भामतीव्याख्या
वेदान्तकल्पतरुः
 

तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं सम्बन्धं दर्शयन् सुखावबोधार्थमर्थसङ्क्षेपमाह –

द्वितीयेऽध्याय इति ।

स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथा च प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिद्ध्येदिति । अवान्तरसङ्गतिं दर्शयितुं तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि चेत्युक्तम् ।

अध्यायार्थसङ्क्षेपमुक्त्वा पादार्थसङ्क्षेपमाह –

तत्र प्रथमे तावत्पाद इति ।

तस्य प्रयोजनमाह –

वैराग्य इति ।

पूर्वापरपरिशोधनाय भूमिकामारचयति –

जीवो मुख्यप्राणसचिव इति ।

करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति ।

अत्र च करणोपादानश्रुत्यैव भौतिकत्वात्करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः । यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानवदेवश्रोष्यत् । नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु करणमात्रपरिष्वक्तः । नह्यागमैकगम्येऽर्थे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति ।

नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याह –

सुलभाश्च सर्वत्र भूतमात्रा इति ।

द्युपर्जन्य इति ।

इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवक्षन्त्याह श्रुतिः “असौ वाव लोको गौतमाग्निः”(छा. उ. ५ । ४ । १) इत्यादि । अत्र सायम्प्रातरग्निहोत्राहुतो, हुते पय आदिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्सम्बन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये । तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते । असौ वाव द्युलोको गौतमाग्निः । यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धाशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः । अस्यादित्य एव समित् । तेन हीद्धोऽसौ द्युलोको दीप्यतेऽतः समिन्धनात्समित्तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् । अहरर्थिः । प्रकाशसामान्यादादित्यकार्यत्वाच्च । चन्द्रमा अङ्गारः । अर्चिषः प्रशमेऽभिव्यक्तेः । नक्षत्राप्यस्य विस्फुलिङ्गाः चन्द्रमसोऽङ्गारस्यावयवा इव विप्रकीर्णतासामान्याद्विस्फुलिङ्गः । तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् । श्रद्धां जुह्वति श्रद्धा चोक्ता । पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित् । वायुना हि पर्जन्योऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं धूमः । धूमकार्यत्वात्धूमसादृश्याच्च । विद्युदर्चिः । प्रकाशसामान्यात् । अशनिरङ्गाराः काठिन्याद्विद्युत्सम्बन्धाच्च । गर्जितं मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् । तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति । एतदुक्तं भवति श्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति । “पृथिवी वाव गौतमाग्निः”(छा. उ. ५ । ६ । १) तस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् । संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते । आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते । रात्रिरर्चिः पृथिव्याः श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरूपमर्चिः । दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् । अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् । तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति । पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् । वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते । प्राणो धूमः । धूमवन्मुखान्निर्गमात् । जिह्वार्चिः लोहितत्वसाम्यात् । चक्षुरङ्गाराः प्रभाश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् । ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपैः परिणता सत्यः पुरुषेऽग्नौ हुतास्तासां परिणामो रेतः सम्भवति । योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् । तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः । स्त्रीसम्भवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् । यदन्तः करोति मैथुनं तेऽङ्गाराः । अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति । एवं श्रद्धासोमवर्षान्नरेतोहवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति । तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति । यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते । एतदुक्तं भवति श्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजोऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि सङ्ग्रह इत्येतदपि वक्ष्यते । यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोबन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात् , तथापीष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरया “आकाशाच्चन्द्रमसमेष सोमो राट्”(छा. उ. ५ । १० । ४) इति श्रुत्या सह “श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति”(छा. उ. ५ । ४ । २) इत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति । तथाहि या एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति । ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु । को दोषः । अयं दोषः । यतः श्रुतिसामान्यातिक्रम इति । एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् । अन्यथा तु न श्रुतिसामान्यं स्यात् । तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते । अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति ।

चोदयति –

नन्वन्या श्रुतिरिति ।

अयमर्थः एवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत्यद्यस्य स्थूलं शरीरं रंहतो न भवेत् । अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति ।

परिहरति –

तत्रापीति ।

न तावत्परमात्मनः संसरणसम्भवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् । किन्तु जीवानाम् । परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति । तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते ।

साङ्ख्यानां कल्पनामाह –

व्यापिनां करणानामिति ।

आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः ।

बौद्धानां कल्पनामाह –

केवलस्यैवात्मन इति ।

आलयविज्ञानसन्तान आत्मा तस्य वृत्तिः षट्प्रवृत्तिविज्ञानानि । पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते ।

