भामतीव्याख्या
वेदान्तकल्पतरुः
 

उत्क्रान्तिगत्यागतीनाम् ।

यद्यप्यविकृतस्यैव परमात्मनो जीवभावस्तथा चानणुपरिमाणत्वं, तथाप्युत्क्रान्तिगत्यागतीनां श्रुतेश्च साक्षादणुपरिमाणश्रवणस्य चाविरोधार्थमिदमधिकरणमित्याक्षेपसमाधानाभ्यामाह

ननु चेति ।

पूर्वपक्षं गृह्णाति

तत्र प्राप्तं तावदिति ।

विभागसंयोगोत्पादौ हि तूत्क्रान्त्यादीनां फलम् । नच सर्वगतस्य तौ स्तः । सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसम्भावादिति ॥ १९ ॥

स्वात्मना चोत्तरयोः ।

उत्क्रमणं हि मरणे निरूढम् । तच्चाचलतोऽपि तत्र सतो देहस्वाम्यनिवृत्त्योपपद्यते न तु गत्यागती । तयोश्चलने निरूढयोः कर्तृस्थभावयोर्व्यापिन्यसम्भवादिति मध्यमं परिमाणं महत्त्वं शरीरस्यैव । तच्चार्हतपरीक्षायां प्रत्युक्तम् । गत्यागती च परममहति न सम्भवतोऽतः पारिशेष्यादणुत्वसिद्धिः । गत्यागतिभ्यां च प्रादेशिकत्वसिद्धौ मरणमपि देहादपसर्पणमेव जीवस्य न तु तत्र सतः स्वाम्यनिवृत्तिमात्रमिति सिद्धमित्याह

सत्योश्च गत्यागत्योरिति ।

इतश्च देहादपसर्पणमेव जीवस्य मरणमित्याह

देहप्रदेशानामिति ।

तस्माद्गत्यागत्यपेक्षोत्क्रान्तिरपि सापादानाणुत्वसाधनमित्यर्थः । न केवलमपादानश्रुतेः, तच्छरीरप्रदेशगन्तव्यत्वश्रुतेरप्येवमेवेत्याह

स एतास्तेजोमात्रा इति ॥ २० ॥

नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ।

यत उत्क्रान्त्यादिश्रुतिभिर्जीवानामणुत्वं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तद्विकारतया भेदः । तथाच महत्त्वानन्त्यादिश्रुतयः परमात्मविषया न जीवविषया इत्यविरोध इत्यर्थः । यदि जीवा अणवस्ततो “योऽयं विज्ञानमयः प्राणेषु” (बृ. उ. ४ । ३ । ७) इति कथं शारीरो महत्त्वसम्बन्धित्वेन प्रतिनिर्दिश्यते इति चोदयति

नन्विति ।

परिहरति

शास्त्रदृष्ट्या

पारमार्थिकदृष्ट्या निर्देशो वामदेववत् । यथा हि गर्भस्थ एव वामदेवो जीवः परमार्थदृष्ट्यात्मनो ब्रह्मत्वं प्रतिपेदे, एवं विकाराणां प्रकृतेर्वास्तवादभेदात्तत्परिमाणत्वव्यपदेश इत्यर्थः ॥ २१ ॥

स्वशब्दोन्मानाभ्यां च ।

स्वशब्दं विभजते

साक्षादेवेति ।

उन्मानं विभजते

तथोन्मानमपीति ।

उद्धृत्य मानमुन्मानं बालाग्रादुद्धृतः शततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति तदिदमुन्मानम् । आराग्रादुद्धृतं मानमाराग्रमात्रमिति ॥ २२ ॥

सूत्रान्तरमवतारयितुं चोदयति

नन्वणुत्वे सतीति ।

अणुरात्मा न शरीरव्यापीति न सर्वाङ्गीणशैत्योपलब्धिः स्यादित्यर्थः ।

अविरोधश्चन्दनवत् ।

त्वक्संयुक्तो हि जीवः त्वक्च सकलशरीरव्यापिनीति त्वग्व्याप्यात्मसम्बन्धः सकलशैत्योपलब्धौ समर्थ इत्यर्थः ॥ २३ ॥

