भामतीव्याख्या
वेदान्तकल्पतरुः
 

परात्तु तच्छ्रुतेः ।

यदेतज्जीवानामौपाधिकं कर्तृत्वं तत्प्रवर्तनालक्षणेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् । नचेश्वरो द्वेषपक्षपातरहितो जीवान् साध्वसाधुनि कर्मणि प्रवर्तयितुमर्हति, येन धर्माधर्मापेक्षया जगद्वैचित्र्यमापद्येत । स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रवर्तयेन्नाधर्मे । ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः । स्वतन्त्रास्तु रागादिप्रयुक्ताः प्रवर्तमाना धर्माधर्मप्रचयवन्तो वैचित्र्यमनुभवन्तीति युक्तम् । एवंच विधिनिषेधयोरर्थवत्त्वमितरथा तु सर्वथा जीवा अस्वतन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधिनिषेधाभ्याम् । नहि बलवदनिलसलिलौघनुद्यमानं प्रत्युपदेशोऽर्थवान् । तस्मात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८) इत्यादयः श्रुतयः समस्तविधिनिषेधश्रुतिविरोधाल्लोकविरोधाच्चैश्वर्यप्रशंसापरतया नेया इति प्राप्तेऽभिधीयते । “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८) इत्यादयस्तावच्छछ्रुतयः सर्वव्यापारेषु जन्तूनामीश्वरतन्त्रतामाहुः, तदसति प्रतिबन्धके न प्रशंसापरतया व्याख्यातुमुचितम् । नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत । न चेश्वरतन्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् । यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्वपूर्वजन्तुकर्मापेक्षय जन्तून् धर्माधर्मयोः प्रवर्तयन्न द्वेषपक्षपाताभ्यां विषमः । नापि निर्घृणः । नच कर्मप्रचयस्यादिरस्त्यनादित्वात्संसारस्य । न चेश्वरतन्त्रस्य कृतं विधिनिषेधाभ्यामिति साम्प्रतम् । नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चैतन्यमनुरुध्यमानो रागाद्युपहारमुखेन । एवं चेष्टानिष्टप्राप्तिपरिहारार्थिनो विधिनिषेधावर्थवन्तौ भवतः । तदनेनाभिसन्धिनोक्तम्

परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव इति ।

तस्माद्विधिनिषेधशास्त्राविरोधाल्लोकस्य स्थूलदर्शित्वात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८)इत्यादिश्रुतेः । “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥” (भारत.व. ३०-२८) इति स्मृतेश्चेश्वरतन्त्राणामेव जन्तूनां कर्तृत्वं, न तु स्वतन्त्राणामिति सिद्धम् । ईश्वर एव विधिनिषेधयोस्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्रतिपादितधर्माधर्मनिरपेक्षेण कृतमिति विधिनिषेधयोरानर्थक्यम् । न केवलमानर्थक्यं विपरीतं चापद्येत इत्याह

तथा विहितकारिणमिति ।

पूर्वोक्तश्च दोषः कृतनाशाकृताभ्यागमः प्रसज्येत । अतिरोहितार्थमन्यत् ॥ ४१ ॥

कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ॥ ४२ ॥

परात्तु तच्छ्रुतेः॥४१॥ एष ह्येवेत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसंदेहे संगतिगर्भं पूर्वपक्षमाह –

यदेतदित्यादिना ।

ईश्वरस्य प्रवर्तकत्वयोग्यतामङ्गीकृत्य प्रवर्तकान्तरस्य सिद्धत्वाद्वैयर्थ्यमुक्तं , तत्र प्रवर्तकत्वमेवेश्वरस्यायुक्तम् , विषमं सृजतो रागादिमत्त्वप्रसङ्गात् ।

ननु कर्मापेक्षत्वाददोष इति , तत्राह –

न चेश्वर इति ।

ननु नेश्वरो धर्मादितन्त्रः प्रवर्तयति , किंतु करुणयेति तत्राह –

स हि स्वतन्त्र इति ।

अत्यन्तपराधीनं प्रति न विधिरित्यत्र दृष्टान्तमाह –

न हि बलवदिति ।

श्वभ्रंगर्तम् ।

विधौ प्रतिषेधे चेश्वर एव नियोज्य इति भ्रमं व्यावर्तयति –

स्थान इति ।

पूर्वोक्तदोषप्रसङ्गश्चेति भाष्यं पूर्वपक्षावसरोक्तदोषपरत्वेन व्याचष्टे –

कृतनाशेति॥४१॥४२॥

इति षोडशं परायत्ताधिकरणम्॥