कणभुक्क्ल्पनामाह –

मन एव चेति ।

भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् ।

दिगम्बरकल्पनामाह –

जीव एवोत्प्लुत्येति ।

आदिग्रहणेन लोकायतिकानां कल्पनां सङ्गृह्णाति । ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति ॥ १ ॥

चोदयति –

ननूदाहृताभ्यामिति ।

अत्र सूत्रेणोत्तरमाह –

त्र्यात्मकत्वात्तु भूयस्त्वात् ।

तेजसः कार्यमशितपीताहारपरिपाकः । अपां कार्यं स्नेहस्वेदादि । पृथिव्याः कार्यं गन्धादि ।

यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याह –

पुनश्च त्र्यात्मक इति ।

वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् । अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।

अब्ग्रहणनियमस्तर्हि कस्मादित्यत आह –

तस्माद्भूयस्त्वापेक्ष इति ।

पृथिवीधातुवर्जमितरतेज आद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था ॥ २ ॥

प्राणगतेश्च ।

प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् । अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति । स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते । नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति ॥ ३ ॥

अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ।

श्रावितेऽपि स्पष्टे जीवस्य प्राणैः सह गमनेऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था । अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् । एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति । भक्तिश्चोपकारनिवृत्तिरुक्ता ॥ ४ ॥

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ।

पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होतव्यताभिधानसम्भद्धमनुपपन्नं च । नहि यथा पश्वादिभ्यो हृदयादयोऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते । न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते । तस्माद्भक्त्यायमप्सु श्रद्धाशब्दः प्रयुक्त इति । अत एव श्रुतिः “आपो हास्मै”(ऐ .आ. २.१.७.) इति ॥ ५ ॥

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।

अस्यार्थः पूर्वमेवोक्तः । अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट् , तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम् ॥ ६ ॥

सूत्रान्तरमवतारयितुं शङ्कते –

कथं पुनरिति ।

सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति ।

क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः ।

अत उत्तरं पठति –

भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ।

कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभक्ष्यत्वे ‘स्वर्गकामो यजेत’ इति यागभावनायाः कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तॄणामेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य इति ।

अत्रैवार्थे श्रुत्यन्तरं सङ्गच्छत इत्याह –

तथाहि दर्शयति ।

श्रुतिरनात्मविदामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया । यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह दधिपयःपुरोडाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः । अथवा अनात्मवित्त्वात्तथाहि दर्शयति इत्यस्यान्या व्याख्या । आत्मवित्पञ्चाग्निविद्यावित्न आत्मवितनात्मवित् । यो हि पञ्चाग्निविद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् । तदनेनोपचारस्य प्रयोजनमुक्तम् ।

उपचारनिमित्तमनुपपत्तिमाह –

तथाहि दर्शयति ।

श्रुतिर्भोक्तृत्वम् ।

स सोमलोके विभूतिमनुभूयेति ।

शेषमतिरोहितार्थम् ॥ ७ ॥

स्मृतिन्यायेति ; अत्रेति ; न ह्यागमैकेति ; इह हीति ; अत्र सायमित्यादिना ; आहवनीयाग्नीति ; असौ वावेत्यादिना ; आदित्यकार्यत्वाच्चेति ; अग्न्यादिरूपा इति ; गर्जितमिति ; श्रद्धाख्या इति ; प्रगे इति ; प्रसन्नानामिति ; लोमानि वेति ; यद्यपीत्यादिना ; तथापीष्टादिकारिणामिति ; तथा हि या एवेति ; ननु स्वतन्त्रा इति ; अयं दोष इति ; येन रूपेणेति ; तस्मादिति ; एवं हि सूक्ष्मेति ; सूक्ष्मशरीरं भूतसूक्ष्माणीति ; न तावदिति ; परमात्मैव चेति ; तस्य चेति ; उत्पादनाया इति ; तेजस इत्यादिना ; अतो न स देह इति ; जीवद्देहे इति ; तदनुविधायिनः इति ; सूक्ष्म इति ; भूतेन्द्रियमय इति ; शावितेऽपीति ; अत्र हीत्यादिना ; तेषामपीति ; श्रुतिविरोधादिति ; पञ्चम्यामाहुतावित्यादिना ; न चाप्येवमिति ; अत एवेति ; षट्प्रश्नीति ; क्रियेति ; सोममयाल्लोकानिति ;

