अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ।
अवान्तरसङ्गतिमाह
जीवेश्वरयोरिति ।
उपकार्योपकारकभावःप्रयोज्यप्रयोजकभावः । अत्रापाततो विनिगमनाहेतोरभावादनियमो निश्चय इत्युक्तः । निश्चयहेत्वाभासदर्शनेन भेदपक्षमालम्ब्याह
अथवेति ।
ईशितव्येशितृभावश्चान्वेष्यान्वेष्टृभावश्च ज्ञेयज्ञातृभावश्च नियम्यनियन्तृभावश्चाधाराधेयभावश्च न जीवपरमात्मनोरभेदेऽवकल्प्यते । न च “ब्रह्मदाशा ब्रह्मकितवाः” इत्याद्याश्च श्रुतयो दाशा ब्रह्म कितवा ब्रह्मेत्यादिप्रतिपादनपरा जीवानां ब्रह्मणो भेदेऽवकल्प्यन्ते । न चैताभिर्भेदाभेदप्रतिपादनपराभिः श्रुतिभिः साक्षादंशत्वप्रतिपादकाच्च मन्त्रवर्णात् “पादोऽस्य विश्वा भूतानि”(ऋ० १० . ९० . ३) इत्यादेः, स्मृतेश्च “ममैवांशः”(भ.गी. १५-७) इत्यादेर्जीवानामीश्वरांशत्वसिद्दिः । निरतिशयोपाधिसम्पदा च विभूतियोगेनेश्वरः स्वांशानामपि निकृष्टोपाधीनामीष्ट इति युज्यते । नहि तावदनवयवेश्वरस्य जीवा भवितुमर्हन्त्यंशाः । अपिच जीवानां ब्रह्मांशत्वे तद्गता वेदना ब्रह्मणो भवेत् । पादादिगता इव वेदना देवदत्तस्य । ततश्च ब्रह्मभूयङ्गतस्य समस्तजीवगतवेदनानुभवप्रसङ्ग इति वरं संसार एव मुक्तेः । तत्र हि स्वगतवेदनामात्रामनुभवान्न भूरि दुःखमनुभवति । मुक्तस्तु सर्वजीववेदनाभागिति प्रयत्नेन मुक्तिरनर्थबहुलतया परिहर्तव्या स्यादिति । तथा भेदाभेदयोः परस्परविरोधिनोरेकत्रासम्भवान्नांशत्वं जीवानाम् । नच ब्रह्मैव सदसन्तस्तु जीवा इति युक्तं, सुखदुःखमुक्तिसंसारव्यवस्थाभावप्रसङ्गादनुज्ञापरिहाराभावप्रसङ्गाच्च । तस्माज्जीवा एव परमार्थसन्तो न ब्रह्मैकमद्वयम् । अद्वैतश्रुतयस्तु जातिदेशकालाभेदनिमित्तोपचारादिति प्राप्तेऽभिधीयते - अनधिगतार्थावबोधनानि प्रमाणानि विशेषतः शब्दः । तत्र भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाद्यः । अभेदस्त्वनधिगतत्वादधिगतभेदानुवादेन प्रतिपादनमर्हति । येन च वाक्यमुपक्रम्यते मध्ये च परामृश्यते अन्ते चोपसंह्रियते तत्रैव तस्य तात्पर्यम् । उपनिषदश्चाद्वैतोपक्रमतत्परामर्शतदुपसंहारा अद्वैतपरा एव युज्यन्ते । नच यत्परास्तदौपचारिकं युक्तम् , अभ्यासे हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागेवोपचरितत्वमित्युक्तम् । तस्माद्द्वैते भाविके स्थिते जीवभावस्तस्य ब्रह्मणोऽनाद्यनिर्वचनीयाविद्योपधानभेदादेकस्यैव बिम्बस्य