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ।

चन्दनबिन्दोः प्रत्यक्षतोऽल्पीयस्त्वं बुद्ध्वा युक्ता कल्पना भवति, यस्य तु सन्दिग्धमणुत्वं सर्वाङ्गीणं च कार्यमुपलभ्यते तस्य व्यापित्वमौत्सर्गिकमपहाय नेयं कल्पनावकाशं लभत इति शङ्कार्थः । नच हरिचन्दनबिन्दुदृष्टान्तेनाणत्वानुमानं जीवस्य, प्रतिदृष्टान्तसम्भवेनानैकान्तिकत्वादित्याह

न चात्रानुमानमिति ।

शङ्कामिमामपाकरोति

अत्रोच्यत इति ।

यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्धमात्मनस्तथापि वैभवाच्छ्रुत्यन्तरमुपन्यस्तम् ॥ २४ ॥

गुणाद्वा लोकवत् ।

ये तु सावयवत्वाच्चन्दनबिन्दोरणुसञ्चारेण देहव्याप्तिरुपपद्यते न त्वात्मनोऽनवयवस्याणुसञ्चारः सम्भवी, तस्माद्वैषम्यमिति मन्यन्ते तान् प्रतीदमुच्यते गुणाद्वा लोकवदिति । तद्विभजते

चैतन्य इति ।

यद्यप्यणुर्जीवस्तथापि तद्गुणश्चैतन्यं सकलदेहव्यापि । यथा प्रदीपस्याल्पत्वेऽपि तद्गुणः प्रभासकलगृहोदरव्यापिनीति ॥ २५ ॥

एतदपि शङ्काद्वारेण दूषयित्वा दृष्टान्तान्तरमाह

व्यतिरेको गन्धवत् ।

अक्षीयमाणमपि तदिति ।

क्षयस्यातिसूक्ष्मतयानुपलभ्यमानक्षयमिति शङ्कते

स्यादेतदिति ।

विश्लिष्टानामल्पत्वादित्युपलक्षणं, द्रव्यान्तरपरमाणूनामनुप्रवेशादित्यपि द्रष्टव्यम् । विश्लेषानुप्रवेशाभ्यां च सन्नपि विश्लेषः सूक्ष्मत्वान्नोपलक्ष्यते इति । निराकरोति

न ।

कुतः ।

अतीन्द्रियत्वादिति ।

परमाणूनां परमसूक्ष्मत्वात्तद्गतरूपादिवद्गन्धोऽपि नोपलभ्येत । उपलभ्यमानो वा सूक्ष्म उपलभ्येत न स्थूल इत्यर्थः । शेषमतिरोहितार्थम् ॥ २६ ॥

तथा च दर्शयति । ॥ २७ ॥

पृथगुपदेशात् ।

निगदव्याख्यातमस्य भाष्यम् ॥ २८ ॥

तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ।

कण्टकतोदनेऽपीति ।

महदल्पयोः संयोगोऽल्पमवरुणद्धि न महान्तं, न जातु घटकरकादिसंयोगा नभसो नभो व्यश्नुवतेऽपित्वल्पानेव घटकरकादीन् , इतरथा यत्र नभस्तत्र सर्वत्र घटकरकाद्युपलम्भ इति, तेऽपि नभःपरिमाणाः प्रसज्येरन्निति । न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते । यद्यप्यन्तःकरणमणु तथापि तस्य त्वचा सम्बद्धत्वात्त्वचश्च समस्तशरीरव्यापित्वादेकदेशेऽप्यधिष्ठिता त्वगधिष्ठितैवेति शरीरव्यापी जीवः शक्नोति सर्वाङ्गीणं शैत्यमनुभवितुं त्वगिन्द्रियेण गङ्गायाम् । अणुस्तु जीवो यत्रास्ति तस्मिन्नेव शरीरप्रदेशे तदनुभवेन्न सर्वाङ्गीणं, तस्यासर्वाङ्गीणत्वात् । कण्टकतोदनस्य तु प्रादेशिकतया न सर्वाङ्गीणोपलब्धिरिति वैषम्यम् ।