कल्पादौ नूनमाशा हरिरसृजदमूः कीर्तिविस्तारविज्ञः ।
श्रीमद् व्यासाश्रमस्य प्रतिवदनमधात्कर्णयुग्मं विरिञ्चिः ॥

श्रोतुं वाचस्पतेर्वाक् सरणिषु विततं कल्पवृक्षं निबन्धम् ।
भेजे वज्री सहस्रं चरितमभिनवं द्रष्टुमक्ष्यम्बुजानाम् ॥१॥

इदममलात्मनः - मत्सरपित्तनिदानां विदुषामरुचिं चिकित्सति प्रबलाम् ।
स्वगुणगणामृतवर्षैः कृतिरेषा कर्णरन्धगता ॥२॥

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१॥

अविरोधेन वेदान्तवेद्यं ब्रह्म निरूपितम् ।
तत्प्राप्तिसाधनं ज्ञानं सोपायमिह चिन्त्यते ॥

हेतुहेतुमद्भावं विशदयति –

स्मृतिन्यायेति ।

स्मृतिन्यायश्रुतिभिः सह श्रुतीनां विरोधपरिहारेणेति योजना । अवान्तरसंगतिः पादसंगतिः । भाष्ये प्रसङ्गागतमिति देहात्मव्यतिरेकादिरुक्तः । पूर्वापरौ पूर्वोत्तरपक्षौ । भूमिकेति विषयः । भूतपरिष्वङ्गे प्राणानां नरकादिगमनाद्वैराग्यम् , न चेद् निराश्रयप्राणगत्यभावान्नेति चिन्ताप्रयोजनम् ।

करणेषु उपात्तेषु भूतानुपादानं व्याहतम् ; कार्यस्वीकारे तत्प्रकृतिस्वीकारस्यावश्यंभावादित्याशङ्क्याह –

अत्रेति ।

ननु भूतोपादानस्याश्रवणं तदभावगमकं न भवति ; सत्यपि प्रमेये प्रमाणानुदयसंभवादत आह –

न ह्यागमैकेति ।

नानाप्रमाणगम्ये हि वस्तुन्येकप्रमाणानुत्पत्तावपि प्रमाणान्तरप्रवृत्तिशङ्कया वस्तुसद्भावशङ्का स्यात् , न त्विहेत्यर्थः ।

अनग्निषु द्युलोकादिष्वग्नित्वस्यानाहुतित्वस्योपचारे निमित्तमाह –

इह हीति ।

यदि शरीरोत्पत्त्यवस्थामाहुतिजां पञ्चाहुतित्वेन प्रविभज्य तदाधारेषु द्युलोकादिष्वग्नित्वसंपादनं विधीयते , कथं तर्ह्यापः पुरुषवचस इति प्रश्ने आहुतावपूशब्दः? कथं वा प्रतिवचने श्रद्धां जुह्वतीति श्रद्धाशब्दः? अत आह –

अत्र सायमित्यादिना ।

श्रद्धापूर्वं हुते इत्यन्वयः ।

वक्ष्यमाणरूपकसिद्धार्थमाह –

आहवनीयाग्नीति ।

पञ्चाग्निविद्याश्रुतिमुदाहृत्य व्याचष्टे –

असौ वावेत्यादिना ।

आदित्यकार्यत्वाच्चेति ।

समिद्रूपादित्यकार्यत्वादहरर्चिः ; प्रसिद्धस्यार्चिषः समित्कार्यत्वादित्यर्थः । अधिदैवं यजमानप्राणा इत्यन्वयः ।

तन्निर्दिशति –

अग्न्यादिरूपा इति ।

ह्रादुनयो विस्फुलिङ्गा इति श्रुति व्याचष्टे –

गर्जितमिति ।

अग्निरूपा इत्यग्न्यादिरूपा इति द्रष्टव्यम् । स्वर्गे आराब्धो देहः सोमो राजा ।

यद्यपि श्रद्धा सोम इत्यादिराहुतिभेदः श्रूयते ; तथापि जीवस्य भूतपरिष्वङ्गसिद्ध्यर्थमाप एव तत्तदाकारपरिणतास्तथा तथा निर्दिश्यन्त इत्याह –