दर्पणाद्युपाधिभेदात्प्रतिबिम्बभेदाः । एवं चानुज्ञापरिहारौ लौकिकवैदिकौ सुखदुःखमुक्तिसंसारव्यवस्था चोपपद्येत । नच मोक्षस्यानर्थबहुलता, यतः प्रतिबिम्बानामिव श्यामतावदाततादिर्जीवानामेव नानावेदनाभिसम्बन्धो ब्रह्मणस्तु बिम्बस्येव न तदभिसम्बन्धः । यथाच दर्पणापनये तत्प्रतिबिम्बं बिम्बभावेऽवतिष्ठते न कृपाणे प्रतिबिम्बितमपि । एवमविद्योपधानविगमे जीवे ब्रह्मभाव इति सिद्धं जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थः ॥ ४३ ॥
मन्त्रवर्णाच्च । ॥ ४४ ॥
अपि च स्मर्यते । ॥ ४५ ॥
प्रकाशादिवन्नैवं परः । ॥ ४६ ॥
स्मरन्ति च ।
सप्तदशसङ्ख्यापरिमितो राशिर्गणः सप्तदशकः । तद्यथा बुद्धिकर्मेन्द्रियाणि बाह्यानि दश बुद्धिमनसी वृत्तिभेदमात्रेण भिन्ने अप्येकीकृत्यैकमन्तःकरणं शरीरं पञ्च विषया इति सप्तदशको राशिः ॥ ४७ ॥
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ।
अनुज्ञा विधिरभिमतो न तु प्रवृत्तप्रवर्तना । अपौरुषेये प्रवर्तयितुरभिप्रायानुरोधासम्भवात् । क्रत्वर्थायामग्नीषोमीयहिंसायां प्रवृत्तप्रवर्तनानुपपत्तेश्च । पुरुषार्थेऽपि नियमांशे प्रवृत्तेः
कः पुनर्देहसम्बन्ध इति ।
नहि कूटस्थनित्यस्यात्मनोपरिणामिनोऽस्ति देहेन संयोगः समवायो वान्यो वा कश्चित्सम्बन्धः सकलधर्मातिगत्वादित्यभिसन्धिः । उत्तरम्
देहादिरयं सङ्घातोऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः ।
अयमर्थःसत्यं नास्ति कश्चिदात्मनो देहादिभिः पारमार्थिकः सम्बन्धः, किन्तु बुद्ध्यादिजनितात्मविषया विपरीता वृत्तिः ‘अहमेव देहादिसङ्घातः’ इत्येवंरूपा । अस्यां देहादिसङ्घात आत्मतादात्म्येन भासते । सोऽयं सांवृतस्तादात्म्यलक्षणः सम्बन्धो न पारमार्थिक इत्यर्थः । गूढाभिसन्धिश्चोदयति
सम्यग्दर्शिनस्तर्हीति ।
उत्तरं
न । तस्येति ।
यदि सूक्ष्मस्थूलदेहादिसङ्घातोऽविद्योपदर्शित एकमेवाद्वितीयं ब्रह्मास्मीति सम्यग्दर्शनमभिमतम् , अद्धा तद्वन्तं प्रति विधिनिषेधयोरानर्थक्यमेव । एतदेव विशदयति
हेयोपादेययोरिति ।
चोदको निगूढाभिसन्धिमाविष्करोति
शरीरव्यतिरेकदर्शिन एव ।
आमुष्मिकफलेषु कर्मसु दर्शपूर्णमासादिषु नियोज्यत्वमिति चोत्परिहरति
न । तत्संहतत्वाभिमानात् ।
एतद्विभजते
सत्यमिति ।
यो ह्यात्मनः षाट्कौशिकाद्देहादुपपत्त्याव्यतिरेकं वेद, न तु समस्तबुद्ध्यादिसङ्घातव्यतिरेकं, तस्यामुष्मिकफलेष्वाधिकारः । समस्तबुद्ध्यादिव्यतिरेकवेदिनस्तु कर्मभोक्तृत्वाभिमानरहितस्य नाधिकारः कर्मणि तथाच न यथेष्टचेष्टा, अभिमानविकलस्य तस्या अप्यभावादिति ॥ ४८ ॥
