भामतीव्याख्या
वेदान्तकल्पतरुः
 

संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।

सत्प्रक्रियायां “तत्तेज ऐक्षत”(छा. उ. ६ । २ । ३) इत्यादिना सन्दर्भेण तेजोऽबन्नानां सृष्टिं विधायोपदिश्यते “सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि”(छा. उ. ६ । ३ । २) इति । अस्यार्थः पूर्वोक्तं बहुभवनमीक्षणप्रयोजनमद्यापि सर्वथा न निष्पन्नमिति पुनरीक्षां कृतवती बहुभवनमेव प्रयोजनमुद्दिश्य कथं हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवताः पूर्वसृष्टावुभूतेन सम्प्रति स्मरणसन्निधापितेन जीवेन प्राणधारणकर्त्रात्मनानुप्रविश्य बुद्ध्यादिभूतमात्रायामादर्श इव मुखबिम्बं तोय इव चन्द्रमसो बिम्बं छायामात्रतयानुप्रविश्य नाम च रूपं च ते व्याकरवाणि विस्पष्टं करवाणीदमस्य नामेदं च रूपमिति । तासां तिसृणां देवतानां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकामेकैकां देवतां करवाणीति । तत्र संशयः किं जीवकर्तृकमिदं नामरूपव्याकरणमाहो परमेश्वरकर्तृकमिति । यदि जीवकर्तृकं ततः “आकाशो ह वै नाम नामरूपयोर्निर्वहिता”(छा.उ. ८ । १ । ४ ) इत्यादिश्रुतिविरोधादनध्यवसायः । अथ परमेश्वरकर्तृकं, ततो न विरोधः । तत्र डित्थडवित्थादिनामकरणे च घटपटादिरूपकरणे च जीवकर्तृत्वदर्शनादिहापि त्रिवृत्करणे नामरूपकरणे चास्ति सम्भावना जीवस्य । तथाच योग्यत्वादनेन जीवेनेति व्याकरवाणीति प्रधानक्रियया सम्बध्यते, न त्वानन्तर्यादनुप्रविश्येत्यनेन सम्बध्यते । प्रधानपदार्थसम्बन्धो हि साक्षात्सर्वेषां गुणभूतानां पदार्थानामौत्सर्गिकस्तादर्थ्यात्तेषाम् । तस्य तु क्वचित्साक्षादसम्भवात्परम्पराश्रयणं, साक्षात्सम्भवश्च योग्यतया दर्शितः । ननु सेयं देवतेति परमेश्वरकर्तृत्वं श्रूयते । सत्यम् । प्रयोजकतया तु तद्भविष्यति । यथा लोके चारेणाहं परसैन्यमनुप्रविश्य सङ्कलयानीति । यदि पुनरस्य साक्षात्कर्तृभावो भवेदनेन जीवेनेत्यनर्थकं स्यात् । नहि जीवस्यान्यथा करणभावो भवितुमर्हति । प्रयोजककर्तुस्तत्साक्षात्कर्ता करणं भवति प्रधानक्रियोद्देशेन प्रयोजकेन प्रयोज्यकर्तुर्व्यापनात् । तस्मादत्र जीवस्य कर्तृत्वं नामरूपव्याकरणेऽन्यत्र तु परमेश्वरस्येति विरोधादनध्यवसाय इति प्राप्तम् । एवं प्राप्त उच्यते परमेश्वरस्यैवेहापि नामरूपव्याकर्तृत्वमुपदिश्यते न तु जीवस्य, तस्य प्रधानक्रियासम्बन्धं प्रत्ययोग्यत्वात् । नन्वन्यत्र डित्थडवित्थादिनामकर्मणि घटशरावादिरूपकर्मणि च कर्तृत्वदर्शनादिहापि योग्यता सम्भाव्यत इति चेत् । न । गिरिनदीसमुद्रादिनिर्माणासामर्थ्येनार्थापत्त्यभावपरिच्छिन्नेन सम्भावनापबाधनात् । तस्मात्परमेश्वरस्यैवात्र साक्षात्कर्तृत्वमुपदिश्यते न जीवस्य । अनुप्रविश्येत्यनेन तु सन्निहितेनास्य सम्बन्धो योग्यत्वात् । न चानर्थक्यं त्रिवृत्करणस्य भोक्तृजीवार्थतया तदनुप्रवेशाभिधानस्यार्थवत्त्वात् । स्यादेतत् । अनुप्रविश्य व्याकरवाणीति समानकर्तृत्वे क्त्वः स्मरणात्प्रवेशनकर्तुर्जीवस्यैव व्याकर्तृत्वमुपदिश्यतेऽन्यथा तु परमेश्वरस्य व्याकर्तृत्वे जीवस्य प्रवेष्टृत्वे भिन्नकर्तृकत्वेन क्त्वः प्रयोगो व्याहन्येतेत्यत्राह

