न वायुक्रिये पृथगुपदेशात् ।
सम्प्रति मुख्यप्राणस्वरूपं निरूप्यते । अत्र हि “यः प्राणः स वायुः” इति श्रुतेर्वायुरेव प्राण इति प्रतिभाति । अथवा “प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा”(छा. उ. ३ । १८ । ४) इति वायोर्भेदेन प्राणस्य श्रवणादेतद्विरोधाद्वरं तन्त्रान्तरीयमेव प्राणस्य स्वरूपमस्तु, श्रुती च विरुद्धार्थे कथञ्चिन्नेष्येते इति सामान्यकरणवृत्तिरेव प्राणोऽस्तु । न चात्रापि करणेभ्यः पृथक्प्राणस्यानुक्रमणश्रुतिविरोधो वृत्तिवृत्तिमतोर्भेदादिति पूर्वः पक्षः । सिद्धान्तस्तुन सामान्येन्द्रियवृत्तिः प्राणः । स हि मिलितानां वेन्द्रियाणां वृत्तिर्भवेत्प्रत्येकं वा । न तावन्मिलितानाम् , एकद्वित्रिचतुरिन्द्रियाभावे तदभावप्रसङ्गात् । नो खलु चूर्णहरिद्रासंयोगजन्मारुणगुणस्तयोरन्यतराभावे भवितुमर्हति । नच बहुविष्टिसाध्यं शिबिकोद्वहनं द्वित्रिविष्टिसाध्यं भवति । न च त्वगेकसाध्यं, तथा सति सामान्यवृत्तित्वानुपपत्तेः । अपिच यत्सम्भूय कारकाणि निष्पादयन्ति तत्प्रधानव्यापारानुगुणावान्तरव्यापारेणैव यथा वयसां प्रातिस्विको व्यापारः पञ्जरचालनानुगुणः । न चेन्द्रियाणां प्राणे प्रधानव्यापारे जनयितव्येऽस्ति तादृशः कश्चिदवान्तरव्यापारस्तदनुगुणः । ये च रूपादिप्रत्यया न ते तदनुगुणाः, तस्मान्नेन्द्रियाणां सामान्यवृत्तिः प्राणस्तथा च वृत्तिवृत्तिमतोः कथञ्चिद्भेदविवक्षया न पृथगुपदेशो गमयितव्यः । तस्मान्न क्रिया, नापि वायुमात्रं प्राणः, किन्तु वायुभेद एवाध्यात्मामापन्नः पञ्चव्यूहः प्राण इति ॥ ९ ॥
स्यादेतत् । यथा चक्षुरादीनां जीवं प्रति गुणभूतत्वाज्जीवस्य च श्रेष्ठत्वाज्जीवः स्वतन्त्र एवं प्राणोऽपि प्राधान्यात्श्रेष्ठत्वाच्च स्वतन्त्रः प्राप्नोति । नच द्वयोः स्वतन्त्रयोरेकस्मिन् शरीरे एकवाक्यत्वमुपपद्यत इत्यपर्यायं विरुद्धानेकदिक्क्रियतया देह उन्मथ्येत । इति प्राप्ते, उच्यते
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ।
यद्यपि चक्षुराद्यपेक्षया श्रेष्ठत्वं प्राधान्यं च प्राणस्य तथापि संहतत्वादचेतनत्वाद्भौतिकत्वाच्चक्षुरादिभिः सहशिष्टत्वाच्च पुरुषार्थत्वात्पुरुषं प्रति पारतन्त्र्यं शयनासनादिवद्भवेत् । तथाच यथा मन्त्रीतरेषु नैयोगिकेषु प्रधानमपि राजानमपेक्ष्यास्वतन्त्र एवं प्राणोऽपि चक्षुरादिषु प्रधानमपि जीवेऽस्वतन्त्र इति ॥ १० ॥
स्यादेतच्चक्षुरादिभिः सह शासनेन करणं चेत्प्राणः । एवं सति चक्षुरादिविषयरूपादिवदस्यापि विषयान्तरं वक्तव्यम् । नच तच्छक्यं वक्तुम् । एकादशकरणगणनव्याकोपश्चेति दोषं परिहरति
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ।
न प्राणः परिच्छेदधारणादिकरणमस्माभिरभ्युपेयते येनास्य विषयान्तरमन्विष्येत । एकादशत्वं च करणानां व्याकुप्येतापि तु प्राणान्तरासम्भवि देहेन्द्रियविधारणकारणं प्राणः । तच्च श्रुतिप्रबन्धेन दर्शितं न केवलं शरीरेन्द्रियधारणमस्य कार्यम् ॥ ११ ॥
अपिच
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ।
“विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्”(यो.सू. १-८) यथा मरुमरीचिकादिषु सलिलादिबुद्धयः । अतद्रूपप्रतिष्ठता च संशयेऽप्यस्ति तस्यैकाप्रतिष्ठानात् । अतः सोऽपि सङ्गृहीतः । “शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः”(यो.सू. १-९) । यद्यपि मिथ्याज्ञानेऽप्यस्ति वस्तुशून्यता तथापि न तस्य व्यवहारहेतुतास्ति । अस्य तु पण्डितरूपविचारासहस्यापि शब्दज्ञानमाहात्म्याद्व्यवहारहेतुभावोऽस्त्येव । यथा पुरुषस्य चैतन्यमिति । नह्यत्र षष्ठ्यर्थः सम्बन्धोऽस्ति, तस्य भेदाधिष्ठानत्वात् । चैतन्यस्य पुरुषादत्यन्ताभेदात् । यद्यपि चात्राभावप्रत्ययालम्बना वृत्तिर्नेष्यते तथापि विक्षेपसंस्कारलक्षणा मनोवृत्तिरिहास्त्येवेति सर्वमवदातम् ॥ १२ ॥