श्रद्धाख्या इति ।

प्रगे इति ।

प्रभाते इत्यर्थः ।

स्वरूपाभावमुपशममाशङ्क्याह –

प्रसन्नानामिति ।

श्रोत्रं शब्दश्रवणार्थं दिक्षु विप्रकीर्णमिव । उपमन्त्रणं संकेतः ।

श्रुत्यन्तरवशेनाह –

लोमानि वेति ।

तानि च गौह्यानि धूमोऽर्चिर्जन्यत्वादित्यर्थः । सुखलवविस्फुलिङ्गहेतुत्वाद् ग्राम्यकर्मणोऽङ्गारत्वम् । अप्समवायित्वाद्गर्भस्येति शेषः ।

अश्रुतत्वादिति सूत्रार्थमिह प्राप्तावसरं दर्शयति –

यद्यपीत्यादिना ।

कर्मिणां चन्द्रलोकारोहावरोहावाश्रित्य पञ्चाग्निदर्शनमुच्यते । तत्र दक्षिणमार्गे ‘‘तद्य इमे ग्राम इष्टाद्युपासते धूममभिसंभवन्ति’’ इत्युपक्रम्य ‘‘एष सोमो राजे’’ति चन्द्रलोकप्राप्तः पुरुषो निर्दिष्टः , पञ्चाग्निविद्यायामपि स्वर्गे लोके सोमो राजा भवतीति स एव निर्दिश्यते ।

सोमराजश्रुतिसाम्यात्स्वर्गाख्यस्थानसाम्याच्चेत्याह –

तथापीष्टादिकारिणामिति ।

श्रद्धां जुह्वतीत्यत्रापामिष्टादिकारिभिरन्वयमुक्त्वा एष सोमोराजेत्यत्र कर्तॄणां श्रद्धावाक्यावगताभिरद्भिः परिष्वङ्गमाह –

तथा हि या एवेति ।

अन्त्याहुत्यपेक्षया द्वितीया श्रद्धाहुतिः । अथ वा - पर्जन्याग्नौ द्वितीये द्वितीयस्यामाहुतौ होतव्यायां सोमभावं गता इत्यर्थः । अस्मिन्पक्षे प्रत्यवरोहसाम्यं वाक्यद्वये दर्शितम् । तथा हि – पञ्चाग्निविद्यायां पर्जन्यादिष्वग्निषु हुतस्य सोमराजस्य वृष्ठ्यन्नरेतोभाव आम्नायते । तथा दक्षिणमार्गेऽपि प्रत्यवरूढानां सोमराजानां तथाभावो वायोर्वृष्टिं ते पृथिवी प्राप्यान्नं भवन्तीत्यादिना । अतश्च श्रद्धावाक्ये कर्मिणां लाभ इत्यर्थः । चन्द्रलोकं प्राप्तस्ततश्चन्द्रभूयं चन्द्रभावममृतमयशरीरात्मतां गत इत्यर्थः ।

वाक्यद्वयस्थसोमराजशब्दयोरर्थभेदं शङ्कते –

ननु स्वतन्त्रा इति ।

श्रद्धावाक्ये आप एव सोमाख्यशरीरभावमाप्नुवन्तु , एष सोमो राजेत्यत्र तु अद्भिरपरिष्वक्त इन्द्रियमात्रोपहितश्चन्द्रलोकं गत्वा सोमशरीरं भुङ्क्तामित्यर्थः ।

उत्तरम् –

अयं दोष इति ।

येन रूपेणेति ।

अमृतमयशरीराभिमानित्वेनेत्यर्थः । क्रम आहुतिपरिणामलक्षण: ।

शब्दमात्रसाम्यमगमकं - बटोरप्यग्निशब्दाविशेषाद् ज्वलनाभेदप्रसङ्गादित्याशङ्क्याह –

तस्मादिति ।

अप्शब्दात्पुरुषवचस इति पुरुषशब्दाच्च केवलभूतगमनस्य पुरुषाधिष्ठितभूतगमनस्य च संशये सोमराजशब्दसाम्यं निर्णायकं भवति , माणवकस्य तु ज्वलनाद्भेदनिश्चयान्नाभेदापात इत्यर्थः ।

एवं हि सूक्ष्मेति ।

सूक्ष्मशरीरं भूतसूक्ष्माणीति ।

जलूकैव जलायुका । ननु - व्यापकस्यात्मन इह देहान्तराभिमानपूर्वकमेतद्देहत्यागः संभवति , तत्र किमिति दृष्टान्तश्रुतेरार्जवभङ्गः क्रियत इति - चेत् , तत्र वक्तव्यं - किं परमात्मन उक्तविधा देहान्तरप्राप्तिरुत जीवस्य ।

