यथा च तक्षोभयथा ।
अवान्तरसङ्गतिमाह
एवं तावदिति ।
विमृशति
तत्पुनरिति ।
पूर्वपक्षं गृह्णाति
तत्रेति ।
शास्त्रार्थवत्त्वादयो हि हेतव आत्मनः कर्तृत्वमापादयन्ति । नच स्वाभाविके कर्तृत्वे सम्भवत्यसत्यपवादे तदौपाधिकं युक्तमतिप्रसङ्गात् । नच मुक्त्यभावप्रसङ्गोऽस्यापवादकः, यथा ज्ञानस्वभावो ज्ञेयाभावेऽपि नाज्ञो भवत्येवं कर्तृस्वभावोऽपि क्रियावेशाभावेऽपि नाकर्ता । तस्मात्स्वाभाविकमेवास्य कर्तृत्वमिति प्राप्तेऽभिधीयते । नित्यशुद्धबुद्धमुक्तस्वभावं हि ब्रह्म भूयोभूयः श्रूयते । तदस्य बुद्धत्वमसत्यपि बोद्धव्ये युक्तं, वह्नेरिवासत्यपि दाह्ये दग्धृत्वं, तच्छीलस्य तस्यावगमात् । कर्तृत्वं त्वस्य क्रियावेशादवगन्तव्यम् । नच नित्योदासीनस्य कूटस्थस्य नित्यस्यासकृच्छुतस्य सम्भवति, तस्य च कदाचिदप्यसंसर्गे कथं तच्छक्तियोगो निर्विषयायाः शक्तेरसम्भवात् तथाच यदि तत्सिध्यर्थं तद्विषमः क्रियावेशोऽभ्युपेयते तथा सति तत्स्वभावस्य स्वभावोच्छेदाभावाद्भावनाशप्रसङ्गः, नच मुक्तस्यास्ति क्रियायोग इति । क्रियाया दुःखत्वान्न विगलितसकलदुःखपरमानन्दावस्था मोक्षः स्यादित्याशयवानाह
न स्वाभाविकं कर्तृत्वमात्मन इति ।
अभिप्रायमबुध्वा चोदयति
ननु स्थितायामपीति ।
परिहरति
न । निमित्तानामपीति ।
शक्तशक्याश्रया शक्तिः स्वसत्तयावश्यं शक्यमाक्षिपति । तथाच तयाक्षिप्तं शक्यं सदैव स्यादिति भावः । चोदयति
ननु मोक्षसाधनविधानादिति ।
परिहरति
न । साधनायत्तस्येति ।
अस्माकं तु न मोक्षः साध्यः, अपितु ब्रह्मस्वरूपं तच्च नित्यमिति । उक्तमभिप्रायमाविष्करोति
अपिच नित्यशुद्ध इति ।
चोदयति
पर एव तर्हि संसारीति ।
अयमर्थःपरश्चेत्संसारी तस्याविद्यप्रविलये मुक्तौ सर्वे मुच्येरन्नविशेषात् । ततश्च सर्वसंसारोच्छेदप्रसङ्गः । परस्मादन्यश्चेत्स बुद्ध्यादिसङ्घात एवेति, तस्यैव तर्हि मुक्तिसंसारौ नात्मन इति । परिहरति
न । अविद्याप्रत्युपस्थापितत्वादिति ।
न परमात्मनो मुक्तिसंसारौ, तस्य नित्यमुक्तत्वात् । नापि बुद्ध्यादिसङ्घातस्य, तस्याचेतनत्वात् । अपि त्वविद्योपस्थापितानां बुद्ध्यादिसङ्घातानां भेदात्तत्तद्बुद्ध्यादिसङ्घातभेदोपधान आत्मैकोऽपि भिन्न इव विशुद्धोऽप्यविशुद्ध इव ततश्चैकबुद्ध्यादिसङ्घातापगमे तत्र मुक्त इवेतरत्र बद्ध इव यथा मणिकृपाणाद्युपधानभेदादेकमेव मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिव अन्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिवेति नैकमुक्तौ सर्वमुक्तिप्रसङ्गः । तस्मान्न परमात्मनो मोक्षसंसारौ, नापि बुद्ध्यादिसङ्घातस्य किन्तु बुद्ध्याद्युपहितस्यात्मस्वभावस्य जीवभावमापन्नस्येति परमार्थः । अत्रैवान्वयव्यतिरेकौ श्रुतिभिरादर्शयति
