पत्युरसामञ्जस्यात् ।
अविशेषेणेश्वरकारणवादोऽनेन निषिध्यत इति भ्रमनिवृत्त्यर्थमाह
केवलेति ।
साङ्ख्ययोगव्यपाश्रया हिरण्यगर्भपतञ्जलिप्रभृतयः । प्रधानमुक्तम् । दृक्शक्तिः पुरुषः प्रत्ययानुपश्यः । स च नानाक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः प्रधानपुरुषाभ्यामन्यः । माहेश्वराश्चत्वारः शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति । चत्वारोऽप्यमी महेश्वरप्रणीतसिद्धान्तानुयायितया माहेश्वराः । कारणमीश्वरः । कार्यं प्राधानिकं महदादि । योगोऽप्योङ्कारादिध्यानधारणादिः । विधिस्त्रिषवणस्नानादिर्गूढचर्यावसानः, दुःखान्तो मोक्षः । पशव आत्मानस्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तः । एष तेषामभिसन्धिः चेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमित्तकारणत्वमात्रं न तूपादानत्वमपि । तस्मादिहापीश्वरोऽधिष्ठाता जगत्कारणानां निमित्तमेव, न तूपादानमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरोधादिति प्राप्तम् । एवं प्राप्तेऽभिधीयते
पत्युरसामञ्जस्यातिति ।
इदमत्राकूतमीश्वरस्य निमित्तकारणत्वमात्रमागमाद्वोच्येत प्रमाणान्तराद्वा प्रमाणान्तरमप्यनुमानमर्थापत्तिर्वा । न तावदागमात् , तस्य निमित्तोपादानकारणत्वप्रतिपादनपरत्वादित्यसकृदावेदितम् । तस्मादनेनास्मिन्नर्थे प्रमाणान्तरमास्थेयम् । तत्रानुमानं तावन्न सम्भवति । तद्धि दृष्ट्यनुसारेण प्रवर्तते तदनुसारेण चासामञ्जस्यम् । तदाह
हीनमध्यमेति ।
एतदुक्तं भवति आगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यम् । न हि स्वर्गापूर्वदेवतादिष्वागमादवगम्यमानेषु किञ्चिदस्ति दृष्टम् । नह्यागमो दृष्टसाधर्म्यात्प्रवर्तते । तेन श्रुतसिद्द्यर्थमदृष्टानि दृष्टविपरीतस्वभावानि सुबहून्यपि कल्प्यमानानि न लोहगन्धितामावहन्ति प्रमाणवत्त्वात् । यस्तु तत्र कथञ्चिद्दृष्टानुसारः क्रियते स सुहृद्भावमात्रेण । आगमानपेक्षितमनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतितरामिति । प्राणिकर्मापेक्षितत्वाददोष इति चेत् । न । कुतः । कर्मेश्वरयोर्मिथः प्रवर्त्यप्रवर्तयितृत्व इतरेतराश्रयत्वदोषप्रसङ्गात् । अयमर्थः यदीश्वरः करुणापराधीनो वीतरागस्ततः प्राणिनः कपूये कर्मणि न प्रवर्तयेत् , तच्चोत्पन्नमपि नाधितिष्ठेत् , तावन्मात्रेण प्राणिनां दुःखानुत्पादात् । न हीश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति । तदनधिष्ठितं वा कपूयं कर्म फलं प्रसोतुमुत्सहते । तस्मात्स्वतन्त्रोऽपीश्वरः कर्मभिः प्रवर्त्यत इति दृष्टविपरीतं कल्पनीयम् । तथाचायमपरो गण्डस्योपरि स्फोट इतरेतराश्रयः प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति । शङ्कते
