भामतीव्याख्या
वेदान्तकल्पतरुः
 

द्वितीयाध्याये चतुर्थः पादः ।

तथा प्राणाः ।

यद्यपि ब्रह्मवेदने सर्ववेदनप्रतिज्ञातादुपपादनश्रुतिविरोधाद्बहुतराद्वैतश्रुतिविरोधाच्च प्राणानां सर्गादौ सद्भावश्रुतिर्वियदमृतत्वादिश्रुतय इवान्यथा कथञ्चिन्नेतुमुचिता, तथाप्यन्यथानयनप्रकारमविद्वानन्यथानुपपद्यमानैकापि श्रुतिर्बह्वीरन्यथयेदिति मन्वानः पूर्वपक्षयति । अत्र चात्युच्चतया वियदधिकरणपूर्वपक्षहेतून् स्मारयति

तत्र तावदिति ।

शब्दैकप्रमाणसमधिगम्या हि महाभूतोत्पत्तिस्तस्या यत्र शब्दो निवर्तते तत्र तत्प्रमाणाभावेन तदभावः प्रतीयते । यथा चैत्यवन्दनतत्कर्मधर्मताया इत्यर्थः । अत्रापाततः श्रुतिविप्रतिपत्त्यानध्यवसायेन पूर्वपक्षयित्वाथवेत्यभिहितं पूर्वपक्षममवतारयति । अभिप्रायोऽस्य दर्शितः । “पानव्यापच्च तद्वत्”(जै. अ. ३.४.१५) इत्यत्राश्वप्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षसूत्रार्थसादृश्यं तदा परामृष्टम् । राद्धान्तस्तु स्यादेतदेवं यदि सर्गादौ प्राणसद्भावश्रुतिरनन्यथासिद्धा भवेत् । अन्यथैव त्वेषा सिध्यति । अवान्तरप्रलये ह्यग्निसाधनानां सृष्टिर्वक्तव्येति तदर्थोऽसावुपक्रमः । तत्राधिकारिपुरुषः प्रजापतिरप्रनष्ट एव त्रैलोक्यमात्रं प्रलीनमतस्तदीयान् प्राणानपेक्ष्य सा श्रुतिरुपपन्नार्था । तस्माद्भूयसीनां श्रुतीनामनुग्रहाय सर्वविज्ञानप्रतिज्ञोपपत्त्यर्थस्य चोत्तरस्य सन्दर्भस्य गौणत्वे तु प्रतिज्ञातार्थानुगुण्याभावेनानपेक्षितार्थत्वप्रसङ्गात्प्राणा अपि नभोवद्ब्रह्मणो विकारा इति । नच चैत्यवन्दनादिवत्सर्वथा प्राणानामुत्पत्त्यश्रुतिः, क्वचित्खल्वेषामुत्पत्त्यश्रवणमुत्पत्तिश्रुतिस्तु तत्र तत्र दर्शिता । तस्माद्वैषम्यं चैत्यवन्दनपोषधादिभिरिति ।

गौण्यसम्भवात् ।

केचिद्वियदधिकरणव्याख्यानेन गौण्यसम्भवादिति सूत्रं व्याचक्षते । गौणी प्राणानामुत्पत्तिश्रुतिरसम्भवादुत्पत्तेरिति । तदयुक्तम् । विकल्पासहत्वात् । तथाहि प्राणानां जीववद्वाविकृतब्रह्मात्मतयानुपपत्तिः स्यात् , ब्रह्मणस्तत्त्वान्तरतया वा । न तावज्जीववदेषामविकृतब्रह्मात्मता, जडत्वात् । तस्मात्तत्त्वान्तरतयैषामनुत्पत्तिरास्थेया । तथाच ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाव्याहतिः, समस्तवेदान्तव्याकोपश्चेत्येतदाह

