरण्यं भवति ; इतरथा कथं भवतीत्यर्थः ।
ननु भवेतां ज्ञानस्थे एव प्रमाणफलेऽतो वा किं जातमत आह –
न च ज्ञानं स्वलक्षणमिति ।
न तावत् कुण्डे बदरवज्ज्ञाने प्रमाणफलयोरवस्थानसंभवः ; ज्ञानस्यासंयोगित्वात् , तादात्म्येन तु स्यादवस्थानं , न च वस्तुतो भिन्नाभ्यामेकस्यैक्योपपत्तिस्ततः काल्पनिकप्रमाणफलभेद इत्यर्थः ।
तमेव दर्शयति –
तदेवेति ।
अज्ञानव्यावृत्त्यात्मकापोहरूपेण कल्पितो ज्ञानत्वसामान्यरूपोंऽशो यस्य तत्तथोक्तम् । अशक्तिव्यावृत्तिरूपेण कल्पिता विज्ञानस्यात्मानं स्वमनात्मानमर्थं प्रति च या प्रकाशनशक्तिः सोंशो यस्य तद्विज्ञानं तथा । तच्च प्रमाणमित्यर्थः । वैभाषिकस्य बाह्योऽर्थः प्रत्यक्षः सौत्रान्तिकस्य ज्ञानगताकारवैचित्र्येणानुमेयः ।
तन्मतेऽपि प्रमाणफलविभागस्य कल्पितत्वमाह –
एवमिति ।
ज्ञानगतं बाह्यनीलसारूप्यं भासमानमनीलाकारापोहरूपेण कल्पितं , तच्च बाह्यमर्थं व्यवस्थापयति , प्रतिबिम्बमिव बिम्बम् , अतः प्रमाणम् । ज्ञानात्सकाशाद्यदन्यत्तद्व्यावृत्तिरूपेण कल्पितं ज्ञानत्वं सामान्यं फलं , तद्धि सारूप्यबलान्नीलज्ञानत्वेन व्यवस्थाप्यते ।
अस्मिन्नपि मते प्रमेयं परमार्थभिन्नमिति सारूप्यस्य ज्ञानज्ञेयभावव्यवस्थापकत्वे सौत्रान्तिकवचनमाह –
तथा चेति ।
वित्तिसत्तैव तद्वेदना । तस्यार्थस्य वेदना न युक्ता । कुतः ? तस्या वित्तिसत्तयाः सर्वत्रार्थे विशेषाभावात् । ज्ञानमात्रं हि सर्वज्ञेयसाधारणम् । तस्मात्तां तु वित्तिं सारूप्यमाविशद् घटयेत् ।
किं घटयेदित्यत आह –
सरूपयत्तदिति ।
तद्बाह्यं वस्तु सरूपयत् स्वेन रूपेण सरूपां वित्तिं कुर्वद् घटयेद् वित्त्या सह विषयभावेन योजयेदित्यर्थः । सरूपयन्तमिति पाठे अर्थमिति शेषः ।
एवं संभाविते पूर्वपक्षे साधकप्रमाणानि कथयतीत्याह –
प्रश्नपूर्वकमिति ।
स्तम्भाद्यर्थः किं परमाणुस्तत्कृतोऽवयवीवा । प्रथमे किं परमाणुमात्रस्तद्गोचरप्रतीतिविशेषकृतो वा ।
तत्र परमाणुमात्रत्वं निषेधति –
स हीति ।
भासमानादन्यगोचरत्वमात्रमतिप्रसङ्गः ।
आद्यद्वितीयं द्वेधा विकल्प्य दूषयति –
न चेति ।
प्रतिभासनकाले तदुपाधिं कृत्वा अर्थस्य धर्म इत्यर्थः । स्वांशः स्वाकारः ।
ग्रहेऽनेकस्येति ।
अनेकस्य परमाणोरेकेन ज्ञानेन ग्रहणे किंचित् स्थूलं रूपं गृह्यते तच्च सांवृतम् ।
सांवृतत्वस्य विवरणं –
प्रतिभासस्थमिति ।
विशकलितपरमाणुतत्त्वाच्छादकत्वात्संवृत्तिर्बुद्धिः ।
स्वाभाविकत्वभावे हेतुमाह –
एकात्मनीति ।
एकपरमाण्वात्मनि औपाधिकविषयत्वे स्थूलबुद्धेर्भ्रान्तित्वमाशङ्क्य द्वितीयश्लोकेन परिह्रियते –
न चेति ।
तस्य स्थूलस्य दर्शनं न च भ्रान्तम् ; यतः कारणान्नानावस्तूनां परमाणूनां ग्रहणात् सकाशात् सांवृतस्य स्थूलस्य ग्रहणमन्यत्र भवति। य एव हि भिन्नधीगृहीतास्त एव निरन्तराः परमाणव एकधिया गृह्यमाणाः स्थूलमिति निर्भासन्ते । ते च वस्त्वेव वस्तुग्रहश्च न भ्रम इत्यर्थः ।
एवं स्थूलनीलावभासस्य सालम्बनत्वं बाह्यार्थवादिना समर्थितं विज्ञानवादी दूषयति –
तन्नेति ।
यदि निरन्तरा नीलपरमाणव एकधीगोचरा नीलं , तर्हि नैरन्तर्यमसिद्धम् । नीलपदार्थे च रसगन्धस्पर्शपरमाणूनामपि सत्त्वेन रूपपरमाणूनां नैरन्तर्याभावादित्यर्थः । आरात् दूरात् । घनं निबिडं तदेव वनम् ।
ननु स्थूलप्रत्ययस्य न भ्रान्तित्वं युक्तम् ; स्वलक्षणविषयत्वेन निर्विकल्पकत्वात् , सविकल्पकं ह्यवस्तुभूतसामान्यविषयत्वाद् भ्रान्तमित्याशङ्क्याह –
तस्मादिति ।
कल्पना अभिलापः । तदपोढं तद्रहितम् । यद्यपि स्थूलं व्यक्तिज्ञानं व्यक्तौ संबन्धग्रहस्याभावेन शब्दवाच्यत्वाभावात् तथापि भ्रान्तत्वान्नास्य प्रत्यक्षता कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणकरणादित्यर्थः ।