नानादित्वादिति चेत् ।
पूर्वकर्मणेश्वरः सम्प्रतितने कर्मणि प्रवर्त्यते तेनेश्वरेण सम्प्रतितनं कर्म स्वकार्ये प्रवर्त्येत इति । निराकरोति
न वर्तमानकालवदिति ।
अथ पूर्वं कर्म कथमीश्वराप्रवर्तितमीश्वरप्रवर्तनलक्षणं कार्यं करोति । तत्रापि प्रवर्तितमीश्वरेण पूर्वतनकर्मप्रवर्तितेनेत्येवमन्धपरम्परादोषः । चक्षुष्मता ह्यन्धो नीयते नान्धान्तरेण । तथेहापि द्वावपि प्रवर्त्याविति कः कं प्रवर्तयेदित्यर्थः । अपिच नैयायिकानामीश्वरस्य निर्दोषत्वं स्वसमयविरुद्धमित्याह
अपिचेति ।
अस्माकं तु नायं समय इति भावः ।
ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते । न च कारुण्यं दोष इत्यत आह
स्वार्थप्रयुक्त एव चेति ।
कारुण्ये हि सत्यस्य दुःखं भवति तेन तत्प्रहाणाय प्रवर्तत इति कारुणिका अपि स्वार्थप्रयुक्ता एव प्रवर्तन्त इति । ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि को दोष इत्यत आह
स्वार्थवत्त्वादीश्वरस्येति ।
अर्थित्वादित्यर्थः । पुरुषस्य चौदासीन्याभ्युपगमान्नवास्तवी प्रवृत्तिरिति ॥ ३७ ॥
अपरमपि दृष्टानुसारेण दूषणमाह
सम्बन्धानुपपत्तेश्च ।
दृष्टो हि सावयवानामसर्वगतानां च संयोगः । अप्राप्तिपूर्विका हि प्राप्तिः संयोगो न सर्वगतानां सम्भवत्यप्राप्तेरभावान्निरवयवत्वाच्च । अव्याप्यवृत्तिता हि संयोगस्य स्वभावः । न च निरवयवेष्वव्याप्यवृत्तिता संयोगस्य सम्भवतीत्युक्तम् । तस्मादव्याप्यवृत्तितायाः संयोगस्य व्यापिकाया निवृत्तेस्तद्व्याप्यस्य संयोगस्य विनिवृत्तिरिति भावः । नापि समवायलक्षणः । स ह्ययुतसिद्धानामाधाराधेयभूतानामिहप्रत्ययहेतुः सम्बन्ध इत्यभ्युपेयते । न च प्रधानपुरुषेश्वराणां मिथोऽस्त्याधाराधेयभाव इत्यर्थः । नापि योग्यतालक्षणः कार्यगम्यसम्बन्ध इत्याह
नाप्यन्य इति ।
नहि प्रधानस्य महदहङ्कारादिकारणत्वमद्यापि सिद्धमिति । शङ्कते
ब्रह्मवादिन इति ।
निराकरोति
न ।
कुतः । तस्यमतेऽनिर्वचनीयतादात्म्यलक्षणसम्बन्धोपपत्तेः ।
अपिचेति ।
आगमो हि प्रवृत्तिं प्रति न दृष्टान्तमपेक्षत इत्यदृष्टपूर्वे तद्विरुद्धे च प्रवर्तितुं समर्थः । अनुमानं तु दृष्टानुसारि नैवंविधे प्रवर्तितुमर्हतीति । शङ्कते
परस्यापीति ।
परिहरति
नेति ।
अस्माकं त्वीश्वरागमयोरनादित्वादीश्वरयोनित्वेऽप्यागमस्य न विरोध इति भावः ॥ ३८ ॥
अधिष्ठानानुपपत्तेश्च ।
यथादर्शनमनुमानं प्रवर्तते नालौकिकार्थविषयमितीहापि न प्रस्मर्तव्यम् । सुगममन्यत् ॥ ३९ ॥
करणवच्चेन्न भोगादिभ्यः ।