तथाचेति ।
इतश्चौपाधिकं यदुपाध्यभिभवोद्भवाभ्यामस्याभिभवोद्भवौ दर्शयति श्रुतिरित्याह
तथा स्वप्नजागरितयोरिति ।
अत्रैवार्थे सूत्रं व्याचष्टे
तदेतदाहेति ।
सम्प्रसादः सुषुप्तिः । स्यादेतत् । तक्ष्णः पाण्यादयः सन्ति तैरयं वास्यादीन् व्यापारयन् भवतु दुःखी, परमात्मा त्वनवयवः केन मनःप्रभृतीनि व्यापारयेदिति वैषम्यं तक्ष्णो दृष्टान्तेनेत्यत आह
तक्षदृष्टान्तश्चेति ।
यथा स्वशरीरेणोदासीनस्तक्षा सुखी, वास्यादीनि तु करणानि व्यापारयन् दुःखी, तथा स्वात्मनात्मोदासीनः सुखी, मनःप्रभृतीनि तु करणादीनि व्यापारयन् दुःखीत्येतावतास्य साम्यं न तु सर्वथा । यथात्मा च जीवोऽवयवान्तरानपेक्षः स्वशरीरं व्यापारयत्येवं मनःप्रभृतीनि तु करणान्तराणि व्यापारयतीति प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तिः । पूर्वपक्षहेतूननुभाष्य दूषयति
यत्तूक्तमिति ।
यत्परं हि शास्त्रं स एव शास्त्रार्थः । कर्त्रपेक्षितोपायभावनापरं तन्न कर्तृस्वरूपपरम् । तेन यथालोकसिद्धं कर्तारमपेक्ष्य स्वविषये प्रवर्तमानं न पुंसः स्वाभाविकं कर्तृत्वमवगमयितुमुत्सहते, तस्मात्तत्त्वमसीत्याद्युपदेशविरोधादविद्याकृतं तदवतिष्ठते । चोदयति
ननु सन्ध्ये स्थान इति ।
औपाधिकं हि कर्तृत्वं नोपाध्यपगमे सम्भवतीति स्वाभाविकमेव युज्यत इत्यर्थः । अपिच यत्रापि करणमस्ति तत्रापि केवलस्यात्मनः कर्तृत्वश्रवणात्स्वाभाविकमेव युक्तमित्याह
तथोपादानेऽपीति ।
तदेतत्परिहरति
न तावत्सन्ध्य इति ।
उपाध्यपगमोऽसिद्धोऽन्तःकरणस्योपाधेः सन्ध्येऽप्यवस्थानादित्यर्थः ।
अपिच स्वप्ने यादृशं ज्ञानं तादृशो विहारोऽपीत्याह
विहारोऽपि च तत्रेति ।
तथोपादानेऽपीति ।
यद्यपि कर्तृविभक्तिः केवले कर्तरि श्रूयते तथापि कर्मकरणोपधानकृतमस्य कर्तृत्वं न शुद्धस्य, नहि परशुसहायश्छेत्ता केवलश्छेत्ता भवति । ननु यदि न केवलस्य कर्तृत्वमपि तु करणादिसहितस्यैव, तथा सति करणादिष्वपि कर्तृविभक्तिः स्यात् । न चैतदस्तीत्याह
भवति न लोक इति ।
करणादिष्वपि कर्तृविभक्तिः कदाचिदस्त्येव विवक्षावशादित्यर्थः । अपि चेयमुपादानश्रुतिः करणव्यापारोपरममात्रपरा न स्वातन्त्र्यपरा कर्तृविभक्तिस्तु भाक्ती । कूलं पिपतिषतीतिवदबुद्धिपूर्वकस्य करणव्यापारोपरमस्य दृष्टत्वादित्याह