न वायुक्रिये पृथगुपदेशात्॥९॥ संगतिमाह –
संप्रतीति ।
उत्पत्तिचिन्तानन्तरमुत्पद्यमानस्वरूपं निरूप्यत इत्यर्थः । प्रयोजनं तु पूर्वपक्षे वायुमात्रादिन्द्रियमात्राच्च त्वंपदार्थस्य विवेकः कार्यः , सिद्धान्ते प्राणादपीति।
भाष्ये श्रुतिबलेन वायुरेव प्राण इत्येकं पूर्वपक्षमुक्त्वा सांख्यप्रसिद्धकरणव्यापारः प्राण इति पक्षान्तरमुक्तमयुक्तम् ; दृढश्रौतपक्षव्यतिरेकेण स्मार्तपक्षोपन्यासवैयर्थ्यादत आह –
अथवेति ।
छान्दोग्येऽध्यात्मं मनो ब्रह्मेत्युपासीतेति उपक्रम्य मन आख्यब्रह्मणो वाक् प्राणचक्षुःश्रोत्रैः पादैश्चतुष्पात्त्वमुक्तम् । वागादिभिर्हि मनः स्वविषयेषु प्रवर्तते , गौरिव पादैः तत्र प्राणा एवेति ब्रह्मणो वागाद्यपेक्षया चतुर्थः पादः । स च वायुनाऽऽधिदैविकेन भाति अभिव्यक्तो भवति। तपति च स्वव्यापारे उद्यच्छतीत्यर्थः । पदभाष्ये इन्द्रियप्रकरणाद् घ्राणेन्द्रियं प्राण इति व्याख्यातम् । अत्र तु प्राणशब्दश्रुतिवशान्मुख्यः प्राण इति एतद्विरोधादिति। एतयोर्भेदाभेदश्रवणयोर्विरोधादित्यर्थः ।
किं श्रुती हातव्ये ? नेत्याह –
कथंचिदिति ।
त्वयापि हि वायुप्राणयोः स्वरूपाभेदमाश्रित्याभेदश्रुतिः , वृत्तितद्वद्भेदाभिप्राया च भेदश्रुतिरिति व्याख्यातव्यमित्यर्थः ।
तर्हि किं वायुरेव प्राणोऽस्तु ? तदपि नेत्याह –
इति सामान्येति ।
यदा तु श्रुती त्याजितस्वार्थे , तदा करणव्यापारपरतयाऽपि कथंचिच्छक्ययोजने । शक्यते हि करणव्यापारे चलनाश्रयवाची वायुशब्द उपचरितुम् । तथा चाभग्नस्वार्थस्मृतिबलात्करणवृत्तिरेव प्राण इत्यर्थः ।
स्यादेतत् - ‘‘एतस्माज्जायते प्राणो मनः सर्वेद्रियाणि चे’’त्यादौ करणेभ्योऽपि पृथक् प्राणः स्वतन्त्रवदुपदिश्यते , स कथं करणव्यापारमात्रः स्यादतोऽत्रापि समः श्रुतिविरोध इत्यत आह –
न चात्रापीति ।
अस्ति तावद्वृत्तितद्वतोर्भेदः । यस्तु स्वतन्त्रवन्निर्देशः स जीवनाख्यकरणवृत्तेर्देहस्थित्युपयोगित्वेन प्राधान्यमभिप्रेत्येत्यर्थः ।
मा भूदनेकसाध्यो गुण एकस्मात्क्रिया तु किं न स्यादित्यत आह –
न चेति ।
विष्टयो वाहकाः । प्रत्येकवृत्तित्वे च प्रतीन्द्रियं प्राणभेदप्रसङ्गः ।
यदि मन्येत नानेकेन्द्रियवृत्तिः प्राणो यतः प्रत्येकमिलितविकल्पावकाशः , किंतु त्वह्यात्रवृत्तिरिति , तत्राह –
न च त्वगिति ।
न ते तदनुगुण इति ।
तदुपरमेऽपि सुषुप्तौ प्राणदर्शनादित्यर्थः ।
वायुभेद इति ।
वायोः परिणामरूपकार्यविशेष इत्यर्थः॥९॥
संहतत्वादिति ।
सत्त्वादिगुणसंहतिरूपत्वादित्यर्थः । एतच्च सांख्यदृष्ठ्योक्तम् ।
सिद्धान्तमाश्रित्याह –
अचेतनत्वादिति ।
एभिर्हेतुभिः पुरुषार्थत्वं पुरुषं प्रति शेषत्वं , ततश्च तत्पारतन्त्र्यमित्यर्थः ॥
धारणादीति ।
धारणं मेधा॥११॥ मिथ्याज्ञानत्वे हेतुरतद्रूपप्रतिष्ठत्वम् । पातञ्जलसूत्रे शब्दज्ञानानुपातित्वविशेषणेन विकल्पस्य विपर्ययाद्भेद उक्तः ।
तं विशदयति –
यद्यपीति ।
अधिष्ठानतत्त्वे प्रमिते व्यवहारहेतुत्वं विशेष इत्यर्थः ।
वस्तुशून्यत्वं विकल्पस्य दर्शयति –
न ह्यत्रेति ।
ननु मनसो निद्रावृत्तिरित्यसूत्रयत् पतञ्जलिरभावप्रत्ययेत्यादिना , सिद्धान्ते च सुषुप्तौ मनोलय इष्टः , अतः कथं तत्रान्तरस्थपञ्चवृत्तिता आह –
यद्यपीति ।
सूत्रमीक्षत्यधिकरणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम्॥१२॥