रूपादिहीनमिति ।
अनुद्भूतरूपमित्यर्थः । रूपादिहीनकरणाधिष्ठानं हि पुरुषस्य स्वभोगादावेव दृष्टं नान्यत्र । नहि बाह्यं कुठाराद्यपरिदृष्टं व्यापारयन् कश्चिदुपलभ्यते । तस्माद्रूपादिहीनं करणं व्यापारयत ईश्वरस्य भोगादिप्रसक्तिः तथा चानीश्वरत्वमिति भावः । कल्पान्तरमाह
अन्यथेति ।
पूर्वमधिष्ठितिरधिष्ठानमिदानीं तु अधिष्ठानं भोगायतनं शरीरमुक्तम् । तथा भोगादिप्रसङ्गेनानीश्वरत्वं पूर्वमापादितम् । सम्प्रति तु शरीरित्वेन भोगादिप्रसङ्गादनीश्वरत्वमुक्तमिति विशेषः ॥ ४० ॥
अन्तवत्त्वमसर्वज्ञता वा ।
अपि च सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेश्वराणामपि सङ्ख्याभेदवत्त्वमन्तवत्त्वं च द्रव्यत्वात्सङ्ख्यान्यत्वे सति प्रमेयत्वाद्वानुमातव्यं, ततश्चान्तवत्त्वमसर्वज्ञता वा । अस्माकं त्वागमगम्येऽर्थे तद्बाधितविषयतया नानुमानं प्रभवतीति भावः । स्वरूपपरिमाणमपि यस्य यादृशमणु महत् परममहद्दीर्घं ह्रस्वं चेति ।
अथ मा भूदेष दोष इत्युत्तरो विकल्पः ।
यस्यान्तोऽस्ति तस्यान्तवत्त्वाग्रहणमसर्वज्ञतामापादयेत् । यस्य त्वन्त एव नास्ति तस्य तदग्रहणं नासर्वज्ञतामावहति । नहि शशविषाणाद्यज्ञानादज्ञो भवतीति भावः ।
परिहरति
तत इति ।
आगमानपेक्षस्यानुमानमेषामन्तवत्त्वमवगमयतीत्युक्तम् ॥ ४१ ॥
पत्युरसामञ्जस्यात् ॥३७॥ सत्त्वासत्त्वादेरेकत्रासंभववदधिष्ठातृत्वोपादानत्वयोरप्येकत्रासंभव इति प्रत्यवस्थानात्सङ्गतिः । सांख्ययोगव्यपाश्रया इत्यादिभाष्यं व्याचष्टे –
हिरण्यगर्भेत्यादिना ।
भाष्यगतपुरुषपदव्याख्यानं –
दृक्शक्तिरिति ।
शक्तिग्रहणं तु समर्थापि सर्वं ज्ञातुं जैवि दृग् न जानात्यावृत्तत्वादित्यर्थम् ।
कथं तर्हि जीवस्य ज्ञातृत्वं ? तत्राह –
प्रत्ययेति ।
प्रत्ययमन्तः – करणपरिणाममनुपश्यतीति तथोक्तः ।
भाष्ये प्रधानपुरुषयोरधिष्ठातेति द्विवचनप्रयोगादेको जीव इति भ्रमः स्यात्तं व्युदस्यति –
स चेति ।
समासान्तर्वर्त्येकवचनं जात्यभिप्रायेणेत्यर्थः । क्लेशेति सूत्रमीक्षत्यधिकरणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम् । पुरुषत्वात्प्रधानादन्यः क्लेशाद्यपरामृष्टत्वात्पुरुषादन्यः – जीवादन्य इत्यर्थः । गूढचर्या स्वगुणाप्रख्यापनेन देशेषु वासः ।
ईश्वरो , न द्रव्यं प्रत्युपादानं , चेतनत्वात्कुलालवदित्याह –
चेतनस्येति ।
कुलालस्यापि सुखाद्युपादानत्वात्साध्यवैकल्यं स्यात्तद्वारणाय द्रव्यमित्यध्याहृतम् । जगत्कारणानां प्रधानस्य परमाणूनां चेत्यर्थः ।
निमित्तमित्यस्य विवरणम् –
अधिष्ठातेति ।