अपिचास्मिन्नुपादान इति ।
यस्त्वयं व्यपदेश इति यत्तदुक्तमस्माभिरभ्युच्चयमात्रमेतमिति तदितः समुत्थितम् ।
सर्वकारकाणामेवेति ।
विक्लिद्यन्ति तण्डुला ज्वलन्ति काष्ठानि बिभर्त्ति स्थालीति हि स्वव्यापारे सर्वेषां, कर्तृत्वं, तत्किं बुद्ध्यादीनां कर्तृत्वमेव न करणत्वमित्यत आह
उपलब्ध्यपेक्षं त्वेषां करणत्वम् ।
नन्वेवं सति तस्यामेवात्मनः स्वाभाविकं कर्तृत्वमस्त्वित्यत आह
नच तस्यामुलब्धावप्यस्य स्वाभाविककर्तृत्वमस्ति कस्मात् नित्योपलब्धिस्वरूपत्वात् आत्मनः ।
नहि नित्ये स्वभावे चास्ति भावस्य व्यापार इत्यर्थः । तदेवं नास्योपलब्धौ स्वाभाविकं कर्तृत्वमस्तीत्युक्तम् । नापि बुद्ध्यादेरुपलब्धिकर्तृत्वमात्मन्यध्यस्तं यथा तद्गतमध्यवसायादिकर्तृत्वमित्याह
अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति ।
कुतः ।
अहङ्कारस्याप्युपलभ्यमानत्वात् ।
नहि शरीरादि यस्यां क्रियायां गम्यं तस्यामेव गन्तृ भवति । एतदुक्तं भवति यदि बुद्धिरुपलब्ध्री भवेत् , ततस्तस्या उपलब्धृत्वमात्मन्यध्यवस्येत । न चैतदस्ति । तस्या जडत्वेनोपलभ्यमानतयोपलब्धिकर्तृत्वानुपपत्तेः । यदा चौपलब्धौ बुद्धेरकर्तृत्वं तदा यदुक्तं बुद्धेरुपलब्धृत्वे करणान्तरं कल्पनीयं, तथाच नाममात्रे विसंवाद इति तन्न भवतीत्याह
न चैवं सति करणान्तरकल्पना ; बुद्धेरुपलब्धृत्वाभावात् ।
तत्किमिदानीमकरणं बुद्धिरुपलब्धावात्मा चानुपलब्धेत्यत आह
बुद्धे करणत्वाभ्युपगमात् ।
अयमभिसन्धिःचैतन्यमुपलब्धिरात्मस्वभावो नित्य इति न तत्रात्मनः कर्तृत्वं, नापि बुद्धेः करणत्वं, किन्तु चैतन्यमेव विषयावच्छिन्नं वृत्तिरिति चोपलब्धिरिति चाख्यायते । तस्य तु तत्तद्विषयावच्छेदे वृत्तौ बुद्ध्यादीनां करणत्वमात्मनश्च तदुपधानेनाहङ्कारपूर्वकं कर्तृत्वं युज्यत इति ॥ ४० ॥
यथा च तक्षोभयथा॥४०॥ ननु यद्युपाधिमन्तरेण कर्ताऽऽत्मा , तर्हि मुक्तावपि कर्म कुर्यात् , इतरथा कथं कर्तृत्वमस्य स्वभावः स्यात् ? तथा च न मुक्तिः स्यादित्याशङ्क्याह –
न च मुक्त्यभावेति ।
जीवस्य ब्रह्मात्मत्वं हि मोक्षो ब्रह्म च ज्ञानं , सत्यं ज्ञानमिति श्रुतेः । ततश्च ज्ञानात्मत्वमसत्यपि विषये मोक्षे स्यात् , कर्तृत्वं तु ब्रह्मस्वभाव इति न श्रुतम् । अतः क्रियावेशादेव लोकवद् द्रष्टव्यम् ।
क्रियाभ्युपगमे च मुक्तिव्याघात इति प्रतिबन्दी परहरति –
नित्यशुद्धेत्यादिना ।
नित्योदासीनत्वे हेतुः –
