भामतीव्याख्या
वेदान्तकल्पतरुः
 

उत्पत्त्यसम्भवात् ।

अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते । तमंशमाह

यत्पुनरिदमुच्यते वासुदेवात्सङ्कर्षणो जीव इति ।

जीवस्य कारणवत्वे सत्यनित्यत्वम् , अनित्यत्वेपरलोकिनोऽभावात्परलोकाभावः, ततश्च स्वर्गनरकापवर्गाभावापत्तेर्नास्तिक्यमित्यर्थः ।

अनुपपन्ना च जीवस्योत्पत्तिरित्याह

प्रतिषेधिष्यति चेति ॥ ४२ ॥

न च कर्तुः करणम् ।

यद्यप्यनेकशिल्पपर्यवदातः परशुं कृत्वा तेन पलाशं छिनत्ति, यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनः संनिकर्षलक्षणं ज्ञानकरणमुपादायात्मार्थं विजानाति, तथापि सङ्कर्षणोऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कुर्यात् । अकरणस्य वा करणनिर्माणसामर्थ्ये कृतं करणनिर्माणेन । अकरणादेव निखिलकार्यसिद्धेरिति भावः ॥ ४३ ॥

विज्ञानादिभावे वा तदप्रतिषेधः ।

वासुदेवा एवैते सङ्कर्षमादयो निर्दोषा अविद्यादिदोषरहिताः । निरधिष्ठाना निरूपादानाः । अत एव निरवद्या अनित्यत्वादिदोषरहिताः । तस्मादुत्पत्त्यसम्भवोऽनुगुणत्वान्न दोष इत्यर्थः । अत्रोच्यते

एवमपीति ।

मा भूदभ्युपगमेन दोषः, प्रकारान्तरेण त्वयमेव दोषः । प्रश्नपूर्वं प्रकारान्तरमाह

कथम् । यदि तावदिति ।

न तावदेते परस्परं भिन्ना ईश्वराः परस्परव्याहतेच्छा भवितुमर्हन्ति । व्याहतकामत्वे च कार्यानुत्पादात् । अव्याहतकामत्वे वा प्रत्येकमीश्वरत्वे एकेनैवेशनायाः कृतत्वादानर्थक्यमितरेषाम् । सम्भूय चेशनायां परिशुद्धो न कश्चिदीश्वरः स्यात् , सिद्धान्तहानिश्च । भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् । तस्मात्कल्पान्तरमास्थेयम् । तत्र चोत्पत्त्यसम्भवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्त्यसम्भवेनापाकरोति

अथायमभिप्राय इति ।

सुगममन्यत् ॥ ४४ ॥

विप्रतिषेधाच्च ।

गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्त्वा पुनरभेदं ब्रूते

आत्मान एवैते भगवन्तो वासुदेवा इति ।

आदिग्रहणेन प्रद्युम्नानिरुद्धयोर्मनोऽहङ्कारलक्षणतयात्मनो भेदमभिधायात्मन एवैत इति तद्विरुद्धाभेदाभिधानमपरं सङ्गृहीतम् । वेदविप्रतिषेधो व्याख्यातः ॥ ४५ ॥

इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥

उत्पत्त्यसंभवात् ॥४२॥ अधिष्ठातैवैश्वर इति मते निरस्ते प्रकृतिरपि स इति मतस्य वेदसंगतार्थत्वाज्जीवोत्पत्तावपि प्रमाणत्वमतो जीवस्वरूपतया बोध्यमानाद् ब्रह्मणो जगत्सर्ग ब्रुवतः समन्वयस्य तेन बाध इति शङ्कानिरासात्संगतिमभिप्रेत्याह –

अन्यत्रेति ।

पञ्चरात्रकर्तुर्वासुदेवस्य वेदादेव सर्वज्ञत्वावगमात् कपिलपतञ्जल्यादीनां च जीवत्वात्पञ्जरात्रस्य च पुराणेषु बुद्धादिदेशनावद्व्यामोहार्थमीश्वरप्रणीतत्वश्रवणान्न योगाद्यधिकरणगतार्थता । अनन्तरसंगतिवशादिह पादेऽस्य लेखः ।

भवतु क्रियाकरणमुत्पाद्यं न तु ज्ञानकरणमित्याशङ्क्याह –

प्रयत्नेति ।

प्रयत्नादीनां करणत्वं विवक्षातः । सिद्धान्तस्तु – बुद्धिपूर्वकृतिः पञ्चरात्रं  निःश्वसितं श्रुतिः । तेन जीवजनिस्तत्र सिद्धा गौणी नियम्यते ॥ यावध्द्येकदेशे वेदाऽविरोधादीश्वरबुद्धेर्वेदमूलत्वं वेदाद्वा सर्वविषयत्वं प्रमीयते , तावदेव स्वतःप्रमाणवेदाज्जीवानुत्पत्तिप्रमितौ तादृग्बुद्धिपूर्वकेश्वरवचनान्न जीवोत्पत्तिरवगन्तुं शक्यते । अतः प्रमाणापहृतविषये गौणं तद्वचनं न तु भ्रान्तम् पूर्वपक्षयुक्तेरिति। संकर्षणसंज्ञो जीवः प्रद्युम्नं जनयितुं करणान्तरवान्न वा । आद्ये तदेव सर्वत्र करणं स्यादिति न प्रद्युम्नः करणं भवेत् ।

द्वितीयं प्रत्याह –

संकर्षणोऽकरण इति ।

करणसामर्थ्य इति ।

इह करणं कृतिः ।

परस्परव्याहतेच्छा इति ।

व्याहतेच्छत्वे ईश्वरत्वव्याघातादित्यर्थः ।

उत्पन्ने हि कार्ये तत्प्रतीश्वरत्वमुत्पत्तिरेव न स्याद् , इत्याह –

व्याहतकामत्वे वेति ।

परिशुद्धं निश्चितम् ।

अनेकेश्वरत्वेऽपसिद्धान्तमाह –

भगवानेवेति ।

व्याख्यातो भाष्ये इति शेषः ॥

इति अष्टममुत्पत्त्यधिकरणम् ॥

इति श्रीपरमहंसपरिव्राजकाचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यायस्य द्वितीयः पादः