नच जीवो नामेति ।

अतिरोहितार्थमन्यत् ॥ २० ॥

मांसादि भौमं यथाशब्दमितरयोश्च ।

अत्र भाष्यकृतोत्तरसूत्रशेषतया सूत्रमेतद्विषयोपदर्शनपरतया व्याख्यातम् । शङ्कानिराकरणार्थत्वमप्यस्य शक्यं वक्तुम् । तथाहि - योऽन्नस्याणिष्ठो भागस्तन्मनस्तेजसस्तु योऽणिष्ठो भागः स वागित्यत्र हि काणादानां साङ्ख्यानां चास्ति विप्रतिपत्तिः । तत्र काणादा मनो नित्यमाचक्षते । साङ्ख्यास्त्वाहङ्कारिके वाङ्मनसे । अन्नभागतावचनं त्वस्यान्नसम्बन्धलक्षणार्थम् । अन्नोपभोगे हि मनः स्वस्थं भवति । एवं वाचोऽपि पाटवेन तेजःसाम्यमभ्यूहनीयम् । तत्रेदमुपतिष्ठते

मांसादीति ।

वाङ्मनस इति वक्तव्ये मांसाद्यभिधानं सिद्धेन सह साध्यस्योपन्यासो दृष्टान्तलाभाय । यथा मांसादि भौमाद्येवं वाङ्मनसे अपि तैजसभौमे इत्यर्थः । एतदुक्तं भवति - न तावद्ब्रह्मव्यतिरिक्तमस्ति किञ्चिन्नित्यम् । ब्रह्मज्ञानेन सर्वज्ञानप्रतिज्ञाव्याघातात् , बहुश्रुतिविरोधाच्च नाप्याहङ्कारिकम् , अहङ्कारस्य साङ्ख्याभिमतस्य तत्त्वस्याप्रामाणिकत्वात् । तस्मादसति बाधके श्रुतिराञ्जसी नान्यथा कथञ्चिन्नेतुमुचितेति कञ्चिद्दोषमित्युक्तं तं दोषं दर्शयन्नाह पूर्वपक्षी

यदि सर्वमेव इति ॥ २१ ॥

वैशेष्यात्तु तद्वादस्तद्वादः ।

त्रिवृत्करणाविशेषेऽपि यस्य च यत्र भूयस्त्वं तेन तस्य व्यपदेश इत्यर्थः ॥ २२ ॥

इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमद्भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥

संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥२०॥ उत्पद्यमानव्यापर उत्पत्तिः । उत्पादकव्यापार उत्पादना । तत्र जगदुत्पत्तिविषयश्रुतिविरोध इतः प्राक् पादद्वये निरस्तः । इदानीम् उत्पादनाविषयश्रुतिविरोधो निरस्यते । तत्रात्रिवृत्कृतभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविगीतमवगतम् , भौतिकनिर्माणे तु श्रुतिषु विप्रतिपत्तिर्दृश्यते इति तन्निरासाय यत्यते । विषयप्रदर्शकं भाष्यमुदाहृत्य व्याचष्टे –

अस्यार्थ इत्यादिना ।

ननु ‘तदैक्षत बहु स्या प्रजायेय’ इतीक्षणं ब्रह्मण उक्तम् , अतः कथं सेयं देवतैक्षतेति पुनरुच्यतेऽत आह –

पूर्वोक्तमिति ।

अत्रिवृत्कृतभूतानां सूक्ष्मत्वेन व्यवहारायोग्यत्वादीक्षणस्य प्रयोजनं बहुभवनं सामस्त्येन न निष्पन्नमित्यर्थः । अस्मानपेक्ष्य परोक्षत्वात्तेज आदिषु देवताशब्दः ।

ननु प्रलयसमये प्राणाभावात् कथं तद्धारणनिमित्तजीवशब्दस्तत्राह –

पूर्वसृष्टाविति ।

सत्यप्यविद्योपहिते जीवे प्राणोपाध्यभिव्यक्तिरूपाभावाभिप्राया स्मरणसन्निधापितत्वोक्तिः ।

भूतमात्रायां भूतकार्ये रूपनिष्पत्त्यर्था या त्रिवृत्करणश्रुतिस्तां व्याचष्टे –

तासामिति ।

तासां मध्ये एकैकां त्रिवृतं करवाणीति योजना । नामरूपनिर्माणेऽपि समाननामरूपत्वमुक्तं न प्रस्मर्तव्यम् । ततश्च न शब्दार्थसंबन्धस्य कृत्रिमत्वशङ्का ।