आद्यकल्पयोर्द्वितीयं निराकरोति –
नापि तत्समूहा इति ।
परमाणुभ्यः स्तम्भादीनां भेदे संबन्धोऽस्ति न वा । यदि न , कथं तर्ह्युपादानोपादेयभावः ? अस्ति चेत्तर्हि संबन्धस्तादात्म्यं समवायो वा । नाद्यो व्याघातात् । न द्वितीयो वैशेषिकाधिकरणे (ब्र.अ.२.पा.२.सू.१२) हि भिन्नयोः समवायो निरस्त इत्यर्थः ।
भाष्यकारेण ज्ञाने भासमानस्तम्भाद्याकारवैचित्र्यान्यथानुपपत्त्या स्तम्भादेर्ज्ञानाकारत्वमुक्तम् , तदयुक्तम् ; भिन्नस्यैवार्थस्य ज्ञानेन प्रकाशनसंभवादित्याशङ्क्य भेदाभ्युपगमे अर्थस्यापरोक्षता न स्यादित्याह –
न तावदित्यादिना ।
मा भूज्ज्ञानम् अर्थविषयज्ञानान्तरस्य जनकं , मा च विषयाश्रितं प्राकठ्यमनेनाजनि , तथापि स्वभावसंबन्धादर्थविषयव्यवहारं जनयेदित्याशङ्क्याह –
तच्चेति ।
ज्ञानमात्राकारस्य सर्वज्ञेयसाधारण्यान्नीलाकारवज्ज्ञानं नीलव्यवहारहेतुरित्यर्थः ।
विज्ञानवादी सौत्रान्तिकस्यापि संमतमिति वदंस्तदुक्तिमाह –
तदुक्तमिति ।
ननु न सौत्रान्तिकेन ज्ञानस्यैव नीलमाकार इत्युच्यते , किं तु बाह्यनीलसदृशो ज्ञानस्य नीलाकारोऽस्तीति तत्कथमर्थस्य ज्ञानाकारत्वसंमतिरत आह –
एकश्चेति ।
स्वीकृते ज्ञाननिष्ठनीलाकारे तेनैव व्यवहारोपपत्तेर्न बाह्यसिद्धिरित्यर्थः ।
एवं प्रत्यक्षेण ज्ञानाभेदमर्थस्य समर्थ्यानुमानादपि समर्थयते –
यद्येन सहेत्यादिना ।
विज्ञानवादिना यो ज्ञानार्थयोर्भेदो निषिध्यते , तद्व्यापकस्य सहोपलम्भनियमाभावस्य विरुद्धो यः सहोपलम्भनियमस्तदुपलब्धिस्ततश्च व्यापकाभावे व्याप्यभेदाभाव इति।
व्यापकविरुद्धोपलब्धिं प्रपञ्चयति –
निषेध्यो हीति ।
अश्विनौ नक्षत्रे । यो यन्मात्रानुबन्धी यदात्मा च स तत्र स्वभावहेतुः । उक्तं हि - ‘ तद्भावमात्रान्वयिनि स्वभावो हेतुरात्मनी’ति।
तद्भावं प्रकृते दर्शयति –
बाह्यानालम्बनता हीति ।
प्रत्ययत्वमात्रानुबन्धिनीति ।
तदात्मेत्यपि द्रष्टव्यम् । निरालम्बनत्वस्याभावस्य प्रत्ययरूपभावात्मकत्वात् । उक्तं हि न ह्यन्यासंसर्गिणो भावादन्योऽभाव इति। एवं तावत्प्रत्यये नीलाकारः स्वीकृतश्चेत्तेनैव व्यवहारसिद्धेर्बाह्यार्थवैयर्थ्यमुक्तम् ।
तत्र प्रत्ययगतार्थाकारभानमेव बाह्यार्थं कल्पयतीति प्रत्ययतिष्ठते इत्याह –
सौत्रान्तिक इति ।
बाह्यार्थसद्भावेऽनुमानमाह –
ये यस्मिन्निति ।
सौत्रान्तिकः त्वात्मसन्तानमेव दृष्टान्तयति –
यथेति ।
अविवक्षति विवक्षामकुर्वति। अजिगमिषति गन्तुमनिच्छति ।
मयि विवक्षुजिगमिषुपुरुषान्तरसन्तानाश्रितगमनवचनविषयप्रतिभासा यथा मयि सति कादाचित्का मद्व्यतिरिक्तपुरुषान्तरसन्तानमपेक्षन्ते , तथा दार्ष्टान्तिकेऽपीत्याह –
तथाचेति ।
अहमित्युदीयमानालयविज्ञानेन जन्यमानास्तदतिरिक्तजन्यत्वाजन्यत्वाभ्यां विवादाध्यासिताः शब्दस्पर्शरूपरसगन्धसुखादिविषयाः षडप्यर्थविषयप्रवृत्तिहेतुत्वात् प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञानसन्ताने कदाचिद्भवन्तस्तदतिरिक्तहेतुका इत्यर्थः ।
अर्थान्तरमाशङ्क्याह –
यश्चेति ।
अन्यस्यासंभवादित्यर्थः ।
असंभवोऽसिद्ध इति शङ्कते –
वासनेति ।
शङ्काग्रन्थोक्तमर्थं व्याख्यानपूर्वकं दूषयति –
नन्विति ।
तत्प्रवृत्तीति ।
तस्यां सन्ततौ प्रवृत्तिविज्ञानानि नीलादिविषयाणि तज्जननशक्तिर्वासनेत्यर्थः । तत्प्रत्येति प्रत्यागच्छति उत्पद्यतेऽनेन परिपाक इति प्रवृत्तिविज्ञानजनकालयविज्ञानात् पूर्वं आलयविज्ञानसन्ताने यदाकदाचिदुत्पन्नो नीलादिप्रत्ययः प्रत्यय इत्युक्तः ।