नाद्य इत्याह –

न तावदिति ।

जीवोऽपि स्वतन्त्र एव व्यापकः सन्नस्मिन्देहे वर्तमानो देहान्तरमभिमन्यते , उतौपाधिकः सन्नुपाधिव्याप्त्या ।

न प्रथम इत्याह –

परमात्मैव चेति ।

न द्वितीय इत्याह –

तस्य चेति ।

‘‘तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरत्येवमेवायं शरीर आत्माऽन्यमाक्रममाक्रम्यात्मानमुपसंहरती’’ति श्रुतौ प्रतिपत्तव्यदेहविषयभावनादीर्घीभाव उपमीयत इति भाष्ये उक्तम् ।

तत्र भाविदेहस्याननुभूतत्वात्स्मृतिहेतुभावनानुपपत्तेरयुक्तिमाशङ्क्य व्याचष्टे –

उत्पादनाया इति ।

प्राकृतकर्मारभ्य भाविदेहोत्पत्तिं यावत्कर्तृव्यापारस्य विततत्वाद् दीर्घीभावः । एतदुक्तं भवति – यथा जलूका तृणान्तरं प्राप्य तृणं मुञ्चति एवं संसार्यपि देहान्तरप्राप्त्यर्थ कर्म कृत्वा देहं त्यजतीति । शब्दादिज्ञानानि सुखादिज्ञानानि च षट् प्रवृत्तिविज्ञानानि । अहमित्यालयविज्ञानसन्तानस्य वृत्तिः कार्यम् ॥१॥

भाष्योक्तां देहे भूतत्रयकार्योपलब्धिं दर्शयति –

तेजस इत्यादिना ।

साम्यावस्थाः शरीरं दधतीति वातादयो धातवः ।

कथं त्रिधातुकत्वे शरीरस्य पञ्चभूतात्मकत्वमत आह –

अतो न स देह इति ।

वातान्वयाद् वाय्वारब्धत्वं कफपित्तान्वयादप्तेज आरब्धत्वम् अवकाशदानान्वयादाकाशारब्धत्वमित्यर्थः । अत्र नैयायिकादयो विवदन्ते – यदि देहः पञ्चभूतसमवायिकारणकः स्यात् , तर्हि द्रव्यं न स्यात् , पञ्चभूतसमवायिकारणकबहुत्ववत् । यदि च प्रत्यक्षाप्रत्यक्षसमवायिकारणकः स्यात् , तर्हि प्रत्यक्षो न स्यात् , तरुमरुत्संयोगवत् । तस्मान्न देहः पञ्चभूतसमवायिकारणकः द्रव्यत्वादाकाशवत् । नापि प्रत्यक्षाप्रत्यक्षसमवायिकारणकः प्रत्यक्षत्वाद्गन्धवत् । तोयाद्यारब्धत्वे च शैत्याद्युपलम्भप्रसङ्गः , तोयत्वादिजातिसंकरप्रसङ्गश्च - इति । तन्न ; त्र्यणुकादेरपि प्रत्यक्षत्वादिहेतोरप्रत्यक्षसमवायिकारणत्वाभावानुमानापातात् । शीतस्पर्शादिश्च शरीरे उद्भवाभिभवाभ्यां क्रमेणोपलभ्यत एव ।जातिसंकरश्चादूषणम् । यत्तु - मन्येत द्रव्यत्वादि पृथिवीत्वादिजातिं यद्यपि परिहरति व्यापकत्वात् ; तथापि पृथिवीत्वादि द्रव्यत्वादिजातिं न मुञ्चति ; व्याप्यत्वात्तादृग्जात्योश्चैकत्र समावेशो नेतरयोः । पृथिवीत्वादिजातिश्च परस्परपरिहारिणी , कुम्भे सलिलत्वाभावात् कुम्भसलिले च पृथिवीत्वाभावात् । परस्परपरिहारस्यासमावेशानिश्चायकत्वे च गोत्वाश्वत्वयोरप्यसमाविष्टत्वनिश्चयाभावप्रसङ्गः , उच्छिद्येत च तज्जातीयविरोधकथा । तथा चाप्तवचनावसिततुरगभावे तुरगत्वान्न स गौरित्याद्यनुमानपूर्वकव्यवहारविलयप्रसङ्ग - इति । तदपि न । काश्चित्परस्परं परिहरन्त्य क्वचिदपि न समाविशन्ति , काश्चित्तु जातयः क्वचित्परिहरन्ति क्वचित्समाविशन्ति च । समावेशश्च कियस्त्वेव देहादिष्वति निश्चित्य गोत्वादावप्युक्तरीत्योरेकामाप्तादिभ्यः परिच्छिद्य प्रवृत्त्युपपत्तेः । अपि चायमत्र प्रमाणार्थः । पृथिवीत्वजलत्वे नैकत्र समाविशतः , परस्परपरिहारित्वाद् गोत्वाश्वत्ववदिति । तत्र परस्परेति पृथिवीत्वसलिलत्वविवक्षायां साधनविकलो दृष्टान्तः । न हि गोत्वाश्वत्वे पृथिवीत्वं परिहरतः । गोत्वाश्वत्वविवक्षायामविशेषेण यत्किंचित्परस्परविवक्षायां च हेतोरनैकान्तिकता ; गुणत्वरूपत्वयोर्गोत्वाश्वत्वे त्यजतोर्यत्किंचित्परस्परात्मकस्तम्भकुम्बौ परिहरतोरप्येकत्र समावेशात् । तस्मात्प्रसिद्धिसामर्थ्याद्बाधकस्यानिरूपणात् पञ्चभूतमयः कायः श्रुतितोऽप्यनुमीयताम् । श्रूयते हि पृथिवीमय आपोमयो वायुमयस्तेजोमय आकाशमय इति । अत्र च देहद्वाराऽऽत्मनः पञ्चभूतमयत्वमुच्यते ; चक्षुर्मय इत्यादिवाक्यशेषात् । अनुमानमपि देवदत्तशरीरमेतज्जनकत्वे सत्यनुदकत्वातेजस्त्वावायुत्वानाकाशत्वात्यन्ताभाववत्समवायिकारणकं शरीरत्वाद्यज्ञदत्तशरीरवदिति । यद्यपि यज्ञदत्तशरीरमनुदकत्वादिमत् पृथिवीमात्रसमवायिकारणकं परेषां ; तथापि देवदत्तशरीरजनकत्वे सति अनुदकादिमज्जन्यं न भवति , तस्य देवदत्तशरीरजनकत्वाभावेन तद्विशिष्टानुदकादिमत्त्वरहितत्वात् । अतः साध्यप्रसिद्धिः । एतज्जनकत्वे सत्यनुदकत्वादिमत्त्वरहितजन्यत्वमनुदकत्वादिमत्त्वरहितजन्यत्वाद्वा स्यादेतज्जनकत्वरहितजन्यत्वाद्वा । द्वितीयो व्याहत इति प्रथमः स्यात्तथा चोदकत्वादिमद्भूतसमवायिकारणत्वसिद्धिरिति ॥२॥

