तेजोऽतस्तथा ह्याह ।
यद्यपि “वायोरग्निः”(तै. उ. २ । १ । १) इत्यपादानपञ्चमी “कारकविभक्तिरुपपदविभक्तेर्बलीयसी” इति नेयमानन्तर्यपरा युक्ता, तथापि बहुश्रुतिविरोधेन दुर्बलाप्युपपदविभक्तिरेवात्रोचिता । ततश्चानन्तर्यदर्शनपरेयं वायोरग्निरिति श्रुतिः । नच साक्षाद्ब्रह्मजत्वसम्भवे तद्वंश्यत्वेन तज्जत्वं परम्परयाश्रयितुं युक्तम् । वाजपेयस्य पशुयूपवदिति प्राप्तम् । एवं प्राप्ते उच्यतेयुक्तं पशुयागवाजपेययोरङ्गाङ्गिनोर्नानात्वात्तत्र साक्षाद्वाजपेयासम्बन्धे क्लेशेन परम्पराश्रयणम् । इह तु वायोर्ब्रह्मविकारस्यापि ब्रह्मणो वस्तुतोऽनन्यत्वाद्वयूपादानत्वे साक्षादेव ब्रह्मोपादानत्वोपपत्तेः कारकविभक्तेर्बलीयस्त्वानुरोधेनोभयथोपपद्यमानाः श्रुतयः कांस्यभोजिन्यायेन नियम्यन्त इति युक्तमिति राद्धान्तः । “पारम्पर्यजत्वेऽपि” इति भेदकल्पनाभिप्रायं यतः पारमार्थिकाभेदमाहवायुभावापन्नं ब्रह्मेति । यथा तस्याः शृतमिति तु दृष्टान्तः परम्परामात्रसाम्येन न तु सर्वथा साम्येनेति सर्वमवदातम् ॥ १० ॥
तेजोऽतस्तथा ह्याह॥१०॥ अध्यस्तस्याधिष्ठानत्वायोगान्न ब्रह्मणः कुतश्चित्संभव इत्युक्तं , तर्हि वायोरप्यध्यस्तत्वान्न तेजसस्ततो जन्म , किंतु ब्रह्मण एवेति प्रत्यवस्थानात्संगति। अत्र पूर्वपक्षसम्भावनार्थं भाष्यं वायोरग्निरिति क्रमोपदेशो वायोरनन्तरमग्निः संभूत इति ।
तदनुपपन्नम् , वायोरनन्तरमिति दिग्योगार्थपञ्चम्या अनन्तरमित्युपपदसापेक्षत्वात् , अपादानपञ्चम्या निरपेक्षत्वाद् , वायोरेव तेजःप्रत्युपादानत्वप्रतीतेरित्याशङ्क्याह –
यद्यपीति ।
बहुश्रुतयस्तत्तेज इत्याद्यास्ता हि ब्रह्मजत्वं तेजसोऽभिवदन्त्यो वायुजत्वे विरुध्येरन्निति।
ननु श्रुतयः परम्परया ब्रह्मजत्वेऽपि योक्ष्ययन्तेऽत आह –
न चेति ।
पारम्पर्यसंबन्धिदृष्टान्तमाह –
वाजपेयस्येति ।
वाजपेयस्य यूप इतिवद् यत्परम्परया तज्जत्वं तत्साक्षाद् ब्रह्मजत्वसंभवे सति न युक्तमिति योजना । शेषलक्षणे स्थितम् – आनर्थक्यात्तदङ्गेषु (जै.अ.३.पा.१.सू.१८) । सप्तदशारत्निर्वाजपेयस्य यूप इति श्रूयते । तत्र न तावद्यो वाजपेयस्य यूपः स सप्तदशारत्निरिति विधीयते ; विशिष्टोद्देशेन वाक्यभेदप्रसङ्गात् । तत्रान्यतरोद्देशे किं वाजपेयोद्देशेन सप्तदशारत्नित्वं विधीयते , उत यूपोद्देशेनेति संशयेऽनन्तरदृष्टत्वात्प्रधानत्वात्प्रकरणित्वाच्च वाजपेय उद्देश्यः , तस्य च साक्षात्सप्तदशारत्नित्वासंभवे तदीयषोडश्याख्योर्ध्वपात्रोपलक्षणार्थो यूपशब्द इति प्राप्ते सिद्धान्तः । यूप उद्देश्यः । एवं हि यूपशब्दो मुख्यार्थः स्यान्न च वाजपेयस्येति गौणता ; व्यवहितसंबन्धेऽपि षष्ठ्या मुख्यत्वाच्चैत्रस्य नप्तेतिवत् । तस्माद्वाजपेये यूपाभावात्तदङ्गगतयूपे सप्तदशारत्निता विधीयते इति। पशुयागसंबन्धिनो यूपस्य साक्षाद्वाजपेयसंबन्धो न संभवति ; वाजपेयपशुयागयोरङ्गाङ्गित्वेन विरुद्धधर्माध्यासेन भेदात् । तत्र वाजपेयस्येति षष्ठी परम्परासंबन्धमाश्रयेत् । अत्र तु वायोरिति श्रुत्या वायूपादानत्वे तेजसोऽभिहितेऽपि न ब्रह्मजत्वश्रुतिभिः पारम्पर्यमवलम्ब्यम् ।
ब्रह्मवाय्वोरभेदेन वायुजस्यापि ब्रह्मजत्वोपपत्तेरित्याह –
युक्तमित्यादिना ।
वायोर्ब्रह्मविकारस्य यद्यपि ब्रह्मणः सकाशात् काल्पनिको भेदः ; तथापि वास्तवाभेदादव्यवधानमित्याह –
ब्रह्मविकारस्यापीति ।
यदुक्तं बह्विभिर्ब्रह्मजत्वश्रुतिभिः कारकविभक्तेर्बाध इति , तदप्येवं सत्यपास्तमित्याह –
उभयथेति ।
वायुभावापन्नब्रह्मजत्वे केवलब्रह्मजत्वेऽपीत्यर्थः । यद्यप्येकाकिनी कारकविभक्तिस्तास्तु बह्व्यः ; तथापि तासां वायुभावापन्नब्रह्मजत्वेऽपि तेजसो न विरोध इति पञ्चम्यनुग्रहाय तत्रैव नियम्यन्त इति भावः । एवंच कल्पितस्य वायोरधिष्ठानत्वायोग इति परास्तम् ; तद्भावापन्नब्रह्मणः परमार्थत्वादिति।
कांस्यभोजिवदिति ।
लोके कस्यचिच्छिष्यस्य कांस्यभोजित्वं नियतम् , उपाद्यायस्य त्वनियतपात्रभोजित्वम् , तत्र यदि तयोः कुतश्चिन्निमित्तादेकस्मिन्पात्रे भोजनं प्राप्नुयात् , तदानीममुख्यस्यापि शिष्यस्य धर्माऽबाधायोपाध्यायोऽपि कांस्यभोजित्वेनैव नियम्यत इति।
अव्यवधानस्य समर्थितत्वाद् भाष्यायोगमाशङ्क्याह –
भेदकल्पनेति ।
काल्पनिकं वायुब्रह्मभेदमाश्रित्य पारम्पर्यवाद इत्यर्थः ।
न तु सर्वथेति ।
शृतस्य दुग्धस्य धेन्वाश्च वायुब्रह्मणोरिवाभेदाभावादित्यर्थः॥१०॥