भामतीव्याख्या
वेदान्तकल्पतरुः
 

विपर्ययेण तु क्रमोऽत उपपद्यते च ।

उत्पत्तौ महाभूतानां क्रमः श्रुतो नाप्ययेऽप्ययमात्रस्य श्रुतत्वात् । तत्र नियमे सम्भवति नानियमः । व्यवस्थारहितो हि सः । नच व्यवस्थायां सत्यामव्यवस्था युज्यते । तत्र क्रमभेदापेक्षायां किं दृष्टोऽप्ययक्रमो घटादीनां महाभूताप्ययक्रमनियामकोऽस्त्वाहो श्रौत उत्पत्तिक्रम इति विशये श्रौतस्य श्रौतान्तरमभ्यर्हितं समानजातीयतया तस्यैव बुद्धिसांनिध्यात् । न दृष्टं, विरुद्धजातीयत्वात् । तस्माच्छ्रौतेनैवोत्पत्तिक्रमेणाप्ययक्रमो नियम्यत इति प्राप्त उच्यते अप्ययस्य क्रमापेक्षायां खलूत्पत्तिक्रमो नियामको भवेत् , न त्वस्त्यप्ययस्य क्रमापेक्षा, दृष्टानुमानोपनीतेन क्रमभेदेन श्रुत्यनुसारिणोऽप्ययक्रमस्य बाध्यमानत्वात् । तस्मिन् हि सत्युपादानोपरमेऽप्युपादेयमस्तीति स्यात् । न चैतदस्ति । तस्मात् । तद्विरुद्धदृष्टक्रमावरोधादाकाङ्क्षैव नास्ति क्रमान्तरं प्रत्ययोग्यत्वात्तस्य । तदिदमुक्तं सूत्रकृता “उपपद्यते”। भाष्यकारोऽप्याह

न चासावयोग्यत्वाप्ययेनाकाङ्क्ष्यत इति ।

तस्मादुत्पत्तिक्रमाद्विपरीतः क्रम इत्येतन्न्यायमूला च स्मृतिरुक्ता ॥ १४ ॥

विपर्ययेण तु क्रमोऽत उपपद्यते च॥१४॥ यद्यप्यत्र श्रुतिविप्रतिषेधो न परिह्रियते ; तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यो पादावान्तरसङ्गती । भास्करेण सिद्धान्ते स्थित्वाऽन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छेत्यत्र लयेऽपि भूतानां क्रमः श्रुत इत्युक्तं , तदयुक्तमित्याह –

नाप्यय इति ।

तत्र हि कार्येण कारणमनुमाप्यते , न लयोऽभिधीयत इति।

यत्तु यत्प्रयन्त्यभिसंविशन्तीति , तत्र लयमात्रमुक्तं न क्रम इत्याह –

अप्ययमात्रस्येति ।

यच्च भास्करेणाऽनियमः पूर्वपक्ष इत्युक्तं , तदप्ययुक्तमित्याह –

तत्रेति ।

श्रुतोत्पत्तिक्रमादेव नियमे सति नानियम इत्यर्थः । यत्तु - केशवेनोक्तम् अयोग्य उत्पत्तिक्रमो नाप्यये भवितुमर्हति , न हि नष्टेषु तन्तुषु पटस्तिष्ठन् दृष्टः - इति , तदयुक्तम् ; अनियमेऽपि पाक्षिकस्यायोग्यत्वस्यापरिहारात् । तत्र तदपि स्वीकृत्याव्यवस्थितपक्षाभ्युपगमाद्वरं व्यवस्थितोत्पत्तिक्रमाश्रयणम् । भाष्यकारस्त्वनियतपक्षमुपक्रममात्रमुक्तवानिति।

घटादीनां दृष्टोऽप्ययक्रमो विपरीतः , स भूतानां किमस्त्वित्याह –

किं दृष्ट इति ।

सन्निधानेप्युत्पत्तिक्रमस्यानाकाङ्क्षितत्वान्नाप्ययसबन्ध इत्याह –

अप्ययस्येति ।

न च विपरीतक्रमस्यासन्निधानं , प्रमाणेन सन्निधापितत्वादित्याह –

दृष्टेति ।

घटादौ दृष्टेनात्राप्यनुमानोपनीतेनेत्यर्थः ।

श्रुत्यनुसारिणोऽप्ययक्रमस्येति ।

उत्पत्तौ श्रुतस्याप्ययेऽपि संगमयितुं त्वयेष्यमाणस्येत्यर्थः । लोकदृष्टपदार्थबोधाधीना हि श्रुतिरतः श्रुतिसन्निहितादपि लौकिकः क्रमः सन्निहिततर इति तेन तद्बाधनं युक्तम् ।

दृष्टेन क्रमेण श्रौतबाधे हेत्वन्तरं चाह –

तस्मिन् हि सतीति ।

अनाकाङ्क्षामुपसंहरति –

तद्विरुद्धेति ।

तस्योपादानोपरमेऽपि कार्यसत्तापादकस्योत्पत्तिक्रमस्य विरुद्धो यो विपरीतक्रमस्तस्यावरोधात्संबन्धादित्यर्थः ।

ननु विपरीतक्रमे श्रुत्यभावाद् भाष्योक्तजगत्प्रतिष्ठेत्याद्या स्मृतिर्निर्मूलेत्यत आह –

एतन्न्यायमूलेति ।

उपादानलये कार्यस्थित्ययोगो न्यायः॥१४॥

इत्यष्टमं विपर्ययाधिकरणम्॥