वियदधिकरणे हीति ॥ २ ॥

तत्प्राक्श्रुतेश्च ।

निगदव्याख्यातमस्य भाष्यम् ॥ ३ ॥

तत्पूर्वकत्वाद्वाचः ।

वाच इति वाक्प्राणमनसामुपलक्षणम् । अयमर्थः यत्रापि तेजःप्रभृतीनां सृष्टौ प्राणसृष्टिर्नोक्तेति ब्रूषे, तत्राप्युक्तेति ब्रूमहे । तथाहियस्मिन् प्रकरणेन तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते “अन्नमयं हि”(छा. उ. ६ । ५ । ४) इत्यादिना, तद्यदि मुख्यार्थं ततस्तत्सामान्यात् सर्वेषामेव प्राणानां सृष्टिरुक्ता । अथ गौणं तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायामुपक्रमोपसंहारपर्यालोचनया श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चार्थमेव प्राणादीनामापोमयत्वाद्यभिधानमित्युक्तैव तत्रापि प्राणसृष्टिरिति सिद्धम् ॥ ४ ॥

तथा प्राणाः॥१॥ वियदधिकरणेन (ब्र.अ.२ पा.२.सू.१) गतार्थत्वमाशङ्क्य परिहरति –

यद्यपीत्यादिना ।

सर्ववेदनप्रतिज्ञारूपाश्रुतिस्तस्य सर्ववेदनस्योपपादनश्रुतिश्च यथोक्ता ताभ्यां विरोधादित्यर्थः । कस्मिन्सति सर्ववेदनमित्यपेक्षायां  ब्रह्मवेदने इति पश्चात्संबन्धनीयम् ।

अन्यथानयनप्रकारमिति ।

अवान्तरप्रलयाभिप्रायमित्यर्थः । ये पुनराप (ब्र.अ.२ पा.३.सू.११) इत्यधिकरणेऽप्यपामाप एवेदमग्र आसुरिति प्रलयकाले सद्भावश्रवणादनुत्पत्तिरिति पूर्वपक्षयित्वा तस्यावान्तरप्रलयपरत्वेन सिद्धान्तयांबभूवुः , तेषां मतेन पुनरुक्तिः । अस्माभिस्त्वतिदेशत्वेन तद्व्याख्यातम् ।

ननु भाष्ये कथमनाम्नानात् प्राणानामनुत्पत्तिनिश्चयः ? न खलु प्रमाणाभावमात्रं प्रमेयाभावव्याप्तम् , पुराणनगरनिहितनिधिष्वदर्शनादत आह –

शब्दैकेति ।

महाभूतशब्दोऽस्मदाद्यनुपलभ्योत्पत्तिकपदार्थपरः । तथा च प्राणानामपि संग्राहको महाभूतोत्पत्तेः प्रतिपादकः शब्दो यत्र महाभूते प्राणलक्षणे निवर्तते , तत्र तस्या उत्पत्तेः प्रमाणाभावेन तदभावः , तस्या उत्पत्तेरभावः प्रतीयते इत्यर्थः । चैत्यवन्दनं तत्कर्म तस्य चैत्यस्य करणं निष्पादनं तयोर्धर्मताया यथाशब्दाभावान्निवृत्तिरित्यर्थः ।