ननु किमिति स्वसन्ततिपतितपूर्वक्षण एवोत्तरक्षणवर्तिपरिपाककारणमाश्रीयते –सर्वज्ञानादिसन्तानवर्ती क्षणः किं न कारणं स्यादत आह–
संतानान्तरेति ।
अत्र च हेतुं वक्ष्यति – न च ज्ञानसंतानान्तरनिबन्धनत्वं सर्वेषामिति ग्रन्थेन ।
एवं शङ्काभिप्रायं विशदीकृत्य दूषयति –
तथाचेति ।
प्रवृत्तिविज्ञानजनकालयविज्ञानवर्तिवासनापरिपाकं प्रति सर्वेऽप्यालयविज्ञानसंतानवर्तिनः क्षणा हेतव इति वक्तव्यम् ।
न चेदेकोऽपि हेतुर्न स्यादिति बाधकमाह –
न वा कश्चिदिति ।
सर्वेषां हेतुत्वे च दूषणं वक्ष्यते ।
इदानीमेकस्यैव हेतुत्वमिति पक्षं सौत्रान्तिकं प्रति विज्ञानवादी शङ्कते –
क्षणभेदादिति ।
आलयविज्ञानसंतानवर्तिक्षणानां भेदादस्ति प्रतिक्षणं शक्तिभेदस्तस्य च शक्तिभेदस्य कादाचित्कत्वात् शक्तैकक्षणानन्तरं कार्यस्यालयविज्ञानक्षणवर्तिवासनापरिपाकस्य तज्जन्यप्रवृत्तिविज्ञानस्य च कादाचित्कत्वं सिध्यतीत्यर्थः ।
दूषयति सौत्रान्तिकः –
नन्वेवमिति ।
एकस्यालयविज्ञानस्य प्रवृत्तिविज्ञानाख्यनीलज्ञानोपजनसामर्थ्यं स्यात्ततः प्राक्तनस्यालयविज्ञानवर्तिनीलादिविज्ञानक्षणस्य चैकस्यैव तत्प्रबोधसामर्थ्यमुत्तरक्षणगतवासनापरिपाकाख्यप्रबोधसामर्थ्यं स्यादिति द्वे एव ज्ञाने एकस्यामालयसंततौ कारणे स्यातां नेतराणीत्यर्थः ।
यदीतरेषामपि पूर्वज्ञानानां परिपाकहेतुत्वमुत्तरोत्तरेषां च प्रवृत्तिविज्ञानजननसामर्थ्यमिष्यते तत्राह –
सत्त्वे वेति ।
भवन्तु सर्वे क्षणाः समर्थास्तत्राह समर्थहेतुसद्भावे इति। यदवादिष्म सर्वेषां हेतुत्वे दूषणं वक्ष्यतीति तदनेन ग्रन्थेन क्रियते । यद्यनादिसंततौ पतिता आलयज्ञानक्षणाः सर्व एव नीलज्ञानजननसमर्थाः , तर्हीदं नीलज्ञानं सदा स्यान्न तु कदाचिदित्येव निषेध्यं यत्कादाचित्कत्वं तस्य विरुद्धं सदातनत्वं तस्यापत्तिद्वारेण उपलब्ध्या कादाचित्कत्वं नीलज्ञानस्य निवर्तेत , नतु निवर्तितुमर्हति ; दर्शनादेव । तत आलयविज्ञानाद्यद्धेत्वन्तरं बाह्योऽर्थस्तदपेक्षत्वे व्यवतिष्ठते ।
ततः किं जातमत आह –
इति प्रतिबन्धसिद्धिरिति ।
ये यस्मिन्सत्यपि कादाचित्कास्ते तदतिरिक्तापेक्षाः इति प्राक् सौत्रान्तिकोक्तव्यापकयोः प्रतिबन्धसिद्धिर्व्याप्तिसिद्धिरित्यर्थः ।
ननु नीलविज्ञानमपेक्षतां हेत्वन्तरं , तदेव हेत्वन्तरमालयविज्ञानसंतानान्तरमस्तु , कुतो बाह्यार्थसिद्धिरित्यर्थान्तरतामनुमानस्याशङ्क्याह –
नचेति ।
चैत्रसंताने विच्छिन्नौ गमनवचनप्रतिभासौ यस्य तत्काले उदयतो मैत्रसंतानस्थगमनवचनविषयविज्ञानस्य तत्तथोक्तम् । तस्यैव विज्ञानवादिभिः संतानान्तरनिमित्तत्वमिष्यते , नतु विवक्षति जिगमिषति च चैत्रे यद्गमनवचनप्रतिभानं तस्यापि । तस्य तु चैत्रसंतानमात्रहेतुकत्वं , तच्च निरस्तमिति बाह्यार्थपेक्षा वाच्येत्यर्थः ।
यदि तु तथाविधस्यापि प्रवृत्तिविज्ञानस्यालयविज्ञानसंतानान्तरनिबन्धनत्वमिष्यते , तत्राह –
अपि चेति ।
सत्त्वान्तरं प्राण्यन्तरम् । विज्ञानानां समवायी देशोऽभ्युपेयते , संयोगी वा यद्भेदाद्विप्रकर्षः ।
नाद्य इत्याह –
विज्ञानातिरिक्तेति ।
वैशेषिकादिवत् त्वया ज्ञानसमवाय्यात्मानभ्युपगमादिति भावः ।
न द्वितीय इत्याह –
अमूर्तत्वाच्चेति ।
नास्ति संयोगदेश आधारो येषां तानि तथा तदात्मकत्वादित्यर्थः ।
संतानानां कालतोऽपि न व्यवधानमित्याह –
संसारस्येति ।