गुणत्वमेव हीति ।

इदमेव हि गुणानां गुणत्वं यद्द्रव्यदेशत्वम् । अत एव हि हेमन्ते विषक्तावयवाप्यद्रव्यगतेऽतिसान्द्रे शीतस्पर्शेऽनुभूयमानेप्यनुद्भूतं रूपं नोपलभ्यते यथा, तथा मृगमदादीनां गन्धवाहविप्रकीर्णसूक्ष्मावयवानामतिसान्द्रे गन्धेऽनुभूयमाने रूपस्पर्शौ नानुभूयेते तत्कस्य हेतोः, अनुद्भूतत्वात्तयोर्गन्धस्य चोद्भूतत्वादिति । नच द्रव्यस्य प्रक्षयप्रसङ्गः, द्रव्यान्तरावयवपूरणात् । अत एव कालपरिवासवशादस्य हतगन्धितोपलभ्यते । अपिच चैतन्यं नाम न गुणो जीवस्य गुणिनः, किन्तु स्वभावः । नच स्वभावस्य व्यापित्वे भावस्याव्यापित्वं, तत्त्वप्रच्युतेरित्याह

यदि च चैतन्यमिति ।

तदेवं श्रुतिस्मृतीतिहासपुराणसिद्धे जीवस्याविकारितया परमात्मत्वे, तथा श्रुत्यादितः परममहत्त्वे च, या नामाणुत्वश्रुतयस्तास्तदनुरोधेन बुद्धिगुणसारतया व्याख्येया इत्याह

तद्गुणसारत्वादिति ।

तद्व्याचष्टे

तस्या बुद्धेरिति ।

आत्मना स्वसम्बन्धिन्या बुद्धेरुपस्थापितत्वात्तदा परामर्शः । नहि शुद्धबुद्धमुक्तस्वभावस्यात्मनस्तत्त्वं संसारिभिरनुभूयते । अपितु योऽयं मिथ्याज्ञानद्वेषाद्यनुषक्तः स एव प्रत्यात्ममनुभवगोचरः । नच ब्रह्मस्वभावस्य जीवात्मनः कूटस्थनित्यस्य स्वतः इच्छाद्वेषानुषङ्गसम्भव इति बुद्धिगुणानां तेषां तदभेदाध्यासेन तद्धर्मत्वाध्यासः, उदशरावाध्यस्तस्येव चन्द्रमसो बिम्बस्य तोयकम्पे कम्पवत्त्वाध्यास इत्युपपादितमध्यासभाष्ये । तथाच बुद्ध्याद्युपाधिकृतमस्य जीवत्वमिति बुद्धेरन्तःकरणस्याणुतया सोऽप्यणुव्यपदेशभाग्भवति, नभ इव करकोपहितं करकपरिमाणम् । तथा चोत्क्रान्त्यादीनामुपपत्तिरिति । निगदव्याख्यातमितरत् । प्रायणेऽसत्त्वमसंसारित्वं वा, ततश्च कृतविप्रणाशाकृताभ्यागमप्रसङ्गः ॥ २९ ॥

यावदात्मभावित्वात्तु न दोषस्तद्दर्शनात् ।

यावत्संसार्यात्मभावित्वादित्यर्थः ।

समानः सन्निति ।

बुद्ध्या समानः तद्गुणसारत्वादिति ।

अपिच मिथ्याज्ञानेति ।

न केवलं यावत्संसार्यात्मभावित्वमागमतः, उपपत्तितश्चेत्यर्थः ।

आदित्यवर्णमिति ।

प्रकाशरूपमित्यर्थः ।

तमस इति ।

अविद्याया इत्यर्थः । तमेव विदित्वा साक्षात्कृत्य मृत्युमविद्यामत्येतीति योजना ॥ ३० ॥