ननु निराश्रया एव प्राणा गच्छन्तु वायुवदित्याशङ्क्याह –

जीवद्देहे इति ।

भवतु साश्रयत्वं , गतिस्त्वाश्रयस्यैव न प्राणानामिति , नेत्याह –

तदनुविधायिनः इति ।

न चेत्प्राणा गच्छन्ति स्थित्याधारदेशान्न वियुज्येरन् । तथा च देशान्तरगते देहे प्राणोपलब्धिर्न स्यादित्यर्थः ।

साश्रयप्राणोत्क्रान्तावाश्रयदर्शनप्रसङ्गमाशङ्क्याह –

सूक्ष्म इति ।

ननु कार्यवशाद्यः कश्चिदाश्रयः कल्प्यतां , कथं भूतसिद्धिरत आह –

भूतेन्द्रियमय इति ।

इन्द्रियग्रहणं मृतदेहतुल्यत्वव्यावृत्त्यर्थम् । जागरिते भूतमयदेहाश्रयत्वदर्शनादित्यर्थः । तर्हीन्द्रियाणि सन्त्वाश्रयो , नेत्याह – न हीति ॥३॥ तेषामपि परोपाधिगमनत्वेन प्राणगत्यनुपपादकत्वादित्यर्थः ।

नैव प्राणा गच्छन्तीति भाष्यं दृष्ट्वा प्राणानां गमनाभावेऽग्न्यादिगतिश्रुतिर्हेतुरुक्त इति कश्चिन्मन्येत , तच्चायुक्तम् ; श्रुतौ सत्यामवधारणानुपपत्तेः , अत आह –

शावितेऽपीति ।

अत्र श्रुतिद्वयविरोधादनध्यवसाय आशङ्क्यते । भाष्यं च प्राणा गच्छन्त्येवेति यत्तन्नेति व्याख्येयमित्यर्थः ।