एवं हि संतानान्तरस्य कालविप्रकर्षः स्याद्यदि संप्रतितनस्य चैत्रसंतानसंजातनीलज्ञानस्य समनन्तरपूर्वक्षणे मैत्रसंतानं उत्पद्येत । इतरथा तस्याप्यनादित्वे कालविप्रकर्षाभावात्तथा च संसारः सादिः स्यादित्यर्थः । यस्मात्सन्तानान्तरनिमित्तत्वेऽपि तस्य सदा सन्निधानात् प्रवृत्तिविज्ञानस्य कादाचित्कत्वमनुपपन्नं , तस्मादित्युपसंहरति। प्रवृत्तिप्रत्यय आलयविज्ञानातिरिक्तहेतुक इति पक्षस्य स्वसंतानमात्रनिमित्तकत्वम् विपक्षस्तस्मात्सन्दिग्धा व्यावृत्तिर्यस्य स हेतुस्तथा तत्त्वेत्यर्थः ।
स्वसन्तानमात्रनिमित्तत्वमुपपादयितुं प्रतिबन्दीमाह –
बाह्यनिमित्तकत्वेऽपीत्यादिना ।
नन्वालयविज्ञानक्षणानां संबन्धिस्वस्वहेतुवैचित्र्यात्सामर्थ्यभेदेऽप्येकसन्ततिपतितत्वाविशेषादेकविधं सामर्थ्यं स्यादित्याशङ्क्याह –
न च संतानो नामेति ।
आलयविज्ञानसन्तानैक्ये क्षणभेदेऽपि न सामर्थ्यभेद इत्युपपाद्य तद्व्यतिरिक्तबाह्यार्थसन्तानभेदे स्याच्छक्तिभेद इत्याह –
संतानभेदे त्विति ।
आलयविज्ञानानां नीलादिबाह्यार्थसन्तानानां च सामर्थ्यं भेदः ।
ततश्चालयविज्ञानसन्तानैरजन्यमपि नीलादिसंवेदनं बाह्यनीलादिसन्तानैर्जन्यत इति चेत्तत्र दूषणमाह –
हन्त तर्हीति ।
बाह्यार्थवादे हि क्षणिकत्वान्नीलार्थानां प्रतिनीलार्थं भिन्नाः सन्ति नीलसन्तानास्तत्र सन्तानभेदाच्छक्तिभेदोपगमे नीलसन्तानानामप्येकविधाशक्तिर्न स्यात् , तथा चैकमेव नीलं नीलाकारज्ञानं जनयेद् , न सन्तानान्तरवर्तीत्यर्थः ।
चोद्यसाम्यमुक्त्वा परिहारसाम्यमाह –
तस्मात्सन्तानान्तराणामित्यादिना ।
तथा नीलपीतादिसन्तानान्तराणां स्वस्वकारणभेदात्सामर्थ्यभेद एवमालयविज्ञानसन्तानपतितक्षणान्तराणामपीत्यर्थः । स्वप्रत्ययः पूर्वोदितनीलादिप्रत्ययः ।
वासनावैचित्र्यादिति भाष्यस्थवासनाशब्दार्थमाह –
आलयविज्ञानेति ।
असंविदितमविज्ञातमर्थात्पूर्वमिति लभ्यते ; वर्तमानस्य संविदितत्वाद् अनागतस्यासिद्धसत्ताकत्वात्तादृशज्ञानं वासना । न ह्यस्मन्मतेऽस्ति स्थायिनी वासनेति भावः । पूर्वं शक्तिर्वासनेत्युक्तम् , इदानीं शक्तिशक्तिमतोरभेदाद्विज्ञानमिति न विरोधः ।
ननु पूर्वज्ञानात्मकवासनावैचित्र्याच्चेदुत्तरज्ञानानां वैचित्र्यं , तर्हि पूर्वज्ञानवैचित्र्यमेव कुतस्तत्राह –
पूर्वनीलादीति ।
अनेनानादौ संसार इति भाष्यं व्याख्यातम् । तत्रभवता भाष्यकारेण प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संभवासंभवाविति वदतैतदिह सूचयांबभूवे । यथा किल ज्ञानाद्भेदेन स्थूलस्यार्थस्यासंभवः परेण भाष्यते , एवमभेदेनापि मया स सुभाष इत्यप्रयोजकोऽसम्भवः । प्रमाणं त्वावाभ्यामादर्तव्यमिति।
तत्रासम्भवं परमते दर्शयति –
इदमत्रेत्यादिना ।
तत्र बौद्धेन ज्ञानाद्भिन्नस्य स्थूलार्थस्यासंभवमुच्यमानमनुवदति –
तत्रेदमिति ।
स्थौल्यं ह्यर्थस्य युगपद्भिन्नदिग्व्यापित्वं भिन्नदेशव्यापित्वं वा । एवं चैकदिग्देशेऽर्थस्यावरणमन्यदिग्देशे चानावरणमिति विरुद्धधर्माध्यासाद्भेदः स्यात् । ज्ञानाभेदे तु न दोषः । ज्ञानावच्छेदकार्थस्य ज्ञायमानस्य तदभिन्नस्यानावृतत्वादावृतस्य च तदात्मत्वाभावेन विरोधाप्रसङ्गादित्यर्थः । ज्ञानाकारत्वे इति सप्तमी । आवरणादिधर्मसंसर्गेण यद्यपि न युज्यत इति योजना ।
इदानीमेतमसंभवमनुमत्य बौद्धमतेऽप्यसंभवमाह –
तथापीति ।
यद्यप्यवभासानवभासलक्षणविरुद्धधर्मसंसर्गोऽर्थस्य ज्ञानाभेदेऽभ्युपगते न प्रसज्येत ; तथाप्येकज्ञानप्रकाशिते पटे नानादेशव्यासक्ते तद्देशत्वमतद्देशत्वं च दृश्यते , प्रदेशभेदेन च कम्पाकम्पौ चित्रे च तस्मिन् रक्तत्वारक्तत्वे च । सति चैवं ज्ञानाकारत्वेऽप्यर्थस्य वर्णितविरुद्धधर्मवत्त्वाद्भेदप्रसङ्गस्तुल्य इत्यर्थः ।
अर्थस्य ज्ञानाभेदे सति अवयविन्यवयवे चोक्तं दोषान्तरमपि ज्ञाने दुर्वारमित्याह –
व्यतिरेकाव्यतिरेकेति ।
