आपः ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ ११ ॥
आपः॥११॥ अतिदेशोऽयम् । ‘एतस्माज्जायत’ इत्युपक्रम्य ‘ खं वायुर्ज्योतिराप’ इति श्रूयते । अग्नेराप इति च । अतश्चापः किं सतो जायन्ते उत तेजस इति संशयादि पूर्ववत् । अपामग्निदाह्यत्वादग्नेरुत्पत्त्ययोगादग्नेरापस्तत्तेजोऽपोऽसृजतेति च गौण्यौ श्रुती इति शङ्काऽत्र निवर्त्यते । अत्रिवृत्कृताऽप्तेजसोरविरुद्धत्वादिति ॥११॥