जीवेनेत्यस्य व्याकरणानुप्रवेशसंबन्धाभ्यां संशयमाह –

तत्रेति ।

जीवस्य समुद्रादिनामरूपनिर्माणयोग्यत्वाभावात् जीवेनेत्यस्य व्याकरवाणीत्यनेनासंबन्धे पूर्वपक्षाभावमाशङ्क्याह –

डित्थेति ।

अस्ति तावत् सामान्येन नामरूपनिर्माणे जीवस्य योग्यत्वं , तावन्मात्रं चान्वयोपयोगि ; विशेषाणामानन्त्येनाशक्यज्ञानत्वात् । यथाह – सामान्येनैव योग्यत्वं लोके यदवधारितम् । तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ॥इति।

योग्यतामुपपाद्याकाङ्क्षामाह –

प्रधानक्रिययेति ।

ननु जीवेनेत्यस्यानुप्रविश्येत्यनेन सन्निधिरस्तीति , तत्राह –

न त्विति ।

आकाङ्क्षायोग्यताभ्यां लिङ्गाभ्यां सन्निधिः स्थानलक्षणो दुर्बल इत्यर्थः ।

प्रधानक्रिययेत्येतद्विवृणोति –

प्रधानपदार्थेति ।

क्वचिदित्यारुण्यादौ परम्परया संबन्धाश्रयणमित्यर्थः ।

ननु व्याकरवाणीत्यस्य मुख्यार्थस्वीकारे को बाधः ? यतः प्रयोजकव्यापारलक्षणा , तत्राह –

यदि पुनरिति ।

स्यादेतत् - साक्षात्कर्त्र्या देवतायाः करणं भवतु जीवस्तक्ष्ण इव वास्यादीति , नेत्याह –

न हि जीवस्येति ।

जीवो हि चेतनत्वात् कर्ता , यत्र च कर्ता कर्त्रन्तरं प्रतिकरणं तत्र करणभूतस्य स्वतन्त्रकर्तृत्वमितरस्य तु प्रयोजककर्तृत्वं चारेण संकलयानीत्यादौ तथा दर्शनादित्यर्थः ।

नामकर्मणीति ।

नामोत्पादने इत्यर्थः ।

सामान्यतोऽवगतयोग्यत्वस्य विशेषे बाधकप्रमाणाभावादपवादमाह –

न गिरिनदीति ।

अर्थापत्त्यभावेति ।

करणसामर्थ्ये हि प्रमाणं कार्यजनकत्वान्यथानुपपत्तिर्जीवस्य च समुद्रादिजनकत्वादर्शनात् तच्छक्तौ नार्थापत्तिरस्ति , तेन सामर्थ्याभावोऽर्थापत्त्यनुदयपरिच्छिन्न इत्यर्थः ।

जीवेनेत्यस्य व्याकरवाणीति प्रतिप्रधानान्वययोग्यतायां निरस्तायां सन्निधेरेव साम्राज्यमित्याह –

अनुप्रविश्येत्यनेन त्विति ।

त्तवः क्त्वाप्रत्ययस्य ॥२०॥

अन्नभागतेति ।

योऽणिष्ठस्तन्मन इत्युक्ता अन्नस्य सूक्ष्मभागात्मतेत्यर्थः । वाचः पटुत्वात्तेजसा साम्यमस्ति तत्तेजोमयी वागित्युक्तमित्यूहनीयमित्यर्थः । तेज इत्यग्निदीपकं घृताद्युच्यते ।

तेजसः सूक्ष्मो भागो वाग् अन्नस्याशितस्य सूक्ष्मो भागो मन इति श्रुतिवशाद् वाङ्मनसयोस्तैजसभोमत्वे वक्तव्ये कथं मांसादेर्भौमत्वमुच्यते ? अत्राह –

वाङ्मनसी इति ।

मांसादीत्यादिशब्देनाप्तेजःकार्ययोर्मज्जालोहितयोर्ग्रहणम् । मज्जा नामास्थोऽभ्यन्तरो रसः ।f

नित्यत्वं मनसो दूषयति –

न तावदिति ।

नाप्याहंकारादिकं मन आदीति शेषः॥२१॥ भूयस्त्वं भूतानां स्वस्वार्धाधिक्यम् । तच्च ईक्षत्यधिकरणेऽस्माभिर्दर्शितमिति॥२२॥

इति नवमं संज्ञाक्लृप्त्यधिकरणम्॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यायस्य चतुर्थः पादः॥

समाप्तश्चायमविरोधाख्यो द्वितीयोऽध्यायः॥