परिहारभागं व्याचष्टे –

अत्र हीत्यादिना ।

तेषामपीति ।

वागादिगमनानामपीत्यर्थः ।

ननु संदिग्धं वस्तु प्रायदर्शनान्निर्णीयते गौणमुख्यग्रहणविषये च मुख्ये संप्रत्ययस्तत्र कथं वागादीनामग्न्यादिगतिश्रुतिः प्रायदर्शनमात्रान्मुख्यार्थात्प्रच्याव्यते , अत आह –

श्रुतिविरोधादिति ।

जीवेन सहोत्क्रान्त्यादिश्रुतिविरोधात्संदिह्यमानार्था वागादिगतिश्रुतिरतः प्रायदर्शनावकाश इत्यर्थः । भक्तिर्गुणयोगः । उपकारनिवृत्तिरुक्ता । भाष्ये इति शेषः । ।४॥

ता एव ह्युपपत्तेरिति सूत्रस्य (ब्र.अ.३.पा.१.सू.५४) परिहारभागं व्याचष्टे –

पञ्चम्यामाहुतावित्यादिना ।

पञ्चम्यामाहुतावपां पुरुषशब्दवाच्यत्वं यथा भवति , तथा किं वेत्थेति प्रश्ने पुरुषशब्दवाच्यत्वप्रकारमात्रमग्निविस्फुलिङ्गादिदृष्टिविशिष्टमज्ञातं पृच्छयते , वाक्यस्य विशेषणसंक्रान्तत्वात् । आपस्त्वग्निहोत्रादिफलप्राप्तिपुनरावृत्तिपर्यालोचनया शास्त्रान्तराद् ज्ञाता एव । तत्र प्रथमाद्याहुतिष्वप्याहुतिविशेषमजिज्ञासित्वा पञ्चम्याम् आहुतिविषयः प्रश्न एवमभिप्रायः यैव पञ्चम्याहुतिः सैव प्रथमादिस्थानेऽपि भवतीति । सति चैवं प्रश्नहृदये प्रथमाहुतौ अब्यतिरिक्ताहुत्यभिधानमसंबद्धं स्यादित्यर्थः । अप्शब्दस्य नित्यबहुवचनान्तत्वादनपां श्रद्धाया इति निर्देशः ।

अव्यतिरिक्तायाः श्रद्धायाः प्रथमाहुतित्वे परंपरया तज्जातस्य देहस्याब्वहुलत्वं न स्यादित्याह –

न चाप्येवमिति ।

ब्रह्मकार्यस्य तद्वेलक्षण्याभ्युपगमादौत्सर्गिकीत्युक्तम् ।

श्रद्धायामप्त्वोपचारापेक्षितं सबन्धमाह –

अत एवेति ।

आपो हास्मै श्रद्धां संनमन्त इति श्रुतौ कार्यकारणभावोऽवगम्यते इत्यर्थः ॥५॥ आहुत्यपूर्वरूपा आपो जीवं परिवेष्ट्य परलोकं नयन्तीत्यत्र संवादकत्वेन ते वा एते इत्यादिवाजसनेयिब्राह्मणं भाष्यकारेरुद्धाहृतम् । तदित्थम् - अग्निहोत्राहुती प्रक्रम्य जनकेन याज्ञवल्क्यं प्रति ‘‘न त्वेवैनयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकप्रत्युत्थायिनं वेत्थे’’त्यज्ञाने उद्भाविते तेन चानुमोदिते जनकः षट् प्रश्नान्निर्णिनाय । ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते दिवमाविशतस्ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तता आवर्तेते’’ इत्युपक्रम्य ‘‘पृथिवीं पुरुषं योषितं चाहवनीयत्वेनोपन्यस्य संवत्सरादींश्च समिदादित्वेन परिकल्प्य योषिदग्नेर्यः पुत्रो जायते स लोकं प्रत्यित्थायी’’ इति । तत्रैष षट् प्रश्नीनिर्णयः पञ्चाग्निविद्यायामद्भिः परिवेष्टितस्य जीवस्य न गमयितुमर्हतिः विद्याभेदात् । षट्प्रश्न्यां ह्याहवनीयसमिदाहुतय एव श्रूयन्ते , न तु धूमार्चिरङ्गाराः । अन्तरिक्षाग्निश्चाधिकः पर्जन्यश्च न श्रुत इति । तत्र सत्यपि विद्यान्यत्वे आहुतिगत्या गतिसाम्याद् दृष्टान्तत्वमित्यस्त्येव परिहारः ।