अश्वेति ।

शेषलक्षणे स्थितन् - दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात्(जै.अ.३.पा.४ सू.३४) वरुणो वा एनं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात् तावतश्चतुष्कपालान्वारुणान् निर्वपेदित्यत्र दातुरिष्टिरित्युत्तराधिकरणे (जै.अ.३ पा.४.सू.३६ –३७) स्थास्यति ततो दाननिमित्तेष्टिः । सा किं लौकिकेऽश्वदाने वैदिके वेति संदेहो न तु लौकिकेऽश्वप्रतिग्रहे वैदिके वेति ; रागप्राप्तप्रतिग्रहस्याविहितत्वेन वैदिकत्वासंभवात् , तत्र दोषनिर्घातार्थत्वादिष्टेः , दोषस्य च न केसरिणो ददातीति प्रतिषिद्धलौकिकाश्वदान एव संभवात् , पौण्डरीकेऽश्वसहस्रं दक्षिणेत्यादिविशेषविधिविहिते तु वैदिकेऽश्वदाने सामान्यनिषेधाऽनवकाशेन दोषाऽप्राप्तेर्लौकिकेऽश्वदाने इष्टिरिति प्राप्तेऽभिधीयते अर्थवादोऽनुपपतात्तस्माद्यज्ञे प्रतीयते (जै.अ.३ पा.४ सू.३५) । न तावद्यथाश्रुति जलोदररूपवरुणग्रहदोषो  लौकिकेऽश्वदाने सति भवतीति प्रत्यक्षादिभिः प्रमीयते ; तत्रानेन दाने दोषः तन्निर्घातार्था चेष्टिरिति वदतो वाक्यभेदात् । न च - वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषमनुवदतीति – युक्तम् ; तथा सति प्रसिद्धित्यागात् । तत्त्यागे च वैदिकेऽपि दानेऽश्वत्यागजन्यदुःखेन वृणोतीति भवति वरुणशब्दः । तस्मात्प्राप्तस्यानुवादकोऽर्थवादोऽयम् । ततो यज्ञसंबन्धिनि दाने इष्टिरिति। ततः कस्तस्याः कर्तेति चिन्ता । तत्र अचोदितं च कर्म भेदात्(जै.अ.३.पा.४.सू.३६) । दातुरचोदितमिष्टिकर्म यः प्रतिगृह्णाति स निर्वपेदिति तस्य प्रतिग्रहीत्रा भेदाद् विशेषणादिति। सिद्धान्तस्तु – सा लिङ्गादार्त्विजे स्यात्(जै.अ.३.पा.४.सू.३८) । ॠत्विजामयमित्यार्त्विजो यजमानः तस्मिन्सेष्टिःस्यात् । प्रजापतिर्वरुणायाश्वमनयदित्युपक्रमे दातृकीर्तनाद् लिङ्गादुपक्रमाधीनत्वाच्चैकस्मिन् वाक्ये उपसंहारस्य । प्रतिगृह्णातीति च प्रतिग्रहकर्तृत्वमुच्यते । दाताऽपि प्रतिग्रहं करोति संप्रदानप्रेरणादिना । अतः प्रतिगृह्णातीति दातर्यप्यविरुद्धमिति। पानव्यापच्च तद्वत् (जै.अ.३.पा.४.सू.३८) । सौमेन्द्रं चरुं निर्वपद् श्यामाकं सोमवामिन इति श्रूयते । तत्राश्वप्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षवल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमने याग इन्द्रियेण वीर्येण व्यर्ध्यते यः सोमं वमतीति दोषाद् वमननिमित्तेन्द्रियशोषस्य दर्शनान्न वरुणग्रहवदप्राप्तिरित्यधिकशङ्का । वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति। सिद्धान्तस्तु लोके धातुसाम्यार्थत्वाद्वमनस्य तज्जन्येन्द्रियशोषस्य धातुसाम्यकरत्वान्न दोषता । वेदे तु ‘‘मा मे वाङ्नाभिमति गा’’ इति सम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्याद्दोष इति।

अग्निसाधनेति ।

अग्निश्चितोग्निः तत्साधनानि शर्करादीनि । अधिकारिपुरुषः स्रष्टा ।

तस्मादिति ।

प्राणा अपि नभोवद् ब्रह्मणो विकारा इत्युपरि संबद्यते । भूयसीनां प्राणोत्पत्तिश्रुतीनां ब्रह्मविज्ञानात्सर्वविज्ञानप्रतिज्ञासिद्ध्यर्थस्य चोत्तरस्य संदर्भस्य प्राणसृष्टिपरस्य प्राणा व्युच्चरन्तीत्यादेरनुग्रहाय तदीयान् प्राणानपेक्ष्य सा श्रुतिरुपपन्नार्थेति योजना । उपवासवाची योषधशब्द इति बौद्धाधिकरणे (ब्र.अ.२.पा.२. अधि.५) उक्तम् । तत्त्वान्तरतयैषामनुत्पत्तिरास्थेयेति ।  अविद्यादिवदनाद्यध्याससिद्धये साक्षिणाऽव्यवधानात् सुशुप्तेऽप्युपलम्भप्रसङ्गादित्यर्थः ।

तत्सामान्यादिति ।

अन्नादीनां ह्रासे ह्रासाद्वृद्धौ वृद्धेर्हि मन आदीनामन्नादिमयत्वं श्रुत्योच्यते , तदिन्द्रियान्तराणामपि तुल्यमित्यर्थः॥१॥२॥३॥ ब्रह्मकर्तृकायां नामरूपव्याक्रियायां विषये यावुपक्रमोपसंहारौ तत्पर्यालोचनया हेतुना उक्तैव सृष्टिदृष्टिरित्यन्वयः॥४॥

इति प्रथमं प्राणोत्पत्त्यधिकरणम्॥