कूटस्थेति ।
तत्र प्रमाणम् –
असकृदिति ।
संभवति क्रियावेशे इत्यनुषङ्गः ।
ननु क्रियावेशाभावेऽपि तद्विषयशक्तिमत्त्वं स्यात् , तदेव च कर्तृत्वमित्याशङ्क्याह –
तस्य चेति ।
तत्सिद्ध्यर्थमिति ।
क्रियायोगविषयशक्तिसिद्ध्यर्थम् । तद्विषयस्तस्याः शक्तेर्विषयः ।
उपाधिमन्तरेण क्रियायोगश्चेत्तर्हि स स्वरूपं स्यात् स्वाभाविको वा धर्मः , अग्नेरिवौष्ण्यम् ; तन्नाशे आत्मनाशः स्यादित्याह –
तथा सतीति ।
स क्रियावेशः स्वभावो यस्य स आत्मा तथा स्वभाविनि सति स्वभावोऽपि सन्नेव ; भेदाभावादित्यर्थः । भावनाशप्रसङ्गः स्वभाविन आत्मनो नाशप्रसङ्गः ।
ननु मुक्तावपि क्रियायोगोऽस्तु , कथमात्मनाशापत्तिरत आह –
न च मुक्तस्येति ।
मुक्तस्य नास्ति क्रियायोग इति यस्मादतो भावनाशप्रसङ्गः इति योजना ।
मुक्तस्य क्रियायोगाभावे हेतुः –
क्रियाया इति ।
फलितमाह –
न विगलितेति ।
परमार्थशक्तिवादिनां मते दूषणमाह –
शक्तशक्याश्रयेति ।
शक्तमाश्रयत्वेनाश्रयते शक्यं विषयत्वेनेत्यर्थः । शक्तग्रहणं दृष्टान्तार्थम् ।
उक्तमभिप्रायमिति ।
ज्ञानं ब्रह्मस्वभावो न कर्तृत्वमितीममित्यर्थः ।
तक्षणि विवक्षितविवेचनेन साम्यमुक्त्वा सर्वथैव समं दृष्टान्तमाह –
यथाऽऽत्मा चेति ।
यः प्रेरयति स पाण्यादिभिरेव प्रेरयतीति। नियोगेन नियमेन पर्यनुयोगो नियोगपर्यनुयोगः तस्यानुपपत्तिरित्यर्थः । अपेक्षितोपायो भावना पुरुषप्रवृत्तिस्तत्परमित्यर्थः ।
नन्वतत्परादपि देवताविग्रहादिवत् कर्ता प्रतीयतामत आह –
तस्मादिति ।
यद्यन्याधीनस्यापि स्वातन्त्र्यवाचिनी कर्तृविभक्तिस्तर्ह्यतिप्रसङ्ग इत्याह –
ननु यदीति ।
भाष्ये कर्तृत्वमात्रस्यैवाहङ्कारोपाधिनाऽऽत्मन्यध्यस्तत्वनिषेधः प्रतिभाति , तथा चाध्यासभाष्येण विरोध इत्याशङ्क्य चैतन्यकर्तृत्वस्य तथाविधत्वेन निषेध इत्याह –
तदेवमिति ।
शरीरादि यथा स्वकर्मकक्रियायाः कर्तृ न भवत्येवं बुद्धिरपि स्वकर्मचैतन्ये न कर्त्रीत्यर्थः । बुद्धेः कर्त्र्या उपलब्धिः क्रिया यदि भवेदित्यर्थः ।
उत्तरमपि भाष्यं बुद्धेश्चैतन्यं प्रति कर्तृत्वे सत्यात्मत्वापत्तौ तन्निषेधार्थमित्याह –
यदा चेति ।
ननूपलब्धेर्नित्यत्वात्तस्यां यदि न कर्त्री बुद्धिस्तर्हि न करणमपि स्यात् , तथा च बुद्धेरुपलब्धिकरणत्वप्रसिद्धिबाध इति शङ्कते –
तत्किमिदानीमिति ।
चैतन्यव्यञ्जकवृत्तौ बुद्धेः करणत्वं तदुपहितस्य चात्मनः कर्तृत्वम् , तथा च न प्रसिद्धिबाध इति परिहरति –
किंतु चैतन्यमेवेति॥४०॥