ननु किमिति ज्ञानाभिन्नेऽर्थे तद्देशत्वातद्देशत्वादिविरुद्धधर्माध्यासप्रसङ्गः । यावता परमाणूनेव ज्ञानमवलम्बतां , ते च न भिन्नदेशत्वादिमन्त इत्यत आह –
न तावदिति ।
नीलज्ञानं यदि परमाणूनालम्बेत , तर्हि त्वया ज्ञानज्ञेययोरभेदाभ्युपगमाज्ज्ञानस्य किं ज्ञेयमात्रत्वं ज्ञेयानां वा परमाणूनां ज्ञानमात्रत्वम् । नाद्य इत्याह –
एकस्येति ।
ज्ञानस्येत्यर्थः ।
न द्वितीय इत्याह –
आकाराणां चेति ।
ज्ञानाकाराणां परमाणूनामित्यर्थः ।
ननु नैकं ज्ञानं परमाणून् गोचरयति , यत उक्तदोषः स्यात् , किं प्रतिपरमाणु ज्ञानभेद इति , नेत्याह –
न च यावन्त इति ।
तर्ह्येकैकज्ञानगृहीत नानापरमाणुपरामर्शात्मकः प्रत्ययः स्थूलालम्बन इति , तत्राह – न च तत्पृष्ठेति – तस्यापि प्रत्ययस्य साकारतया आकाराणां नानापरमाणूनां तदभेदात्तस्य परमाणुमात्रत्वे भेदः तेषां विज्ञानमात्रत्वे एकत्वमिति स्थूलालम्बनमेकं ज्ञानं न स्यादित्यर्थः ।
तस्मान्नार्थे इति ।
तस्माद्वृत्तिविकल्पादेस्तर्कादर्थे परमाणुसमूहात्मके विषये न स्थूलाभासः , न च ज्ञाने ज्ञानात्मकेऽर्थे । कुतः ? एकत्र ज्ञाने वर्णितेन मार्गेण तदात्मनो नानाकारत्वात्मकत्वस्य प्रतिषिद्धत्वात् बहुष्वपि विज्ञानेषु परमाणुगोचरेषु स्थूलाभासस्य न संभवः ; बहूनां परस्परवार्तानभिज्ञत्वादित्यर्थः । एकोपलम्भमुक्त्वा यानुपलब्धिः स । सहोपलम्भनियम इति न विरुद्धत्वं हेतोश्चेत्तर्हि सहशब्द एकत्वस्यावाचक इत्यवाचकशब्दप्रयोगात्तव निग्रह इत्यर्थः ।
अर्थैकोपलम्भनियमादित्येव हेतुस्तत्राह –
अपिचेति ।
अनुविद्धं विषयत्वेन संबद्धमित्यर्थः । उपलभ्यत इति साक्षात्काराभिप्रायम् । मनुजग्रहणं तिर्यगादिव्यावृत्त्यर्थम् । चाक्षुषवस्तुत आलोकसाक्षात्कारव्यतिरेकेणानुपलब्धावपि तदैक्यादर्शनादनैकान्तिको हेतुरित्यर्थः । ज्ञानभेदसाध्या इत्यादौ सर्वत्रासत्येकस्मिन्ननेकार्थज्ञानप्रतिसंघातरि नोपपद्यत इति वक्ष्यमाणेनान्वयः ।
भाष्ये –वास्यवासकत्वमविद्योपप्लवे हेतुरविद्योपप्लवश्च सदसद्धर्मेषु हेतुरिति व्याचष्टे–
एवमिति ।
अविद्या सविकल्पकप्रत्ययः ।
अनादीति ।
अनादिवासनाजन्यसविकल्पकप्रत्ययात्मकविकल्पपरिनिष्ठितो विषयीकृतो यः शब्दार्थः स त्रिविधो ज्ञेयः ।
त्रैविध्यमेवाह –
भावेति ।
भावं नीलादि नीलत्वादिरभावं नरविषाणं नरविषाणत्वादि । उभयं विज्ञाननरविषाणादिममूर्तत्वादिराश्रयत इति तथोक्तः ।
बन्धमोक्षादिप्रतिज्ञा इति भाष्यगतादिशब्दं व्याचष्टे –
एवं विप्रतिपन्नमिति ।
प्रतिज्ञेत्यत्रेतिशब्दो यस्मादर्थे यदिति प्रतिपादनविषयनिर्देशः असत्येकस्मिन्प्रतिसंधातरि नोपपद्यते , तावल्लोके त्वया च स नेष्ट इत्याह –
तत्सर्वं विज्ञानस्येति ।
कर्मफलभावो ज्ञानज्ञेयभावः अत्यन्तविरुद्धावित्यतः प्राक्तनभाष्येण प्रतिबन्दीरूपा भूमिरचना क्रियते । तया च ज्ञेयार्थस्वरूपं साधितम् । तत आरभ्य एकस्य कर्मक्रियाविरोध उक्तः ।
विज्ञानस्य स्वव्यतिरिक्तार्थविषयत्वे कुतस्तस्यान्येन ग्राह्यत्वापत्तिः ? चक्षुर्वदप्रकाशमानस्याप्यर्थबोधकत्वसंभवादतश्चोद्यानुपपत्तिमाशङ्क्याह –
चोदयतीति ।
अप्रत्यक्षोपलम्भस्येति ।
यद्यप्रत्यक्ष उपलम्भः स्यात्तर्हि चक्षुष इव तस्यार्थदृष्टिरजन्या स्यात् , सा च न सिध्यति ; तस्या अप्यन्यदृष्ट्यपेक्षत्वेनानवस्थानादित्यर्थः ।
तर्हि ज्ञानं ज्ञानान्तरप्रत्यक्षं सदर्थप्रकाशो भवतु , तत्राह –
तच्चेदिति ।
नन्वर्थं प्रत्यक्षयितुं यथा साक्षिणि उपलम्भ इष्यते , एवमुपलम्भमपि प्रत्यक्षयितुमुपलम्भान्तरमेष्टव्यं , तत्र कुतो नाकाङ्क्षा ? अत आह –
सत्यमिति ।
