अणुश्च ।
“समस्त्रिभिर्लोकैः” इति विभुत्वश्रवणाद्विभुः प्राणः, “समः प्लुषिणा”(बृ. उ. १ । ३ । २२) इत्याद्यास्तु श्रुतयो विभोरप्यवच्छेदाद्भविष्यन्ति । यथा विभुन आकाशस्य कुटकरकाद्यवच्छेदात्कुटादिसाम्यमिति प्राप्त आह
अणुश्च ।
उत्क्रान्तिगत्यागतिश्रुतिभ्य आध्यात्मिकस्य प्राणस्यावच्छिन्नता न विभुत्वम् । दुरधिगमतामात्रेण च शरीरव्यापिनोऽप्यणुत्वमुपचर्यते न त्वणुत्वमित्युक्तमधस्तात् । यत्त्वस्य विभुत्वान्मानं तदाधिदैविकेन सूत्रात्मना समष्टिव्यष्टिरूपेण न त्वाध्यात्मिकेन रूपेण । तदाश्रयाश्च “समः प्लुषिणा”(बृ. उ. १ । ३ । २२) इत्येवमाद्याः श्रुतयो देहसाम्यमेव प्राणस्याहुः स्वरूपतो न तु करकाकाशवत्परोपाधिकतया कथञ्चिन्नेतव्या इति ॥ १३ ॥
अणुश्च॥१३॥ अणवश्चेत्यत्र साङ्क्योक्तमाहंकारिकत्वकृतं व्यापित्वमिन्द्रियाणां निरस्तम् । वादिविप्रतिपत्तिनिरासोऽपि श्रुतिविरोधनिराकरणपरे पादे प्रसङ्गात् संगच्छते । प्राणेषु हि प्रस्तुतेषु तत्परिमाणस्यापि वादिसंमतस्य बुद्धिस्थत्वात् । अत्र तु श्रुत्यावगतप्राणव्यापित्वमाधिदैविकविषयं व्यवस्थाप्यते इति न तुल्यन्यायता । अतएव भाष्यकारनिबन्धकाराभ्याम् अणवश्चेत्यत्र न काचन श्रुतिरुदाहृता । अन्ये त्वाहुः - तस्यातिदेशोऽयम् , समोऽनेन सर्वेणेति व्यापित्वश्रुतेश्चाधिका शङ्का आधिदैविकविषयत्वेन च तन्निरासः - इति। तन्न ; सर्वेऽनन्ता इतीन्द्रियाणामपि व्यापित्वश्रवणस्य व्यवस्थायाश्च साम्यात् । अपरे प्रतिपादयन्ति – तत्र चात्र चेन्द्रियाणां प्राणस्य च व्यापित्वपरिच्छिन्नत्वश्रुतय उदाहरणम् । तत्रेन्द्रियव्याप्तिश्रुतीनां ‘‘स यो हैताननन्तानुपास्ते’’ इत्युपास्तिविषयत्वादुपास्तेश्चारोपेणाप्युपपत्तेर्न व्याप्तिसाधकत्वमित्युक्तम् , अत्र तु समोऽनेन सर्वेणेत्यादेः प्राणव्याप्तिश्रवणस्याधिदेविकविषयत्वं वर्ण्यत - इति तन्न ; अत्रापि समत्वात् , साम प्राण इति व्युत्पाद्य य एवमेतत् साम वेदेत्युपास्तिविधानाद् , हेतुभेदस्य चाधिकरणाभेदकत्वादिति। कुटो घटः ।
यत्त्वस्य विभुत्वाम्नानमिति ।
सम एभिस्त्रिभिर्लोकैरित्येतदित्यर्थः । समष्टिः सामान्यम् । व्यष्टिः विशेषस्तद्रूपेण ।
यस्तु विशेषमात्ररूपः प्राणो न तद्रूपेण विभुत्वाम्नानमित्याह –
न त्विति ।
आत्मनि शरीरे भवतीत्याध्यात्मिकम् । प्लुषिर्मशकादपि सूक्ष्मशरीरः पुत्तिकाख्यो जन्तुविशेषः । तदाश्रया आध्यात्मिकप्राणाश्रयाः॥१३॥