अनुशयबीजं पूर्वपक्षी प्रकटयति

ननु सुषुप्तप्रलययोरिति ।

सतापरमात्मना ।

अनुशयबीजपरिहारः अत्रोच्यते

पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ।

निगदव्याख्यातमस्य भाष्यम् ॥ ३१ ॥

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोन्यतरनियमो वान्यथा ।

स्यादेतत् । अन्तःकरणेऽपि सति तस्य नित्यसंनिधानात्कस्मान्नित्योपलब्ध्यनुपलब्धी न प्रसज्येते । अथादृष्टविपाककादाचित्कत्वात्सामर्त्यप्रतिबन्धाप्रतिबन्धाभ्यामन्तःकरणस्य नायं प्रसङ्गः । तावसत्येवान्तःकरणे आत्मनो वेन्द्रियाणां वा स्तां, तत्किमन्तर्गडुनान्तःकरणेनेति चोदयति

अथवान्यतरस्यात्मन इति ।

अथवेति सिद्धान्तं निवर्तयति । सिद्धान्ती ब्रूते

न चात्मन इति ।

अवधानं खल्वनुवुभूषा शुश्रूषा वा । न चैते आत्मनो धर्मौ, तस्याविक्रियत्वात् । न चेन्द्रियाणाम् , एकैकेन्द्रियव्यतिरेकेऽप्यन्धादीनां दर्शनात् । नच ते आन्तरत्वेनानुभूयमाने बाह्ये सम्भवतः । तस्मादस्ति तदान्तरं किमपि । यस्य चैते तदन्तःकरणम् । तदिदमुक्तम्

यस्यावधानेति ।

अत्रैवार्थे श्रुतिं दर्शयति

तथा चेति ॥ ३२ ॥

उत्कान्निगत्यागतीनाम् ॥२९॥ अणुरिति श्रुतेरिति चोत्तरसूत्रादाकृष्याणुर्जीव उत्क्रान्त्यादीनां श्रुतेरिति योजना॥१९॥

तच्चाचलतोऽपीति ।

देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्निवृत्तिश्च मरणमित्यचलतोऽपि तत्संभव इत्यर्थः । कर्तृस्थो भवतीति भावः । फलं संयोगविभागाख्यं ययोस्ते गत्यागती कर्तृस्थभावे तयोरित्यर्थः ।

तयोर्व्यापिन्यसंभवादित्येतान्निगमयति –

गत्यागती चेति ।

अपि सापादानेति ।

अपिश्चार्थे सापादाना च सतीति हेत्वन्तरसमुच्चयः । अनेन सौत्रश्चशब्दो व्याख्यातः ।

न केवलमिति ।

चक्षुष्टो वा मूर्ध्नो वा निष्कामतीति शरीरैकदेशानामुत्क्रान्तावुपादानत्वश्रुतेरेव केवलमुत्क्रान्तिरणुत्वसाधनमित्येतदेव न , किंतु शरीरप्रदेशानां हृदयादीनां गन्तव्यत्वश्रुतेरप्युत्क्रान्तिरणुत्वसाधनमित्यर्थः । स आत्मा एतास्तेजस उपलक्षितभूतमात्रा भूतकार्याणीन्द्रियाण्याददानो हृदयं पुण्डरीकमन्ववक्रामति अवक्रामन् लिङ्गशरीरमनु तदुपाधिरवक्रामति प्राप्नोति उत्क्रान्तौ । सुषुप्तः पुनः शुक्रं शोचिष्मन्तमिन्द्रियसमुदायमादाय जागरितस्थानमेति आगच्छतीति श्रुतेरर्थः॥१९॥२०॥ इतराधिकारादिति सूत्रमयुक्तम् ; जीवपरयोरभेदादित्याशङ्क्याह – यत उत्क्रान्त्यादीति॥२१॥

उद्धृत्येति ।

अवयविनोऽवयवमुद्धृत्य विभज्यमानमुन्मानमित्यर्थः ।

वालाग्रदृष्टान्तेऽपि व्याचष्टे –

आराग्रादिति ।

अत्र मोत्रेत्यध्याहारः । आराग्रस्य तोत्राग्रप्रोतलोहाग्रस्य मात्रेव मात्रा परिमाणं यस्य सोऽवरो जीवो दृष्ट इति श्रुतेरर्थः॥२२॥२३॥

