भामतीव्याख्या
वेदान्तकल्पतरुः
 

चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ।

देवदत्तादिनामधेयं तावज्जीवात्मनो न शरीरस्य, तन्नाम्ने शरीराय श्राद्धादिकरणानुपपत्तेः । तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यत्वं मन्वानस्य पूर्वः पक्षः, मुख्यत्वे शास्त्रोक्तामुष्मिकस्वर्गादिफलसम्बन्धानुपपत्तेः शास्त्रविरोधाल्लौकिकव्यपदेशो भाक्तो व्याख्येयः । भक्तिश्च शरीरस्योत्पादविनाशौ ततस्तत्संयोग इति । जातकर्मादि च गर्भबीजसमुद्भवजीवपापप्रक्षयार्थं, न तु जीवजन्मजपापक्षयार्थम् । अत एव स्मरन्ति “एवमेनः शमं याति बीजगर्भसमुद्भवम्” इति । तस्मान्न शरीरोत्पत्तिविनाशाभ्यां जीवजन्मविनाशाविति सिद्धम् । एतच्च लौकिकव्यपदेशस्याभ्रान्तिमूलत्वमभ्युपेत्याधिकरणम् । उक्ता त्वध्यासभाष्येऽस्य भ्रान्तिमूलतेति ॥ १६ ॥

चराचरव्यापाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्॥१६॥ एवं तावत्तत्पदवाच्यकारणत्वनिर्णयाय भूतोत्पत्तिश्रुतिविरोधो निरस्तः । इदानीमापादसमाप्तेस्त्वंपदार्थशुध्द्यै जीवविषयश्रुतिकलहो वारयिष्यते । यदीन्द्रियोत्पत्तिर्न भूतोत्पत्तिक्रममन्यथयति , तर्हि जीवोत्पत्तिस्तमन्यथयेदिति शङ्कायां सैव नास्ति , कुतः कलहः ? इति प्रतिपादनादवान्तरसंगतिः । इह जीवजनननिधननिमित्तश्राद्धवैश्वानरीयेष्ठ्यादिशास्त्राणां च जीवनित्यत्वशास्त्राणां चाविरोधः साध्यते । देवदत्तादिनाम्नो देहवाचकत्वात्कथं भाष्ये जातो देवदत्त इत्यादिव्यपदेशाजजीवजन्मशङ्काऽत आह –

देवदत्तादीति ।

तन्मृत इति ।

तदिति तस्मादर्थे ।

देहेन सहात्मनाशे श्राद्धादिविधिवैयर्थ्यात् स्थाय्यात्मेति सिद्धान्तयति –

मुख्यत्व इति ।

भक्तिर्गुणयोगः तत्संयोग इत्यन्वयः । शरीरोत्पादविनाशौ स्त इति शेषः॥

इति दशमं चराचरव्यपाश्रयाधिकरणम्॥