असन्ततेश्चाव्यतिकरः । ॥ ४९ ॥
आभास एव च ।
येषां तु साङ्ख्यानां वैशेषिकाणां वा सुखदुःखव्यवस्थां पारमार्थिकीमिच्छतां बहव आत्मानः सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति । तत्र प्रश्नपूर्वकं साङ्ख्यान् प्रति व्यतिक्रमं तावदाह
कथमिति ।
यादृशस्तादृशो गुणसम्बन्धः सर्वान् पुरुषान् प्रत्यविशिष्ट इति तत्कृते सुखदुःखे सर्वान् प्रत्यविशिष्टे । नच कर्मनिबन्धना व्यवस्था, कर्मणः प्राकृतत्वेन प्रकृतेश्च साधारणत्वेनाव्यवस्थातादवस्थ्यात् । चोदयति
स्यादेतदिति ।
अयमर्थःन प्रधानं स्वविभूतीख्यापनाय प्रवर्तते, किन्तु पुरुषार्थम् । यं च पुरुषं प्रत्यनेन भोगापवर्गौ पुरुषार्थौ साधितौ तं प्रति समाप्ताधिकारतया निवर्तते पुरुषान्तरं तु प्रत्यसमाप्ताधिकारं प्रवर्तते । एवं च मुक्तसंसारिव्यवस्थोपपत्तेः सुखदुःखव्यवस्थापि भविष्यतीति निराकरोति
नहीति ।
सर्वेषां पुरुषाणां विभुत्वात्प्रधानस्य च साधारण्यादमुं पुरुषं प्रत्यनेनार्थः साधित इत्येतदेव नास्ति । तस्मात्प्रयोजनवशेन विना हेतुं व्यवस्थास्थेया । सा चायुक्ता हेत्वभावादित्यर्थः । भवतु साङ्ख्यानामव्यवस्था, प्रधानसमवायाददृष्टस्य, प्रधानस्य च साधारण्यात् । काणादादीनां त्वात्मसमवाय्यदृष्टं प्रत्यात्ममसाधारणं तत्कृतश्च मनसा सहात्मनः स्वस्वामिभावलक्षणः सम्बन्धोऽनादिरदृष्टभेदानामनादित्वात् , तथा चात्मनःसंयोगस्य साधारण्येऽपि स्वस्वामिभावस्यासाधारण्यादभिसन्ध्यादिव्यवस्थोपपद्यत एव । नच संयोगोऽपि साधारणः । नहि तस्य मनस आत्मान्तरैर्यः संयोगः स एव स्वामिनापि, आत्मसंयोगस्य प्रतिसंयोगभेदेन भेदात् । तस्मादात्मैकत्वस्यागमसिद्धत्वात् , व्यवस्थायाश्चैकत्वेऽप्युपपत्तेः, नानेकात्मकल्पना, गौरवादागमविरोधाच्च । अन्त्यविशेषवत्त्वेन च भेदकल्पनायामन्योन्याश्रयापत्तेः । भेदे हि तत्कल्पना ततश्च भेद इति । एतदेव काणादमतदूषणम् । भाष्यकृता तु प्रौढवादितया काणादान् प्रत्यप्यदृष्टानियमादित्यादीनि सूत्राणि योजितानि । साङ्ख्यमतदूषणपराण्येवेति तु रोचयन्ते केचित्तदास्तां तावत् ॥ ५० ॥
अदृष्टानियमात् । ॥ ५१ ॥
अभिसन्ध्यादिष्वपि चैवम् । ॥ ५२ ॥
प्रदेशादिति चेन्नान्तर्भावात् । ॥ ५३ ॥
