भामतीव्याख्या
वेदान्तकल्पतरुः
 

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ।

यावत्सम्पातमुषित्वेति ।

यावदुपबन्धात् ।

यत्किञ्चेह करोत्ययमिति ।

च यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति श्रवणात् , प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वात् । न खल्वभिव्यक्तिनिमित्तस्य साधारण्येऽभिव्यक्तिनियमो युक्तः । फलदानाभिमुखीकरणं चाभिव्यक्तिस्तस्मात्समस्तमेव कर्म फलमुपभोजितवत् । स्वफलविरोधि च कर्म । तस्माच्छ्रुतेरुपपत्तेश्च निरनुशयानामेव चरणादाचारादवरोहो न कर्मणः । आचारकर्मणी च श्रुतेः प्रसिद्धभेदे । यथाकारी यथाचारी तथा भवतीति । तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनिनिमित्तमुपदिशति न तु कर्म । स्तां वा कर्मशीले द्वे अप्यविशेषेणानुशयस्तथापि यद्यप्ययमिष्टापूर्तकारी स्वयं निरनुशयो भुक्तभोगत्वात्तथापि पित्रादिगतानुशयवशात्तद्विपाकान् जात्यायुर्भोगांश्चन्द्रलोकादवरुह्यानुभविष्यति । स्मर्यते ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्सम्बन्धिनस्तत्फलभागिता “पतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्” इत्यादि । तथा श्राद्धवैश्वानरीयेष्ट्यादेः पितापुत्रादिगामिफलश्रुतिः । तस्माद्यावत्सम्पातमित्युपक्रमानुरोधात् “यत्किञ्चेह करोति”(बृ. उ. ४ । ४ । ६) इति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं सम्बन्ध्यन्तरगतमिष्टापूर्तकारिणि भाक्तं गमयितव्यम् । तथाच निरनुशयानामेव भुक्तभोगानामवरोह इति प्राप्त उच्यतेयेन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीतेऽपि सानुशया एव चन्द्रमण्डलादवरोहन्ति । कुतःदृष्टस्मृतिभ्याम् । प्रत्यक्षदृष्टा श्रुतिर्दृष्टशब्दवाच्या । स्मृतिश्चोपन्यस्ता । अथवा दृष्टशब्देनोच्चावचरूपो भोग उच्यते । अयमभिसन्धिःकपूयचरणा रमणीयचरणा इत्यवरोहितामेतद्विशेषणम् । नच सति मुख्यार्थसम्भवे सम्बन्धिमात्रेणोपचरितार्थत्वं न्याय्यम् । न चोपक्रमविरोधाच्छ्रुत्यन्तरविरोधाच्च मुख्यार्थासम्भव इति साम्प्रतम् । दत्तफलेष्टापूर्तकर्मापेक्षयापि यावत्पदस्य यत्किञ्चेतिपदस्य चोपपत्तेः । नहि ‘यावज्जीवमग्निहोत्रं जुहुयात्’ इति यावज्जीवमाहारविहारादिसमयेऽपि होमं विधत्ते नापि मध्याह्नादावपि तु सायम्प्रातःकालापेक्षया । सायम्प्रातःकालविधानसामर्थ्यात् , कालस्य चानुपादेयतयानङ्गस्यापि निमित्तानुप्रवेशात्तत्रैवमिति चेत् । न । इहापि रमणीयचरणा इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः । तत्किमिदानीमुपसंहारानुरोधेनोपक्रमः सङ्कोचयितव्यः । नेत्युच्यते । नह्यसावुपसंहाराननुरोधेऽप्यसङ्कुचद्वृत्तिरुपपत्तुमर्हति । नहि यावन्तः सम्पाता यावतां वा पुंसां सम्पातास्ते सर्वे तत्रेष्टादिकारिणा भोगेन क्षयं नीयन्ते । पुरुषान्तराश्रयाणां कर्माशयानां तद्भोगेन क्षयेऽतिप्रसङ्गात् । चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनापनयनात् । तथाच स्वयं सङ्कुचन्ती यावच्छ्रुतिरुपसंहारानुरोधप्राप्तमपि सङ्कोचनमनुमन्यते । एतेन “यत्किञ्चेह करोति”(बृ. उ. ४ । ४ । ६) इत्यपि व्याख्यातम् । अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्रमकार्षीदपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् । एवमहर्निशं च वाङ्मनःशरीरचेष्टाभिः पुण्यापुण्यमिहामुत्रोपभोग्यं सञ्चितवतो न मर्त्यलोकादिभोग्यं चन्द्रलोके भोग्यं भवितुमर्हति । नच स्वफलविरोधिनोऽनुशयस्य ऋते प्रायश्चित्तादात्मज्ञानाद्वादत्तफलस्य ध्वंसः सम्भवति । तस्मात्तेनानुशयेनायमनुशयवान् परावर्तत इति श्लिष्टम् । न चैकभविकः कर्माशय इत्यग्रे भाष्यकृद्वक्ष्यति ।

अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्णयाञ्चक्रुरित्याह –

केचित्तावदाहुरिति ।

अनुशयोऽत्र दत्तफलस्य कर्मणः शेष उच्यते । तत्रेदमिह विचार्यते किं दत्तफलानामिष्टापूर्तकर्मणामवशेषादिहावर्तन्ते उत तान्युपभोगेन निरवशेषं क्षपयित्वानुपभुक्तकर्मवशादिहावर्तन्त इति । तत्रेष्टादीनां भोगेन समूलकाषं कषितत्वान्निरनुशया एवानुपभुक्तकर्मवशादावर्तन्त इति प्राप्त उच्यते सानुशया एवावर्तन्त इति । कुतः दृष्टानुसारात् । यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालितेऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्तव्यम् । न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति । यथा सेवको हास्तिकाश्वीयपदातिव्रातपरिवृतो महाराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी स्मृतिरिति दृष्टस्मृतिभ्यां सानुशया एवावर्तन्त इति ।

