अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।
तदेवं भावनोपयोगिनौ भूतानामुत्पत्तिप्रलयौ विचार्य बुद्धीन्द्रियमनसां क्रमं विचारयति । अत्र च विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानशब्देनेन्द्रियाणि च बुद्धिं च ब्रूते । तत्रैतेषां क्रमापेक्षायामात्मानं च भूतानि चान्तरा समाम्नानात्तेनैव पाठेन क्रमो नियम्यते । तस्मात्पूर्वोत्पत्तिक्रमभङ्गप्रसङ्गः । यत आत्मनः करणानि करणेभ्यश्च भूतानीति प्रतीयते, तस्मादात्मन आकाश इति भज्यते । अन्नमयमिति च मयडानन्दमय इतिवत्न विकारार्थ इति प्राप्तेऽभिधीयते विभक्तत्वात्तावन्मनःप्रभृतीनां कारणापेक्षायामन्नमयं मन इत्यादिलिङ्गश्रवणादपेक्षितार्थकथनाय विकारार्थत्वमेव मयटो युक्तम् , इतरथा त्वनपेक्षितमुक्तं भवेत् । नच तदपि घटते । नह्यन्नमयो यज्ञ इतिवदन्नप्राचुर्यं मनसः सम्भवति । एवं चोद्भूतविकारा मन आदयो भूतानां परस्तादुत्पद्यन्त इति युक्तम् । प्रौढवादितयाभ्युपेत्याह
अथ त्वभौतिकानीति ।
भवत्वात्मन एव करणानामुत्पत्तिः, न खल्वेतावता भूतैरात्मनो नोत्पत्तव्यम् । तथाच नोक्तक्रमभङ्गप्रसङ्गः । विशिष्यते भिद्यते । भज्यत इति यावत् ॥ १५ ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥१५॥ संगतिमाह –
तदेवमिति ।
भावनोपयोगिनाविति ।
पूर्वाधिकरणानां प्रयोजनोक्तिः । भूतोत्पत्तिलयशीलनं ह्यद्वैतब्रह्मध्यानोपयोगीति बुद्ध्याद्युत्पत्तिक्रमविचारोऽपि तत्फल एव ।
ननु सूत्रे विज्ञानशब्दप्रयोगात्तस्य च बुद्धिवृत्तौ प्रसिद्धेः कथं बुद्धीन्द्रियाणामुत्पत्तिचिन्ता ? अत आह –
अत्रेति ।
निश्चयवती बुद्धिः संशयादिमन्मतनः इति तद्भेदः ।
चेदित्यन्तस्य योजनया पूर्वपक्षमाह –
तत्रैतेषामिति ।
आत्मानं भूतानीति च द्वितीये ; ‘‘अन्तरान्तरेण युक्ते’’ इति षष्ठ्यर्थे सामाम्नानात् । एतस्माज्जायत इति वाक्ये इत्यर्थः ।
श्रुतिविरोधपरिहारेण चिन्तां संगमयति –
तस्मात्पूर्वेति ।
ननु यदि साक्षादात्मकार्याणीन्द्रियाणि , कथं तर्ह्यन्नादिमयत्वं मन आदीनामाम्नायतेऽत आह –
अन्नमयमिति चेति ।
प्राचुर्यार्थो मयद प्राचुर्यं चान्नात्मकशरीरेण मनआदेरवच्छेदादित्यर्थः ।
अन्नमयमित्यादिलिङ्गश्रवणादिति ।
अन्नमशितं त्रेधा विधीयत इति आध्यात्मिकत्रिवृत्करणपरे वाक्ये मनसोऽन्नमयत्वेन निर्देशो लिङ्गदर्शनमिति ।
इतरथा त्विति ।
प्राचुर्यार्थत्वेऽनपेक्षितं प्राचुर्यमुक्तं भवेदित्यर्थः ।
न च तदपीति ।
प्राचुर्यमित्यर्थः । अन्नकार्यत्वं तु मनसो घटते ; अन्नोपयोगे मनोविवृद्धेः श्रुत्यैव दर्शितत्वादिति। भूतानां मध्ये आकाशः प्रथमं जायत इत्युक्तक्रमः॥१५॥