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥४३॥ जीवब्रह्मभेदाभेदश्रुतिविरोधसंदेहे पूर्वत्र जीवनियन्तेश्वर इत्युक्तम् , इदानीं स ईश्वर आक्षिप्य समर्थ्यत इति संगतिमाहेति दर्शयति –
अवान्तरेति ।
भाष्ये स्वामिभृत्यवत् संबन्ध इति न पूर्वपक्ष उक्तः , तथा सति तद्वन्नियन्तृनियन्तव्यत्वसंभवात्पूर्वोक्ताक्षेपरूपसंगत्यसिद्धेरतो विरोधैकशृङ्गप्रदर्शनम् । अत एव टीकाकारो न ब्रह्मैकमद्वयमिति ब्रह्माभावेन पूर्वपक्षमुपसंहरिष्यति।
जीवेश्वरयोरुपकार्योपकारकभावाभ्युपगमादिति भाष्ये उत्पाद्योत्पादकत्वमुक्तमिति भ्रमं व्युदस्यति –
उपकार्येति ।
निश्चयहेत्वाभासेति ।
अभेदश्रुतिषु सतीषु भेदो निश्चेतुं न शक्यते इत्याभासत्वमत एकं शृङ्गं दर्शितमित्यर्थः ।
विरोधोद्धाटनाय शृङ्गान्तरं दर्शयति –
न च ब्रह्मेति ।
भेदे इति च्छेदः ।
उभयीनां श्रुतीनामविरोधमाशङ्क्याह –
न चैताभिरिति ।
न च युज्यत इत्युपरितनेनान्वयः ।
ननु जीवनामीश्वरांशत्वसिद्धावपि नेश्वरस्य जीवनियन्तृत्वं , चेतनत्वेन जीवैरविशेषादित्याशङ्क्याह –
निरतिशयेति ।
अधिष्ठानेऽतिशयानाधायिन्यो जीवाश्रया अविद्या निरतिशयाः ताभिर्विषयीकृतत्वाद् ब्रह्मणस्ता उपाधितयोक्ताः , निरतिशया उपाधिसंपत् सा यस्य स विभूतियोगस्तथोक्तः । विभूतेरनवच्छिन्नरूपस्य योगो घटकं तेनेत्यर्थः ।
अविरोधवाद्याह –
तस्मादिति ।
यदुक्तमीशित्रीशिक्तव्यभावश्चत्यादि तत्राह –
तत्र भेद इति ।
प्रमेयापूर्वत्वलक्षणतात्पर्यलिङ्गादद्वैतश्रुतिर्बलीयसीत्युक्त्वोपक्रमाद्यैकरूप्यादपीत्याह –
येन चेति ।
यदुक्तं ब्रह्मभावं गतस्य समस्तजीवगतवेदनाप्रसङ्ग इति।
तत्राह –
यथा च दर्पणापनय इति ।
दर्पणस्यापगमे तत्रत्यं मुखप्रतिबिम्बं बिम्बभावेनावतिष्ठते , न तु प्रतिबिम्बान्तररूपेण ; यद्यपि बिम्बात्मतामापन्नं तत्र तद्रूपेण कृपाणे प्रतिबिम्बितं ; तथापि बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्वादिव्यवस्थानात्तद्धर्मसांकर्यमित्यर्थः । दार्ष्टान्तिकमाह – एवमिति॥४३॥४४॥४५॥४६॥ ॥ जीवे ब्रह्मभाव एव न जीवान्तरापत्तिरित्यर्थः ।
भाष्योदाहृतस्मृतौ सप्तदशकपदं व्याचष्टे –
सप्तदशेति ।
निश्चयः संशयश्चेति वृत्तिभेदमात्रेण॥४७॥
ननु प्रवर्तयितुः स्वामिनोऽभिमतोपाय इति मत्वा प्रवृत्ते भृत्ये पुनरहिताशङ्क्या सहसा निवृत्तौ स्वामिनोऽनुज्ञा प्रवृत्तप्रवर्तनी , सा च प्रवर्तयितुः स्वामिनोऽभिप्रायानुरोधिनी न वेदे संभवति , तत्कथमनुज्ञेति सूत्रनिर्देशस्तत्राह –