एकदेशस्थस्य व्यापि कार्यं न संभवतीति न व्याप्तिश्चन्दनादौ व्यभिचारादित्युक्ते दृष्टान्तः प्रत्यक्ष इत्युक्त्या न परिहार इत्याशङ्क्याह –

यस्य त्विति ।

शरीरैकदेशमात्रवृत्तित्वेनाप्रमितत्वे सति शरीरव्यापिकार्यकारित्वात्त्वग्वदात्मनः सकलशरीरव्यापित्वमनुमीयत इत्यर्थः ।

प्रतिदृष्टान्तसंभवेनेति ।

उक्तमार्गेण प्रतिदृष्टान्तसंभवेनेत्यर्थः ।

अनैकान्तिकत्वादिति ।

चन्दनदृष्टान्तस्यानिर्णायकत्वादित्यर्थः ।

शरीरैकदेशमात्रवृत्तित्वेनाप्रमितत्वं हेतुविशेषणसिद्धम् ; हृदि ह्येष आत्मेत्यादिश्रुतिभिरेकदेशस्थत्वस्य प्रमितत्वादिति परिहरतीत्याह –

शङ्कामिमामिति ।

ननूत्क्रान्त्यादिश्रुतिभिरेवात्मनोऽणुत्वैकदेशस्थत्वयोः सिद्धौ किमितीह श्रुत्यन्तरमुदाह्रियते ? अत आह – यद्यपीति॥२४॥२५॥ सर्वथा यदक्षीयमाणं , तर्हि गुरुत्वादिहानानुपपत्तिरित्याशङ्क्य व्याचष्टे – क्षयस्येति॥२६॥२७॥२८॥

ननु यदि त्वक्वण्टकसंयोगस्य यावत्त्वग्व्यपित्वात्तज्जं दुःखं सर्वाङ्गीणं स्यात् , तर्हि तव मतेऽपि जीवस्य सकलशरीरव्यापित्वात्त्वाजीवकण्टकयोगस्यापि यावज्जीवव्यापित्वात्कण्टकतोजनितवेदनायाः सकलशरीरव्यापितोपलम्भप्रसङ्गस्तत्राह –

महदल्पयोरिति ।

कण्टकावच्छेदकल्पिते जीवैकदेशे जीवकण्टकसंयोगो वर्तते न सर्वत्रेत्यर्थः । अवरूध्यते अवरुणद्धि ।

तर्हि ममापि त्वक्वण्टसंयोगस्त्वक्प्रदेशे वर्तेतेति साम्यमिति च न शङ्क्यम् ; तथा सति त्वग्जीवसंयोगस्यापि जीवानुरोधित्वापत्तौ त्वग् द्वारा सकलशरीरव्यापिवेदनोपलम्भाऽलाभेन वृद्धिमिष्टवतो मूलमपि नष्टमिति कष्टतरप्रसरादित्याह –

न चाणोरिति ।

चस्त्वर्थः । न त्वित्यर्थः । अनन्तरदोषान्निस्तारेऽपि प्रस्तुतं न निर्वहेदित्यर्थः ।

ननु यदि महदल्पयोः संयोगोऽल्पानुरोधी , तर्हि जीवमनःसंयोगोऽपि मनोऽनुरुन्धीतेति न तद्वारा सर्वाङ्गीणशैत्योपलम्भस्तत्राह –

यद्यपीति ।

ननु त्वङ्मनःसंबन्धोपि त्वदेकदेशवृत्तिः , सत्यं मनोऽधिष्ठितत्वम् त्वचोऽपेक्षितं दंडवत् , व्यापिवेदनोपलब्धो तु त्वगात्मसंयोगो हेतुरित्याह –