सिद्धान्तस्तु अधिगम्य श्रुतेरीशमनुपादानता यदि । अनुमीयेत बाधः स्यादाश्रयासिद्धिरन्यथा ॥ किमप्रमित ईश्वरेऽनुपादानत्वं साध्यते , उत प्रमिते । नाद्यः ; आश्रयासिध्द्यापातात् । द्वितीयेऽपि तत्प्रमितिः श्रुतेरनुमानाद्वा पौरुषेयागमाद्वा । प्रथमे किमीक्षणपूर्वककर्तृत्वादिप्रतिपादकश्रुत्यैवानुपादानत्वं साध्यते , तत्पूर्वकानुमानाद्वा ।
नाग्रिमः ; तस्याः श्रुतेर्निमित्तत्वमात्रपरत्वं न तूपादानत्वनिषेधपरत्वमिति प्रकृतिश्चे(ब्र.अ.१.पा.४.सू.२३) त्यधिकरणे सुसाधितत्वादित्याह –
न तावदिति ।
न द्वितीय इत्याह –
तस्मादिति ।
आस्थीयमानमपि न संभवति ; तदात्मानं स्वयमकुरुतेत्यादिश्रुत्यैव बाधादित्यर्थः ॥
अस्तु तर्ह्यनुमिते ईश्वरेऽनुपादानत्वानुमानमत आह –
तत्रेति ।
ईश्वरे इत्यर्थः । पौरुषेयागमं च निषेत्स्याम इति तावच्छब्दः । तथाहि – न तावदाद्यं कार्यं सकर्तृकं कार्यत्वात्कुम्भवदिति मानम् ; जीवादृष्टजत्वसिद्धेः , अव्यवहितप्राक्कालवर्तिप्रयत्नजत्वसाधने चाद्यकार्यव्यवहितप्रयत्नजत्वस्य कुम्भेऽभावेन साध्यवैकल्यात् , कुम्भाव्यहितप्रयत्नजत्वस्य आद्ये कार्ये बाधात् , किंचिदव्यवहितप्रयत्नजन्यत्वस्य च सिद्धसाधनात् । अदृष्टाव्यवहितप्राक्कालप्रयत्नजत्वादाद्यकार्यस्य । अथ द्व्युणुके द्व्युणुकोपादानसाक्षात्कारवज्जन्यं कार्यत्वादिति। तच्चः न ; अप्रसिद्धविशेषणविशेष्यत्वाभ्यां द्व्युणुकस्य तदुपादानसाक्षात्कारस्य चासिद्धेः । दृष्टान्ते च संदिग्धसाध्यत्वम् ; घटस्य द्व्युणुकोपादानसाक्षात्कारवदीश्वरप्रयत्नजन्यत्वस्यासम्प्रतिपत्तेः । अदृष्टं प्रत्यक्षं मेयत्वादित्यत्र च योगिभिरर्थान्तरता , कार्यं सर्वज्ञकर्तृकं कार्यत्वादित्यत्र च । स्यादेतत् - धर्मो भ्रमसमानाधिकरणधर्मविषयत्वरहितसाक्षात्कारविषयः , मेयत्वाद् , घटवत् । साक्षात्कारगोचर इत्युक्ते योगिभिरर्थान्तरतेति भ्रमसमानाधिकरणधर्मविषयत्वरहितग्रहणम् ; योगिसाक्षात्कारस्य कालभेदेन भ्रमसमानाश्रयत्वात् । भ्रमसमानाधिकरणत्वरहितसाक्षात्कारगोचर इत्युक्ते चाप्रसिद्धविशेषणत्वमिति तन्निवृत्त्यर्थं धर्मविषयत्वग्रहणम् । अस्मदादीनां घटादिविषयसाक्षात्कारस्य भ्रमसमानाश्रयत्वेऽपि धर्मविषयत्वाभावेन भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरूपविशिष्टधर्मरहितत्वात्तत्र साध्यसिद्धेः । साक्षात्कारस्य च भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरहितत्वं धर्मविषयत्वराहित्याद्वा भ्रमसमानाधिकरणत्वराहित्याद्वा भवति। आद्ये तस्य धर्मविषयत्वव्याघात इति द्वितीयः स्यात् । तथा च तादृशसाक्षात्कारवदीश्वरसिद्धिरिति। तन्न ; किमिदं धर्मविषयत्वरहितत्वम् । धर्मविषयत्वसंसर्गभाववत्त्वमिति