विधिरिति ।
क्रत्वर्थायामिति ।
क्रत्वर्थग्रहणं पुरुषार्थे फलकामनया सामान्यतः प्रवृत्तस्त प्रवर्तको विधिरनुज्ञापि स्यादिति शङ्कां वारयितुम् ।
अपि च पुरुषार्थेऽपि सामान्यतः प्रवर्ततां गोदोहनादिसाधनविशेषनियमे पश्वाद्यर्थीविधितः प्रागप्रवृत्त इति नानुज्ञा संभवतीत्याह –
पुरुषार्थेऽपीति ।
ननु विपरीतप्रत्ययस्य कथं देहाद्यात्मसंबन्धत्वं तस्यात्ममात्रनिष्ठत्वादत आह –
अस्यामिति ।
भ्रान्तविषयमिथ्यातादात्म्यं संबन्ध इति कथयितुं भाष्ये विपरीतप्रत्ययोत्पत्तिरुक्ता इत्यर्थः । यदि देहात्मनोर्मिथ्या तादात्म्यं संबन्धस्तर्हि देहव्यतिरेकज्ञस्य स नास्तीति देहसंबन्धनिमित्तविधिनिषेधौ ब्रह्मविद इव न स्ताम् ।
न चानिष्टप्रसङ्गः ; देहव्यतिरेकविद एव नियोज्यत्वादित्याह –
व्यतिरेकदर्शिन एवेति ।
अस्थिस्नायुमज्जात्वङ्मांसशोणितानि षट् कोशाः । तत्कृतं षाट्कौशिकं स्थूलशरीरम् । तन्मात्रविवेकिनोऽपि सूक्ष्मदेहविवेकाभावान्न देहसंबन्धाभाव इति विधिगोचरता । निष्प्रपञ्चब्रह्मात्मतासाक्षात्कारिणस्तु न विधिगोचरता । न च यथेष्टचेष्टा ; तथाविधाभिमानाभावादित्यर्थः । अभिमानाभासस्तु न स्वैरचेष्टाहेतुः , तत्त्वबोधाग्निदग्धत्वादित्यर्थः । उक्तं हि वार्तिककारैः - उत्पन्नात्मप्रबोधानामात्माविद्या तदुद्भवम् । सम्यग्ज्ञानाग्निना नित्यं दह्यमानं प्रजायते॥४८॥४९॥ भाष्ये साक्षात्प्रत्येकमात्मनः सुखादिसंबन्धमङ्गीकृत्य सर्वेषां तदीयसुखादिसंबन्धश्च आपादितः ।
तत्र निर्विशेषस्य न संबन्धोऽपीत्याह –
यादृश इति ।
आत्ममनः संयोगस्य सर्वात्मसाधारण्यमङ्गीकृत्य स्वस्वामिसंबन्ध आत्मविशेषेणासाधारण इत्युक्तम् ।
इदानीमात्ममनःसंयोगोऽप्यासाधारण इत्याह –
न चेति ।
आत्मना सह मनसो यः संयोगस्तस्यैकत्वेऽपि मनसः प्रतिसंयोगिनामात्मनां भेदेन भेदादाश्रयभेदेन हि संयोगो भिद्यते , घटेन सह पटकुड्यसंयोगवदित्यर्थः ।
यद्यदृष्टाद्यनियमेन न वैशेषिकमतं दूष्यं , कथं तर्हि दूषयत आह –
तस्मादिति ।
अदृष्टहेतुकमनःसंयोगो यदैकस्यात्मनस्तदैव सर्वेषामात्मनां तेन मनसा संयोगः स्यात् ; तेषां व्यापकत्वात् , ततश्च प्रत्यात्मं संयोगभेदेऽपि हेत्वविशेषाददृष्टनिष्पत्तिस्तुल्या स्यात् , तत्कृताश्च स्वस्वामिभावाः सर्वात्मना स्युरिति कुतस्तत्कृताभिसंध्यादिव्यवस्थासिद्धिरिति केचित्कारेण सूचितम्॥५०॥५१॥५२॥५३॥