भामतीव्याख्या
वेदान्तकल्पतरुः
 

तदभिध्यानादेव तु तल्लिङ्गात्सः ।

सृष्टिक्रमे भूतानामविरोध उक्तः । इदानीमाकाशादिभूताधिष्ठात्र्यो देवताः किं स्वतन्त्रा एवोत्तरोत्तरभूतसर्गे प्रवर्तन्त उत परमेश्वराधिष्ठिताः परतन्त्रा इति । तत्र “आकाशाद्वायुर्वायुरग्निः”(तै. उ. २ । १ । १) इति स्ववाक्ये निरपेक्षाणां श्रुतेः स्वयञ्चेतनानां च चेतनान्तरापेक्षायां प्रमाणाभावात् , प्रस्तावस्य च लिङ्गस्य च पारम्पर्येणापि मूलाकारणस्य ब्रह्मण उपपत्तेः, स्वतन्त्राणामेवाकाशादीनां वाय्वादिकारणत्वमिति जगतो ब्रह्मयोनित्वव्याघात इति प्राप्तम् । एवं प्राप्तेऽभिधीयते “आकाशाद्वायुः”(तै. उ. २ । १ । १) इत्यादय आकाशादीनां केवलमुपादानभावमाचक्षते, न पुनः स्वातन्त्र्येणाधिष्ठातृत्वम् । नच चेतनानां स्वकार्यस्वातन्त्र्यमित्येतदप्यैकान्तिकं परतन्त्राणामपि तेषां बहुलमुपलब्धेर्भृत्यान्तेवास्यादिवत् । तस्माल्लिङ्गप्रस्तावसामञ्जस्याय स ईश्वर एव तेन तेनाकाशादिभावेनोपादानभावेनावतिष्ठमानः स्वयमधिष्ठाय निमित्तकारणभूतस्तं तं विकारं वाय्वादिकं सृजतीति युक्तम् । इतरथा लिङ्गप्रस्तावौ क्लेशितौ स्यातामिति ।

परमेश्वरावेशवशादिति ।

परमेश्वर एवान्तर्यामिभावेनाविष्ट ईक्षिता, तस्मात्सर्वस्य कार्यजातस्य साक्षात्परमेश्वर एवाधिष्ठाता निमित्तकारणं न त्वाकाशादिभावमापन्नः । आकाशादिभावमापन्नस्तूपादानमिति सिद्धम् ॥ १३ ॥

तदभिध्यानादेव तु तल्लिङ्गात्सः॥१३॥ ननु न तावदिह भूतानां ब्रह्माधिष्ठितानां स्रष्टृत्वाभावश्चिन्त्यते ; ईक्षत्याद्यधिकरणै (ब्र.अ.१.पा.१.सू.५) र्गतत्वात् । नापि ब्रह्मण एव तत्तद्भूतात्मनाऽवस्थितस्योत्तरकार्योपादानत्वम् ; तेजोऽत (ब्र.अ.२.पा.३.सू.१०) इत्यत्र तन्निर्णयात् । अतोऽधिकरणानारम्भ इत्याशङ्कामपनयन् सङ्गतिमाह –

सृष्टिक्रम इति ।

पूर्वपक्षमाह –

तत्राकाशाद्वायुरिति ।

यद्यपि परात्तु तच्छ्रुते (ब्र.अ.२.पा.३.सू.४१) रित्यत्र जीवकर्तृत्वमीश्वराधीनमिति वक्ष्यते ; तथापीह देवतानामैश्वर्ययोगात्स्वातन्त्र्यमाशङ्क्यते । न च देवतानामपीश्वराधीनत्वेऽत्र सिद्धे कैमुतिकन्यायाज्जीवमात्रेष्वपि तत्सिद्धेस्तदधिकरणानारम्भः शङ्क्यः ; सत्यपि देवतानां महाभूतसृष्टावीश्वरपारतन्त्र्ये विहितक्रियाकर्तृत्वादौ क्षुद्रे जीवमात्रस्यापि स्वातन्त्र्यशङ्कोदयसंभवादिति। अत्राकाशादिशब्दैराकाशाद्यभिमानिन्यो देवता विवक्षिताः , मनुष्यादिशब्दैरिवजीवाः । पञ्चम्यश्च निमित्तार्थाः । एतदुक्तं भवति – यथाऽऽकाशाद्यात्मनेश्वरो वाय्वाद्युपादानमेवं तदभिमानिदेवतात्मनाऽधिष्ठातेति। भूतानामपि चेतनत्वश्रवणादिति भाष्यं भूताभिमानिदेवताभिप्रायम् ।

ननु सोऽकामयतेति परमेश्वरप्रस्तावं कृत्वा तद्ब्रह्मात्मानं स्वयमकुरुतेति कर्तृत्वं श्रूयते , यः पृथिव्यां तिष्ठन् यमयतीति चेश्वरस्य नियन्तृत्वलिङ्गमस्ति , तत्कथं देवतानां स्वातन्त्र्येण कार्यनियन्तृत्वमत आह –

प्रस्तावस्य चेति ।

मूलकारणस्य च ब्रह्मणः प्रस्तावलिङ्गद्योतितसर्वनियन्तृत्वस्य पारम्पर्येणाभिमानिदेवताद्वारेणोपपत्तेरित्यर्थः ।

ब्रह्मयोनित्वेति ।

योनिशब्दो निमित्तार्थः । आकाशादिशब्दैर्न देवतालक्षणा ; मुख्यार्थबाधाभावात् ।

पञ्चम्यश्चापादानार्थस्तत्र रूढतरत्वादित्याह –

आकाशादीनामिति ।

देवतालक्षणमङ्गीकृत्याप्याह –

न च चेतनानामिति ।

भाष्ये तेन तेनात्मनाऽवतिष्ठमानत्वम् इति भूतात्मतामापन्नस्योपादानत्वमुक्तमिति भ्रममपनुदति –

स्वयमधिष्ठायेति ।

तत्र चान्यत्र चानुगतकारणरूपेणावस्थानं तदात्मनाऽवस्थानं , न तु तदात्मत्वेनैव परिसमाप्तिः ।

भाष्ये परमेश्वरावेशो जीवापत्तिरिति भ्रान्ति निरस्यति –

अन्तर्यामिभावेनेति ॥१३॥

इति सप्तमं तदभिध्यानाधिकरणम्॥