विज्ञानग्रहमात्र एवास्माभिः स्वीकृते विज्ञानसाक्षिणः विज्ञानविषयग्रहणान्तराकाङ्क्षानुत्पादादिति भाष्यार्थः ।
अनङ्गीक्रियमाणं दर्शयति –
न त्विति ।
तत्प्रत्यक्षत्वाय तस्योपलम्भस्य प्रत्यक्षत्वायेत्यर्थः । स्वप्रकाशसाक्षिणि अन्तःकरणप्रतिबिम्बिते सत्यन्तःकरणपरिणामस्य भास्वरस्य स्वत एव साक्षिप्रतिबिम्बाधारतया सिद्धिसंभावान्न परिणामान्तरादपरोक्षतेति ग्रन्थार्थः । यद्यनुभवापरोक्ष्यं परिणामान्तरात् , तर्ह्यनुभव उदितोऽपि कदाचिन्न प्रकाशेत , न चैवम् ।
अतो नित्यसाक्ष्यनुभवसिद्ध इत्याह –
न ह्यस्ति संभव इति ।
प्रमातुः साक्षिणः । नचानुव्यवसायादनुभवप्रत्यक्षता ; तस्याप्यप्रत्यक्षस्यानुभवसिद्धत्वायोगादनुभवान्तरतः प्रत्यक्षत्वेऽनवस्थाया उक्तत्वादिति।
न केवलमनुभवे एवानुभवितुर्व्याप्तावनुभवान्तरानपेक्षा , किंतु क्रियामात्रमेव कर्त्रा क्रियान्तरमन्तरेण व्याप्यत इत्याह –
यथा छेत्तेति ।
माभूज्ज्ञानविषयज्ञानपरिणामान्तरापेक्षयाऽनवस्था , साक्षिणस्तु साक्ष्यन्तराश्रितप्रमापेक्षयाऽनवस्था स्यादित्याशङ्क्य स्वप्रकाशत्वान्नेत्याह –
न च प्रमातरीति ।
अनेन साक्षिविषयग्रहणाकाङ्क्षानुत्पादादित्येवमपि पूर्वभाष्यं व्याख्यातम् ।
ननु साक्षिणं प्रति प्रत्ययस्योपलभ्यत्वे तद्विषय उपलम्भोऽन्योवाच्यः ; तस्य प्राक् निरासात् पूर्वापरविरोध इति भ्रममपनयति –
ग्राह्यत्वं चेति ।
फलेन्तः करणगतज्ञानपरिणामे स्वाभाविकाकाशकल्पसाक्षिचैतन्यव्यतिरेकेण परिणामान्तरापेक्षफलान्तरानुत्पत्तेरित्यर्थः । चैतन्याभिविभक्तिस्तु फलमस्त्येव । तदाहुरत्रभवन्तो वार्तिककाराः - वियद्वस्तुस्वभावाऽनुरोधादेव न कारकात् । वियत्संपूर्णतोत्पत्तौ कुम्भस्यैवं दशा धियाम् ॥ इति । न संविदर्यते ज्ञायते परिणामज्ञानेनेत्यर्थः । स्वतसिद्धप्रकटतया ज्ञानस्य ग्राह्यत्वमित्यनुषङ्गः ।
ननु यदि परिणामव्याप्तिव्यतिरेकेण संवित् साक्षिणं प्रत्यपरोक्षा , तर्ह्यर्थोऽपि स्याद्व्यापकसाक्षिसंबन्धस्य संविदर्थयोरविशेषादित्याशङ्क्याह –
ग्राह्योऽप्यर्थ इति ।
अर्थो हि स्वविषयान्तःकरणपरिणामरूपायां संविदि सत्यां तदधीनाभिव्यक्तिकसाक्षिरूपानुभावात् प्रकटो भवति। सा तु संवित् केवलस्वरूपानुभवात्स्वप्रतिबिम्बितात् प्रकटतां प्रतिपद्यते । एतदुक्तं भवति – सर्वव्यापी सन्नपि स्वरूपानुभवोऽविद्यावृतत्वान्न भासते , स तु निर्मल इव मुकुरतले मुखं भास्वरस्वभावविशेषवदन्तःकरणे व्यज्यत इति तद्वृत्तिरपि भासुरा सन्निहिता चेति भवति स्वभावप्रकटा । अर्थस्त्वन्तःकरणं प्रति व्यवहितो न च स्वभावादेव चैतन्याभिव्यञ्जनक्षमः । दृष्टं च संबन्धाविशेषेऽपि स्वभावविशेषाद् व्यञ्जकाव्यञ्जकत्वम् । यथा चाक्षुषी प्रभा संबन्धाविशेषेऽपि रूपाद्येव व्यञ्जयति , न वाय्वादिकम् । तस्मात्परिणामाभिव्यक्तानुभवादर्थसिद्धिरिति।
कर्मभाव इति ।
परिणामक्रियाजन्यफलभागितेत्यर्थः ।
आत्मस्वप्रकाशत्वबलादिदं सर्वं सिद्ध्यति , तदेवासिद्धमिति शङ्कते –
स्यादेतदिति ।
आत्मा ज्ञेयः प्रकाशमानत्वाद् घटवदित्यनुमानम् । इदं तावदाभासः । अत्र हि यत्प्रकाशते तद्वेद्यमिति व्याप्तिरभ्युपेया । तथा सत्यस्या व्याप्तेर्या ग्राहिका संवित् सा स्वस्यां न वा । प्रथमे किं कर्मत्वेन किं वाऽन्यसंविदनपेक्षस्वव्यवहारहेतुत्वेन । नाग्रिमः ; स्वात्मनि वृत्तिविरोधात् । न चरमः ; तस्यामेव संविदि व्यभिचारात् ।
न चरमः ; अस्या एव संविदो विशेषस्यानवभासनात् कथं सकलविशेषोपसंग्रहवती व्याप्तिरस्यां संविदि परिस्फुरेत् ? परिस्फुरणे च कथमनुमानमुदयेत ? एवं सिद्धेऽस्य दौर्बल्ये स्वप्रकाशत्वसाधनीयदोषामनुमामाह कालातीतत्वसिद्धये –
