भामतीव्याख्या
वेदान्तकल्पतरुः
 

ज्ञोऽत एव ।

कर्मणा हि जानात्यर्थो व्याप्तस्तदभावे न भवति धूम इव धूमध्वजाभावे, सुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्तद्व्याप्यस्य ज्ञानस्याभावः । तथाच नात्मस्वभावश्चैतन्यं तदनुवृत्तावपि चैतन्यस्य व्यावृत्तेः । तस्मादिन्द्रियादिभावाभावानुविधानात्ज्ञानभावाभावयोरिन्द्रियादिसंनिकर्षाधेयमागन्तुकमस्य चैतन्यं धर्मो न स्वाभाविकः । अत एवेन्द्रियादीनामर्थवत्त्वम् , इतरथा वैयर्थ्यमिन्द्रियाणां भवेत् । नित्यचैतन्यश्रुतयश्च शक्त्यभिप्रायेण व्याख्येयाः । अस्ति हि ज्ञानोत्पादनशक्तिर्निजा जीवानां, न तु व्योम्न इवेन्द्रियादिसन्निकर्षेऽप्येषा ज्ञानं न भवतीति । तस्माज्जडा एव जीवा इति प्राप्तेऽभिधीयतेयदागन्तुकज्ञानं जडस्वभावं तत्कदाचित्परोक्षं कदाचित्सन्दिग्धं कदाचिद्विपर्यस्तं, यथा घटादि, न चैवमात्मा । तथाहि अनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविकः, सन्दिहानोऽप्यसन्दिग्धः, विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा । तथाच तत्स्वभावः । नच तत्स्वभावस्य चैतन्यस्याभावः, तस्य नित्यत्वात् । तस्माद्वृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादौ निवर्तन्ते । तेन चैतन्यमात्मस्वभाव इति सिद्धम् । तथाच नित्यचैतन्यवादिन्यः श्रुतयो न कथञ्चित्क्लेशेन व्याख्यातव्या भवन्ति । गन्धादिविषयवृत्त्युपजने चेन्द्रियाणामर्थवत्तेति सर्वमवदातम् ॥ १८ ॥

ज्ञोऽत एव॥१८॥ आत्मैवास्य ज्योतिरित्यादिश्रुतीनां पश्यंश्चक्षुः शृण्वन् श्रोत्रमित्यादिश्रुतिभिर्जीवस्यागन्तुकज्ञानत्ववादिनीभिर्विरोधः परिह्रियते । प्रागुक्तजीवानुत्पत्तिहेतुम् उपादाय स्वप्रकाशत्वसाधनात् संगतिः सूत्रभाष्ययोरेव स्पष्टा । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्र स्वप्रकाशता । न चैवं गतार्थत्वम् ; अनुत्पन्नस्यापि जीवस्यानित्यज्ञानत्वश्रुतिवशाद् ब्रह्मान्यत्वशङ्कोपपत्तेर्ब्रह्मैक्ययोग्यत्वाय जीवस्येह स्वप्रकाशत्वं समर्थ्यते । उत्तरेण स्वाभाविकाणुत्वनिरासेन वस्तुतो महत्परिमाणं चैतन्यादीषद्बहिष्ठं साधयिष्यते । ततोऽधिकरणत्रयेण ततोऽपि बहिष्ठं कर्तृत्वं बुद्धिकर्तृत्वव्यावर्तनेनाऽऽत्मनाध्यस्तमुपपादयिष्यते । एवं ज्ञानयोग्यत्वस्य जीवस्य ब्रह्मणैक्यम् अश (ब्र.अ.२.पा.३.सू.४३) इत्यत्र वक्ष्यते । इत्यापादसमाप्ति संगतयः । अनित्यज्ञानत्वे युक्तिमप्याह –

कर्मणा हीत्यादिना ।

यदि जीवानां स्वभाविकी ज्ञानशक्तिर्न स्यात् , तर्हि इन्द्रियादिसन्निकर्षेऽपि न जानीरन्नाकाशवन्न चैवमित्याह –

न तु व्योम्न इवेति ।

ननु जीवस्वरूपेऽस्ति विशेषः , शक्तावपि तुल्यमिति चेद् , न ; कार्यनियमाय शक्तेः पितृत्वादिवदसादारण्यकल्पनादित्यर्थः । व्यतिरेकव्याप्तिपूर्वकमात्मस्वप्रकाशत्वेऽनुमानमाह –

यदागन्तुकज्ञानमित्यादिना ।

व्याख्याता एते ग्रन्था बौद्धाधिकरणे ।

यदुक्तमसति कर्मणि न चैतन्यमिति तत्राह –

तस्माद् वृत्तय इति ।

अत एव पश्यंश्चक्षुरित्यादिषु श्रुतयो दत्तविषयाः॥१८॥

इति द्वादशं ज्ञाधिकरणम्॥