चेत्तत्किं धर्मविषयत्वसंसर्गान्योन्याभाववत्त्वमुत तत्संसर्गाभाववत्त्वम् । नाद्यः ; तथासत्यस्य विशेषणस्य वैयर्थ्यात्साक्षात्कारपदेनैव तद्वाच्यार्थस्य धर्मविषयत्वसंसर्गान्योन्याभाववत्त्वसिद्धेः । न हि धर्मविषयत्वसंसर्गात्मकः कश्चित्साक्षात्कारोऽस्ति , यद्व्यवच्छेदार्थमिदं विशेषणम् । न द्वितीयः ; धर्मविषयत्वसंसर्गसंसर्गान्योन्याभावमादाय विशेषणवैयर्थ्यतादवस्थ्यात् , तत्रापि संसर्गान्तरं प्रति धावने च तत्तदन्योन्याभावमादाय वैयर्थ्यधावनात् । अथ मतं न संसर्गस्य संसर्गान्तरमस्ति , किंतु स्वयमेव स्वस्य संसर्ग इति क्वानवस्थेति ? नैतत् ; तथासति तादृशसंसर्गान्योन्याभावमादाय विशेषणवैयर्थ्येन वज्रलेपनात् । एतत्खण्डनभयेन यदि विशेषणमुज्झसि , तर्हि ग्रस्तोऽसि योगिभिरर्थान्तरतया । एवं सर्वा महाविद्यास्तच्छाया वाऽन्ये प्रयोगाः खण्डनीया इति ॥ तत्सुखाद्वैतबोधात्मस्वभावहरये नमः । वेदान्तैकप्रमाणाय कुतर्काणामभूमये ॥ तस्मात्सुष्ठूक्तं तत्रेश्वरेऽनुमानं तावन्न संभवतीति।
अथवा –पूर्वग्रन्थेनास्मिन्नर्थे ईश्वरस्य निमित्तमात्रत्वे प्रमाणान्तरमास्थेयमिति सामान्यतः श्रुतिव्यतिरिक्तप्रमाणापेक्षामुक्त्वा किं तदनुमानं पौरुषेयागमो वेति विकल्प्याद्यं प्रत्याह–
तत्रानुमानमिति ।
यथैव चेतनस्य निमित्तत्वमात्रमनुमीयते , तथा रागादिकमप्यनुमेयं व्याप्तेरविशेषात्तथा च वाद्यभिमतनिरवद्यत्वविशेषविरुद्धोऽयं हेतुरित्याह –
तद्धि दृष्ट्यनुसारेणेति ।
ननु सिद्धान्ते श्रुतिगम्येश्वरस्यापि पुरुषत्वाद्रागादिमत्त्वानुमानं दुर्वारमत आह –
एतदुक्तमिति ।
व्याप्त्यपेक्षं ह्यनुमानं व्याप्त्युपनीतं सर्वमनुमन्यते । आगमस्तु स्वतन्त्रस्तत्र यत् तद्विरुद्धमनुमानं तत् कालातीतं स्यादित्यर्थः । लोहगन्धिता कलङ्कगन्धिता ।
कथं तर्हि मानान्तरानुसारेणापूर्वादिकल्पना ? तत्राह –
यस्त्विति ।
तत्राप्यागमप्रामाण्यात्कालान्तरकृतयागात्स्वर्गोऽस्तु का क्षतिः ? अनन्तरपूर्वक्षणवर्तिनः कारणत्वमिति लोकानुभावमनुरुध्यापूर्वकल्पनेत्यर्थः ।
इदानीं चेत्कर्मेश्वरयोः प्रवर्त्यप्रवर्तकत्वं प्रतीयेत , तत एतद्बलाद्बीजाङ्कुरवत् परंपराऽवलम्बिष्यते , तत्र कुत इतरेतराश्रयत्वं कुतस्तरामन्धपरंपरेत्याशङ्क्यादौ तावत्प्रवर्त्यप्रवर्तकभावानुपपत्तिं कर्मेश्वरयोर्दर्शयति –
यदीश्वर इति ।
अथवा –करुणयैवेश्वरः प्रेरितः कर्म कारयति , तत्कुत इतरेतराश्रयत्वं भाष्ये उच्यते ? तत्राह–
यदीश्वर इति ।
कपूयं कुत्सितम् । उत्तरस्मिन् व्याख्याने कर्मभिः प्रयोजनैः करुणया हेतुना प्रवर्त्यत इति दृष्टविरुद्धम् ; दृश्यमानकार्यस्य करुणाहेतुकत्वविरुद्धदुःखात्मकत्वादिति योजना ।