तथा हीत्यादिना ।
अनागन्तुकप्रकाश इति प्रतिज्ञा । आगन्तुकः स्वविषयी अर्थात् प्रकाश इति लभ्यते । स यस्य नास्ति स चासौ प्रकाशश्च तत्त्वे सतीत्यर्थः । अनेनाज्ञेयत्वे सति भासमानत्वं स्वप्रकाशत्वमिति निरुक्तम् । भासमानत्वं च व्यावहारिकबाधविधुरं भासत इति शब्दलक्ष्यत्वं न भानविषयत्वमिति न व्याघातः । न च वेदान्तज्ञेयत्वविरोधः । निरुपाधेरज्ञेयत्वाद्वेदान्तजन्यवृत्त्युओआधौ तज्ज्ञेयत्वमपीति ह्युक्तं तन्न प्रन्मर्तव्यम् । अत एव - स्वप्रकाशस्यानुमानज्ञेयत्वविरोध इति – निरस्तम् ; अनुमितेरेव ज्ञेयत्वोपाधित्वात् । नित्यसाक्षात्कारताऽनागन्तुकप्रकाशत्वे हेतुः । स्ंविदभिन्नत्वं च साक्षात्कारत्वं , न तु इन्द्रियजप्रतीतित्वादि । तच्च संविदः स्वतः ; तदन्यस्य तदध्यासात् , तत्समर्थनार्थमसंदिग्धाविपरीततस्येत्युक्तम् ।
असंदिग्धाविपर्यस्तत्वमुपपादयति –
तथा हि प्रमातेत्यादिना ।
संदिहानोऽप्यन्यदिति शेषः । एवं सर्वत्र । तदयं प्रयोगः - आत्मा , स्वयंप्रकाशः , शश्वदपरोक्षत्वात् , शश्वदपरोक्षश्च शश्वदसंदिग्धत्वाद्व्यतिरेके घटवत् । न चाप्रसिद्धविशेषणत्वम् ; अयं घट एतदन्यज्ञेयत्वरहितभासमानान्यः , द्रव्यत्वाद् , घटवदिति तत्सिद्धेरिति।
विपक्षे दण्डमाह –
न चैतदिति ।
यदि नित्यसाक्षात्कारत्वमात्मनो न स्यात् , तर्हि कदाचिदात्मनि संदेहः स्यादित्यर्थः ।
स्यादेतत् - आत्मविषया संविदुदेत्येवेति , तत्राह –
अनवस्थेति ।
उक्तेन क्रमेणेति ।
न क्रिया तया व्याप्यते किंतु कर्त्रेत्यनेनेत्यर्थः । अनेन विज्ञानं व्यतिरिक्तग्राह्यं ग्राह्यत्वादिति पूर्वोक्तानुमानस्य विपक्षे दण्ड उच्यते ।
उक्तक्रमं स्फोरयति –
न फलस्येति ।
नार्थे इति ।
नार्थेऽपि विप्रतिपत्तिः । तस्य त्वन्मतेऽपि मिथ्यात्वादित्यर्थः ॥२८॥ स्वप्नवदित्ययं दृष्टान्तः साध्यविकलः स्यादिति योजना । अभ्युपेत्य स्वप्नप्रत्ययस्य निरालम्बनत्वं जाग्रप्रत्ययस्य तन्निर स्यति। विद्यत एव तु तस्यापि प्रातीतिकमालम्बनम् । एवं तावत् स्तम्भादिप्रत्ययो निरालम्बनः प्रत्ययत्वात्स्वप्नप्रत्ययवदित्यनुमानस्य बाध्यत्वेन सोपाधिकत्वमुक्तम् । न च साधनव्याप्तिः ; सति प्रमातरि गाग्रप्रत्यये बाधविरहस्य प्रमितत्वेन साधनव्याप्त्यनुमानस्यातीतकालत्वात् ।
संप्रति प्रमाणाजन्यत्वेनापि सोपाधिकत्वमाह –
संस्कारमात्रजं हीति ।
मात्रग्रहणेन प्रमाणकारणेन्द्रियादिसहितत्वं व्यावर्त्यते , न तु भ्रमहेतुदोषसाहित्यम् । अत एव भाष्यगतः स्मृतिशब्दः प्रमाणमिलितसंस्कारजत्वाद्भ्रमेऽपि स्वप्नज्ञाने औपचारिको व्याख्यातव्यः ।
उपलब्धिस्त्विति भाष्यगतमुपलब्धिशब्दं व्याचष्टे –
प्रत्युत्पन्नेति ।
प्रत्युत्पन्नेन वर्तमानेन वस्तुना इन्द्रियसंयोगेनेत्यर्थः । षट् प्रमाणजनितं ज्ञानमुपलब्धिः । एवमव्याख्याने स्वप्नस्यापि मिथ्योपलब्धित्वाद्वैधर्म्यं न सिध्येदिति।
कालातीततां प्रत्ययत्वहेतोराह –
अपि च स्वत इति ।
ननूत्सर्गतः प्राप्तमपि प्रामाण्यमनुमानादपोद्यतामत आह –
अनुभवविरोध इति ।
अबाधितविषयत्वेनावगतस्यानुमानस्य प्रमाणत्वात्सति प्रत्यक्षबाधे न प्रमाजनकत्वमतो बाधकानुदयान्न प्रत्यक्षस्य प्रामाण्यापवाद इत्यर्थः । न हि यो यस्य स्वतो धर्मो न संभवति , सोऽन्यसाधर्म्यात्तस्य संभविष्यतीति भाष्यं ।
तत्र न संभवतीति ।
प्रमाणेन न संभवतीत्यवधारितं इत्यर्थः । तेन संदिग्धो वस्तुधर्मोऽन्यसाधार्म्याद्धूमवत्त्वादेः संभविष्यतीति सूचितम् ॥२९॥
अर्थोपलब्ध्यभावान्न वासनानां भाव इत्ययुक्तम् ; परेषामर्थाभावाद्वासनानामर्थोपलब्धिभिर्व्याप्तेरसंभूतत्वादित्याशङ्क्याह –
