भामतीव्याख्या
वेदान्तकल्पतरुः
 

श्रेष्ठश्च ।

न केवलमितरे प्राणा ब्रह्मविकाराः । श्रेष्ठश्च प्राणो ब्रह्मविकारः । “नासदासीत्” इत्यधिकृत्य प्रवृत्ते ब्रह्मसूक्ते नासदासीये सर्गात्प्रागानीदिति प्राणव्यापारश्रवणादसति च व्यापारानुपपत्तेः प्राणसद्भावाज्ज्येष्ठत्वश्रुतेश्च न ब्रह्मविकारः प्राण इति मन्वानस्य बहुश्रुतिविरोधेऽपि च श्रुत्योरेतयोर्गतिमपश्यतः पूर्वपक्षः । राद्धान्तस्तु बहुश्रुतिविरोधादेवानीदिति न प्राणव्यापारप्रतिपादिनी, किन्तु सृष्टिकारणमानीत्जीवति स्म आसीदिति यावत् । तेन तत्सद्भावप्रतिपादनपरा । ज्येष्ठत्वं च श्रोत्राद्यपेक्षमिति गमयितव्यम् । तस्माद्बहुश्रुत्यनुरोधान्मुख्यस्यापि प्राणस्य ब्रह्मविकारत्वमिति सिद्धम् ॥ ८ ॥

श्रेष्ठश्च॥८॥ पादाद्यधिकरणन्यायोऽत्रातिदिश्यते । ज्ञातेषु चक्षुरादिषु तद्व्यापारात् प्राणस्य भेदचिन्ता वक्ष्यमाणा सुकरेति तदनन्तरमनतिदेशः । आनीदित्यस्य महाप्रलयविषयत्वेनाधिकाशङ्कामाह –

नासदासीदितीति॥८॥

इति चतुर्थं प्राणश्रैष्ठ्याधिकरणम्॥