ईश्वरेण पूर्वं कर्म तावत्प्रवर्तयितुं न शक्यते ; कुत्सितफलानुदयप्रसङ्गादेवं पूर्वकर्मेश्वराप्रवर्तितं कथमीश्वरप्रवर्तनलक्षणं कार्यं करोति ? एवं सति प्रवर्तकत्वोपपत्तिमनुक्त्वा केवलं ततः पूर्वकर्मैवावालम्ब्यते , तत्राह –
तत्रापीति ।
तत्रापीश्वरप्रवर्तने स्वकार्ये पूर्वं कर्म ततः पूर्वभाविकर्मप्रवर्तितेनेश्वरेण प्रवर्तितमिति वक्तव्यं , तथा च सर्वत्रानुपपत्तिसाम्यादन्धपरम्परेत्यर्थः । द्वावपि कर्मेश्वरौ ।
अस्माकं त्विति ।
मायामय्यां प्रवृत्तावचोद्यत्वादित्यर्थः ।
एवं श्रुतेरनुमानाच्चेश्वरसिद्धिं निरस्य पौरुषेयागमात्तत्सिद्धिर्निरस्यत इत्याह –
परस्यापीति ।
अस्माकं त्विति ।
शास्त्रयोनित्वेऽपीश्वरस्यानादिसिद्धनियतक्रमापेक्षणान्नेश्वराधीनं वेदस्य प्रामाण्यं किंतु स्वतः । यथा देवदत्तकृतत्वेऽपि दीपस्य प्रकाशनशक्तिमत एव कृतत्वाद् न देवदत्तापेक्षं तस्य प्रकाशकत्वं तद्वदित्यर्थः ।
ननु रूपादिहीनस्याधिष्ठेयत्वानुपपत्तिर्मायायामपि तुल्या , तत्राह –
यथादर्शनमिति ।
अधिष्ठानेति (ब्र.अ.२.पा.२.सू.३९) सूत्रगतव्याख्यानयोर्भेदमाह –
पूर्वमिति ।
करणवच्चेदिति (ब्र.अ.२.पा.२.सू.४०) सूत्रस्थव्याख्यानयोर्विशेषमाह –
तथेति ।
प्रधानपुरुषेश्वराणामिति ।
एषां पुरुषान् जात्यैकीकृत्य त्रित्वं तावत्सिद्धं , पुरुषाणां तु परार्धादिसंख्यासु मध्येऽन्यतमसंख्ययेयन्त एवेति संख्याभेदवत्त्वं द्रव्यत्वात् कुसूलमितधान्यवदित्यनुमाय सर्वेषां प्रधानादीनां संख्यावत्त्वादन्तवत्त्वं विनाशित्वमनुमातव्यम् । यद्यपि द्रव्यत्वादेवान्तवत्त्वं सर्वेषामनुमातुं शक्यम् ; तथापि प्रवाहनियत्वादनित्यानामपि स्रोतोरूपेण संसारवाहकत्वशङ्कां व्यावर्तयितुं संख्याभेदवत्त्वमनुमितम् । एवं तावद्द्रव्याश्रितैव संख्येति येषामाग्रहस्तन्मते संख्याभेदवत्त्वे द्रव्यत्वं हेतूकृतम् ।
अथ संख्यां विहाय सर्वत्र संख्यास्तीति मतं तन्मतेन मानं –
संख्यान्यत्वे सतीति ।
संख्यान्यत्वादित्यर्थः । सप्तमी च निमित्तार्था ।
अथ संख्यायामपि संख्यास्तीति मतं , तत्रानुमानमाह –
प्रमेयत्वादिति ।
सामान्यतो दृष्टानुमानोपन्यासस्तु ईदृशेनापि दूष्यत्वादाभासतरः परपक्ष इति द्योतनाय ।
व्याख्यातेऽर्थे सूत्रमवतारयति –
ततश्चेति ।
ननु बाह्यप्यन्तवदेकत्वादेकघटवदिति किं न स्यादत आह –
अस्माकं त्विति ।
भाष्यस्थस्वरूपपरिमाणपदं व्याचष्टे –
स्वरूपेति ।
परिहरति । तत ईश्वरस्येत्यादिभाष्येणेति शेषः ।
असति ह्यन्ते तदपरिच्छेदो न दोषाय , अस्ति च स इत्याह –
आगमेति ।
आगमानपेक्षो वादी तस्येति ॥४१॥