यथा लोकदर्शनमिति ।
त्वयापि ह्यर्थोपलब्धेः स्वप्ने वासनाजन्यत्वं लोकसिद्धान्वयव्यतिरेकाभ्यामवगन्तव्यम् । तद्दृष्टान्तेन च जाग्रत्यनुमेयं , तथा च यौ लौकिकावन्वयव्यतिरेकौ तावर्थोपलब्धेः कार्यस्यार्थ एव कारणे सति भवतः नार्थानपेक्षवासनारूपकारणे ; स्वप्नप्रत्ययजनकवासनाया अपि जाग्रदर्थोपलब्ध्यधीनत्वदर्शनात्कारणकारणत्वेन तत्राप्यर्थोपलब्धेः स्थितत्वादतश्च वासनानामर्थोपलब्धिभिर्व्याप्तिसिद्धेरित्यर्थः ।
न लौकिकी वासनेति ।
अन्तरेणाश्रयमेकसंततिपतितसमानाकारविज्ञानस्य वासनात्वं ह्यलौकिकमिति भावः । वासना हि गुणस्तस्याश्रयः समवायिकारणं तत्राश्रयत्वाभिमतमालयविज्ञानं वासनया सहोत्पद्यते पूर्वं वा ।
नाद्य इत्याह –
द्वयोरिति ।
नियतप्राक्सत्त्वं हि कारणत्वमित्यर्थः ।
न द्वितीय इत्याह –
प्रागिति ।
असतश्चाधारत्वायोगादिति द्रष्टव्यम् । ॥३०॥
वर्णकान्तरमधिकरणस्य दर्शनम् पूर्वपक्षमाह –
स्यादेतदित्यादिना ।
विविच्यन्त इत्येतन्निर्णयाभिप्रायं न भवति , किंतु व्यवस्थापक्षाद्विभागाभिप्रायमित्याह –
न क्वचिदिति ।
नादरः क्रियते सूत्रान्तराणि न रच्यन्ते । एतान्येवावृत्त्या योज्यन्त इत्यर्थः ।
नाभावो ज्ञानार्थयोः ; प्रमाणैरुपलब्धेरिति सूत्रं योजयन् सिद्धान्तमाह –
लौकिकानि हीति ।
अतात्त्विकत्वं प्रपञ्चस्य व्यवस्थापयितुम् अधिष्ठानं वस्तुभूतं वाच्यं तस्याभावस्त्वन्मते प्रमाणतस्तत्त्वानुपलब्धेरिति प्रतिपादयन्न भावोऽनुपलब्धेरिति सूत्रं योजयति –
यद्युच्येतेत्यादिना ।
अतात्त्विकत्वं प्रपञ्चस्य धर्मिग्राहकप्रमाणैरवगम्यते बाधकप्रमाणान्तरेण वा ।
नाद्य इत्याह –
प्रमाणानि हीति ।
न द्वितीय इत्याह –
बाधकं चेति ।
ननु - किमन्याधिष्ठानतत्त्वबोधनेन ? प्रत्यक्षादिप्रमितवस्तुगतं विचारासहत्वमेव बाधकप्रमाणं गमयत्विति - चेत् , तत्र वक्तव्यम् किं विचारासहत्वं नाम सदसदादिपक्षेषु अन्यतमपक्षनिवेशो वस्तुभूतो धर्मः परं विचारं न सहते इत्युच्यते , उत विचारासहत्वेन रूपेण निस्तत्त्वं शून्यमभिमतम् । नाद्य इत्याह –
तत्रेति ।
द्वितीयेऽपि निस्तत्त्वं सदादिपक्षनिविष्टं न वा ।
न प्रथमः ; सदादिप्रकारतत्त्वव्यवस्थायास्त्वयाऽनिष्टत्वादित्याह –
कथमन्यतमदिति ।
न द्वितीय इत्याह –
न चेति ।
निस्तत्त्वं हि तत्त्वरूपत्वाभावः स चासन्नित्यत्वं भावानां व्यवस्थापितं स्यात् । तथा चासत्त्वाव्यवस्थाप्रतिज्ञाविरोध इत्यर्थः ।
पूर्वमधिष्ठानतत्त्वज्ञानाभावाद्बाधो न भवतीत्युक्तम् , इदानीम् अधिष्ठानाभावादारोपासंभवमाह –
अपि चेत्यादिना ।
स्वपक्षे विशेषमाह –
तस्मादिति ।
वैधर्म्यसूत्रं सुयोजम् । क्षणिकत्वाच्चेति सूत्रे उपदेशादित्युपस्करणीयम् । ततश्च क्षणिकपदार्थसत्त्वोपदेशाच्छून्योपदेशाच्च व्याहताभिव्याहारः सुगत इति योजनीयम् ॥३१॥
यथायथेति भाष्यस्थवीप्सां व्याचष्टे –
ग्रन्थत इति ।
दर्शनमिति वक्तव्ये पश्यनेत्यपशब्दः । स्थानमिति वक्तव्ये तिष्ठनेत्यपशब्दः । तिष्ठतेर्दृशेश्च शिति प्रत्यये तिष्ठपश्यावादेशौ युच्प्रत्यते तु न तस्याशित्त्वात् । मिह सेचने इत्यस्य निष्ठान्तस्य मीढमिति सिध्यति। मिद्धमिति त्वपशब्दः । पोषधशब्द उपवासे बौद्धैः प्रयुज्यते स्नातः शुचिवस्त्राभरणः पोषधं विदधीतेति। स च लोकैरप्रयुक्तत्वादपशब्दः इति प्रतिभाति ।
अर्थतोऽनुपपत्तिमाह –
अर्थतश्चेति ।
अक्षरमविनाशि । नमनादिवासनानामाश्रयत्वादक्षरत्वसिद्धिः । उत्पादाद्वेति सूत्रे स्थिता धर्मस्थितितेति च कारणत्वधर्मस्य कार्यत्वधर्मस्य च स्थिरत्वस्वीकारात्सर्वक्षणिकत्वविरोधः ॥३२॥