भामतीव्याख्या
वेदान्तकल्पतरुः
 

असम्भवस्तु सतोऽनुपपत्तेः ।

ननु “न चास्य कश्चिज्जनिता”(श्वे. उ. ६ । ९) इत्यात्मनः सतोऽकारणत्वश्रुतेः कथमुत्पत्त्याशङ्का । नच वचनमदृष्ट्वा पूर्वः पक्षः इति युक्तम् , अधीतवेदस्य ब्रह्मजिज्ञासाधिकाराददर्शनानुपपत्तेरत आह

वियत्पवनयोरिति ।

यथाहि वियत्पवनयोरमृतत्वानस्तमयत्वश्रुती श्रुत्यन्तरविरोधादापेक्षिकत्वेन नीते । एवमकारणत्वश्रुतिरात्मनोऽग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधात्प्रमाणान्तरविरोधाच्चापेक्षिकत्वेन व्याख्यातव्या । न चात्मनः कारणवत्त्वेऽनवस्था लोहगन्धितामावहत्यनादित्वात्कार्यकारणपरम्पराया इति भावः ।

तथा विकारेभ्य इति ।

प्रमाणान्तरविरोधो दर्शितः । एवं प्राप्त उच्यते सदेकस्वभावस्योत्पत्त्यसम्भवः । कुतः अनुपपत्तेः । सदेकस्वभावं हि ब्रह्म श्रूयते तदसति बाधके नान्यथयितव्यम् । उक्तमेतद्विकाराः सत्त्वेनानुभूता अपि कतिपयकालकलातिक्रमे विनश्यन्तो दृश्यन्त इत्यनिर्वचनीयास्त्रैकाल्यावच्छेदादिति । न चात्मा तादृशस्तस्य श्रुतेरनुभवाद्वा वर्तमानैकस्वभावत्वेन प्रसिद्धेस्तदिदमाह

सन्मात्रं हि ब्रह्मेति ।

एतदुक्तं भवति यत्स्वभावाद्विचलति तदनिर्वचनीयं निर्वचनीयोपादानं युक्तं, न तु विपर्ययः । यथा रज्जूपादानः सर्पो न तु सर्पोपादाना रज्जुरिति । ययोस्तु स्वभावादप्रच्युतिस्तयोर्निर्वचनीययोर्नोपादेयोपादानभावः, यथा रज्जुशुक्तिकयोरिति । नच निरधिष्ठानो विभ्रम इत्याह

नाप्यसत इति ।

नच निरधिष्ठानभ्रमपरम्परानादितेत्याह

मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गादिति ।

पारमार्थिको हि कार्यकारणभावोऽनादिर्नानवस्थया दुष्यति । समारोपस्तु विकारस्य न समारोपितोपादान इत्युपपादितं माध्यमिकमतनिषेधाधिकारे, तदत्र न प्रस्मर्तव्यम् । तस्मान्नासदधिष्ठानविभ्रमसमर्थनानादित्वेनोचितेत्यर्थः । अग्निविस्फुलिङ्गश्रुतिश्चौपाधिकरूपापेक्षया नेतव्या । शेषमतिरोहितार्थम् । ये तु गुणदिक्कालोत्पत्तिविषयमिदमधिकरणं वर्णयाञ्चक्रुस्तैः “सतोऽनुपपत्तेः”(ब्र. सू. २ । ३ । ९) इति क्लेशेन व्याख्येयम् । अविरोधसमर्थनप्रस्तावे चास्य सङ्गतिर्वक्तव्या । अबादिवद्दिक्कालादीनामुत्पत्तिप्रतिपादकवाक्यस्यानवगमात् । तदास्तां तावत् ॥ ९ ॥

असंभवस्तु सतोऽनुपपत्तेः॥९॥ भास्करोक्तं दूषणं शङ्कित्वा भाष्यमवतारयति –

नन्वित्यादिना ।

अग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधादिति। ननु नात्माश्रुतेरित्यधिकरणेऽप्येतच्छ्रुतिबलेन पूर्वपक्षः , सत्यम् ; तत्र हि ब्रह्म नित्यमुपेत्यैव जीवस्य तस्मादुत्पत्तिरेतद्वाक्यबलेन शङ्किष्यतेऽत्र तु यथाग्नेरग्निरेव विस्फुलिङ्ग उत्पद्यते , एवं ब्रह्मान्तराद् ब्रह्मेति शङ्क्यते ।

ननु यद्यात्मा आत्मान्तरं प्रति कारणं , तर्हि तस्याप्यन्य इत्यनवस्थेत्याशङ्क्याऽग्निविस्फुलिङ्गवदनादित्वाददोष इत्याह –

न चेति ।

अपि च विवर्तता हि कार्यता , तत्र ब्रह्म कार्यमिति वदन् प्रष्टव्यः किं ब्रह्म स्वयं सत्यमसत्ये कुत्रचिदध्यस्तम् , उत सत्यान्तरे , किं वा विनैवाधिष्ठानेन स्वयमेवारोपितम् ।

नाद्य इत्याह –

यत्स्वभावाद्विचलतीति ।

न द्वितीय इत्याह –

ययोस्त्विति ।

न तृतीय इत्याह –

न च निरधिष्ठान इति ।

अनादित्वान्नानवस्थादोषमावहतीत्युक्तत्वाद् भाष्यायोगमाशङ्क्याह –

पारमार्थिको हीति ।

भाष्येऽनवस्थाशब्देन प्रमाणाभाव उच्यते । अग्निविस्फुलिङ्गादेर्हिक्वचित्कार्यकारणभावस्य प्रमितत्वात् प्रागप्येविमिति परम्परा स्यादत्र तु विकारस्य सतो ब्रह्मणः समारोपिते क्वचित्समारोपः स्यात्स च न प्रमित इत्यपरिनिष्ठेत्यर्थः । माध्यमिकमतनिषेधप्रस्तावे हि अन्यत्तत्त्वमनधिगम्य  प्रत्यक्षादिप्रमितनिषेधो न  युज्यते , तैरेव विरोधादतः प्रमितः परमार्थ एवाधिष्ठानमिति ह्युपपादितम् ।

असदधिष्ठानेति ।

असच्छब्दोऽपरमार्थवचनः । भास्करस्य भाष्यकारीयमते यदरुचिनिदानं तत्प्रागेव विचिकित्सितम् ।

इदानीं तदुदीरितामधिकरणभङ्गीं भञ्जयति –

ये त्विति ।

क्लेशेनेति ।

सतो विद्यमानस्य गुणादेर्नित्यत्वासंभवः , कुतः ? अद्वितीयश्रुत्यनुपपत्तेरित्यध्याहारः क्लेशः । किंच तैरश्रुतोत्पत्तिकानामनुत्पत्तिशङ्कानिरासोऽधिकरणार्थ इत्युच्यते ।

ततश्च श्रुतिविरोधापरिहारात् पादासंगतिरित्याह –

अविरोधेति ।

यत्तु - केशवेन समादधे पूर्वाधिकरणार्थ एवात्राक्षिप्यते ; श्रुताकाशादिभिरश्रुतदिगादीनां परिसंख्यायां प्रतिज्ञाव्यतिरेकयोर्बाधाद् , अपरिसंख्यायां त्वेकदेशोपादानवैयर्थ्यम् - इति। तन्न ; अनादिपूर्वपक्षा भासोत्प्रेक्षितानुत्पत्तीनामाकाशादीनामुत्पत्त्यभिधानस्य सर्वकार्योपलक्षणार्थत्वादिति॥९॥

इति तृतीयमसंभवाधिकरणम्॥