आचार्यस्तु प्रौढ्या विद्यैक्यमुपेत्याप्याह –

षट्प्रश्नीति ।

अग्निहोत्रे षट्सु उत्क्रान्त्यादिषु ये प्रश्नास्तेऽग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु समस्तेषु विषयेषु घटन्ते ; विस्फुलिङ्गादीनां तत्राप्युपसंहर्तव्यत्वात् , बहुसाम्ये सत्यल्पवैषम्यस्याकिंचित्करत्वात्पर्जन्याग्नेश्चाग्निहोत्रे स्वर्गात् पृथिवीप्राप्त्यभिधानेनार्थसिद्धेः । अन्तरिक्षाग्नेश्च पञ्चाग्निविद्यायां पृथिव्याः स्वर्गप्राप्त्यभिधानात् सामर्थ्यसिद्धेरित्यर्थः । यः समाहारः षण्णामुत्क्रान्त्यादीनामित्यर्थः । एवं च षडग्न्युपासनमिदम् । पञ्चाग्नीन्वेदेति त्ववान्तरसंख्याभिप्रायम् ; साम्यलिङ्गात् षष्ठाग्न्युपसंहारसिद्धौ प्रचयशिष्टप्राप्तसंख्यानुवादिपञ्चशब्दस्य दुर्बलस्य तद्व्यावर्तकत्वानुपपत्तेः । एवं विस्फुलिङ्गादिषु षट्प्रश्नानुपलम्भादुत्क्रान्त्यादिविषयाणा च विस्फुलिङ्गादिविषयत्वाभावात् श्रुत्यनिभिज्ञो वाचस्पतिरित्युपहासोऽनवसरः ॥६॥

भाष्यस्थश्रुतिं व्याचष्टे –

क्रियेति ।

सोमस्य यथेति शेषः । लोण्मध्यमैकवचनं सर्वविभत्त्यर्थेषु क्रियासमभिहाराख्यपौनःपुन्ये स्मर्यते । तेनाप्यायस्वेति आप्याय्येत्यर्थः । अपक्षीयस्वेति अपक्षपय्येत्यर्थः । यथा सोमं यज्ञे भक्षयन्त्येवं कर्मिणः पुरुषान् देवा इत्यर्थः ।

एतास्तत्र भक्षयन्तीति श्रुतौ एतान् शब्देन कर्मिणामभिधानं गृहीत्वा भाक्तत्वं भक्षणस्य सूत्रभाष्यकाराभ्यां वर्णितं , स्वयं तु सिद्धान्तानुसारेणाविरुद्धमर्थमाह –

सोममयाल्लोकानिति ।

युक्ततरश्चायमर्थः ; एष सोमो राजेति कर्माभिप्राप्यस्य प्राधान्येन प्रकृतत्वात् , विभूतिमनुभूयेति भोक्तृत्वनिर्देशः साक्षादन्नत्वेऽनुपपत्तिः ॥७॥ पञ्चम्यां त आहुतावापो यथा पुरुषशब्दवाच्या भवन्ति तं प्रकारं किं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य राज्ञः प्रश्नः । तमात्मानम् । यत्र काले अस्य पुरुषस्य वागादयोऽग्न्यादिदेवान् गच्छन्ति क्वायं तदा पुरुषो भवतीति आर्तभागस्य याज्ञवल्क्यं प्रति प्रश्नः । अस्मै अधिकारिणे । श्रद्धां सन्नमन्ते आनयन्ति । अथोत्तरमार्गकथानन्तरम् । ग्रामे गृहाश्रमे स्थित्वा । इष्टं यागादिपूर्तवाप्यादिकरणं दत्तं दानम् । इत्येतान्युपासतेऽनुतिष्ठन्ति ये ते धूमं धूमाभिमानिनीं देवताम् अभिसंभवन्ति प्राप्नुवन्ति आकाशदेवतातो वायुमाप्नुवन्ति । असौ अमुकनामा स्वर्गाय लोकाय स्वाश्रयं हा गच्छतु एतदेवादित्यस्य रोहिताद्यमृतं दृष्ट्वैव वस्वादयो देवास्तृप्यन्तीति मधुविद्यायां श्रुतम् । अथ पित्रानन्दकथनानन्तरं जितः प्राप्तः श्राद्धादिकर्मभिः पितृलोको यैस्तेषां पितॄणां ये आनन्दाः स कर्मदेवानामेक आनन्दः । पित्रानन्दशतगुण आनन्दः कर्मदेवानां भवतीत्यर्थः । ये कर्मणेति कर्मदेवानां व्याख्यानम् ॥

इति प्रथमं तदन्तरप्रतिपत्त्यधिकरणम् ॥