एकदेशेऽप्यधिष्ठितेति ।

न चाणोर्जीवस्येत्येतद्विवृणोति –

अणुस्त्विति ।

तदिति ।

दुःखादीत्यर्थः ।

तस्येति ।

जीवस्येत्यर्थः ।

महदल्पयोरित्यादिग्रन्थेनोक्तमर्थं निगमयति –

कण्टकतोदनस्य त्विति ।

यदुक्तं गन्धवदवयवानां परमसूक्ष्मत्वत्तद्गतरूपादिवद् गन्धोपि नोपलभ्येतोपलभ्यमानो वा सूक्ष्म उपलभ्येत , स्थूलस्तूपलभ्यमानो द्रव्यं मुक्त्वैव गच्छति गन्ध इति न द्रव्यदेशत्वनियम इति , तत्राह –

अत एव हीति ।

यत एव द्रव्यदेशत्वनियमो यत एव चैकार्थसमवेतगुणानां मध्ये कस्यचिदुद्भवः कस्यचिच्च नेति संभवति अत एवेत्यर्थः । विषक्ताः । विप्रकीर्णाः , अवयवा यस्य तदाप्यद्रव्यं तथा । अतिसान्द्रेऽतिघने । न चात्रापि विप्रतिपत्तव्यम् ; कुङ्कुममृगमदादिवच्छीतस्पर्शोपलम्भसमये जलावयविनो देशान्तरस्थस्यानुपलम्भात् ।

एतदपि विप्रतिपन्नमिति न वाच्यम् ; सर्वत्र सूक्ष्महिमकणप्रसरस्य कालविशेषादुपपत्तेरित्यभिप्रेत्योक्तं –

हेमन्ते इति ।

दार्ष्टान्तिकमाह –

तथेति ।

कालपरिवासः कालात्ययः ; पर्युषितमिति यातयामे प्रयोगात् ।

बुद्धेरप्रकृतत्वात् सूत्रगततच्छब्देन परामर्शायोगमाशङ्क्याह –

आत्मनेति ।

ननु तद्गुणसारत्वादिति हेतुरसिद्धः ; स्वत एवाणुरात्मेति वदन्तं पूर्वपक्षिणं प्रत्यात्मनि बुद्धिगुणाध्यारोपासिद्धेरहमिति चात्मनो विवेकग्रहणात्तस्मिन्नारोपायोगाच्चेति , अत आह –

न हीति ।

अहमिति प्रतिभासेऽप्यनवच्छिन्नानन्दस्वभावस्यात्मतत्त्वस्याऽननुभवादारोपसंभव इत्यर्थः ।

ननु किमवच्छिन्नस्वभावत्वेन स्वत एव जीव इच्छादिमानस्तु , तत्राह –

न च ब्रह्मस्वभावस्येति ।

तत्त्वमसीत्युपदेशात् ब्रह्मैव जीव इत्यर्थः । बुद्धिगुणानां तेषां तस्या बुद्धेरात्मना सहाऽभेदाध्यासेन तद्धर्मवत्त्वाध्यासः ,तद्धर्मवानात्मेत्येवं प्रतिभास इत्यर्थः ।

एवं हेतुं समर्थ्य हेतुमन्तं परिमाणारोपमाह –

तथा चेति ।

भाष्ये बुद्धिवियोगे सत्यात्मनोऽसत्त्वमुक्तं , तत्प्रायणविषयमित्याह –

प्रायण इति ।

बुद्धिवियोगे चेदात्मनो मरणं , तर्ह्यसत्त्वम् ; अथ वियोगेनावस्थानं , तर्ह्यसंसारित्वं ; तथा च को दोषस्तत्राह – ततश्चेति॥२९॥३०॥३१॥

अनुबुभूषाशुश्रूषे , साश्रये , गुणत्वाद् , रूपवद् , यस्तयोराश्रयस्तन्मन इत्युक्तेऽर्थान्तरतामाशङ्क्याह –

न चैते इति ।

स्तां तर्हि घटादेरनुबुभूषाशुश्रूषे , नेत्याह –

न च ते इति ।

बाह्ये इति सप्तमी॥३२॥

इति त्रयोदशमुत्क्रान्त्यधिकरणम्॥