तदेदद्दूषयति –

न चैतदिति ।

एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः । शब्दैकगम्येऽर्थे न सामान्यतोदृष्टानुमानावसर इत्यर्थः । शेषमतिरोहितार्थम् ।

पूर्वपक्षहेतुमनुभाषते –

यदप्युक्तं प्रायणमिति ।

दूषयति –

तदप्यनुशयसद्भावेति ।

रमणीयचरणा कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया श्रुत्या विरुद्धमित्यर्थः ।

अपिचेत्यादि ।

इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते । युगपच्चेदेकप्रघट्टकेन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् । युगपदेव तत्फलानि भुज्येरन् । तस्मादुपभोगपर्यायदर्शनाद्बलीयसा दुर्बलस्याभिभवः कल्पनीयः । एवं विरुद्धजातिनिमित्तोपभोगफलेष्वपि कर्मसु द्रष्टव्यम् । न चाभिव्यक्तं च कर्म फलं न दत्त इति च सम्भवति । फलोपजनाभिमुख्यं हि कर्मणामभिव्यक्तिः । अपिच प्राणस्याभिव्यञ्जकत्वे स्वर्गनरकतिर्यग्योनिगतानां जन्तूनां तस्मिञ्जन्मनि कर्मस्वनधिकारान्नापूर्वकर्मोपजनः पूर्वकृतस्य क्रमाशयस्य प्रायणाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नास्ति तेषां कर्माशय इति न ते संसरेयुः । नच मुच्येरन्नात्मज्ञानाभावादिति कष्टां बताविष्टा दशाम् । किञ्च स्वसमवेतमेव प्रायणेनाभिव्यज्यतेऽपूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति । शेषं सुगमम् ॥ ८ ॥

चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ।

अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति । यद्यपि “अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद्विदुर्बुधाः ॥' इति स्मृतेः शीलमाचारोऽनुशयाद्भिन्नस्तथाप्यस्यानुशयाङ्गतयानुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने । तथाच रमणीयचरणाः कपूयचरणा इत्यनेनानुशयोपलक्षणात्सिद्धं सानुशयानामेवावरोहणमिति ॥ ९ ॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।

“आचारहीनं न पुनन्ति वेदाः”(देवी भागवत ११.२.१) इति हि स्मृत्या वेदपदेन वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशेषत्वमाचारस्योक्तं न तु स्वतन्त्र आचारः फलस्य साधनं, तेन वेदार्थानुष्ठानोपकारकतयाचारस्य नानर्थक्यं क्रत्वर्थस्य ।

तदनेन समिदादिवदाचारस्य क्रत्वर्थत्वमुक्तम् । सम्प्रति स्नानादिवत्पुरुषार्थत्वे पुरुषसंस्कारत्वेऽप्यदोष इत्याह –

पुरुषार्थत्वेऽप्याचारस्येति ।

तदेवं चरणशब्देनाचारवाचिना सर्वोऽनुशयो लक्षित इत्युक्तम् ॥ १० ॥

बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह –

सुकृतदुष्कृते एवेति तु बादरिः ।

ब्राह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः । शेषमतिरोहितार्थम् ॥ ११ ॥

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥

कर्मसमवायिनीनाम् अपां पञ्चम्यामाहुतौ पुंपरिणामहेतुमाश्रित्याद्भिः परिवेष्टितजीवगमनमुक्तं , तत्र स्वर्गादवरोहतः कर्मैव नास्ति कुतस्तत्समवायिन्य आपः? कुतस्तरां पुंपरिणामः? इत्याक्षेपसङ्गतिगर्भं पूर्वपक्षमाह –

यावत्संपातमित्यादिना ।

अत एव च कर्मणामैकभविकनयाद्विलय संभवे सम्यग्ज्ञानस्य नैष्फल्यं पूर्वपक्षे प्रयोजनम् ।

श्रुतिमुदाहृत्य व्याचष्टे –

यदिति ।

अन्तः फलम् ।

मुक्तिमप्याह –

प्रायणस्य चेति ।

एषां हेतूनां समस्तमेव कर्म स्वकीयं फलमुपभोजितवदित्युपरितनप्रतिज्ञयाऽन्वयः ।

ननु फलं दत्वापि कर्म तिष्ठतु , तत्राह –

स्वफलविरोधीति ।

लोके तथोपलम्भादित्यर्थः ।

नन्वसति कर्मणि निमित्ताभावात्कथामवरोहणमत आह –

आचारादिति ।

चरणादिति चेदिति सूत्रभागः पूर्वपक्ष इत्यर्थः । आचारे चाग्निहोत्रादिवन्नाब्बाहुल्यमिति पूर्वपक्षघटना ।

ननु यथाकारी यथाचारीत्युपक्रम्य साधुकारीत्युपसंहारात् करणाचरणयेरेकत्वमवगम्यतेऽत आह –

स्तां वेति ।

भवेतामित्यर्थः । कर्तारमनुशेतेऽनुगच्छतीत्यार्थानुशयः । जातिर्जन्म । स्मृतिश्चोपन्यस्ता । वर्णाश्रमा इत्याद्या भाष्ये इत्यर्थः ।

दृष्ट्श्चायं प्रतिप्राणीत्यादि भाष्यं व्याचष्टे –

अथ वेति ।

उपभोगवैचित्र्यं स्वर्गादवरोहतामिति कथमवगम्यतेऽत आह –

कपूयचरणा इति ।

यावत्पदस्येति ।

वाक्योपक्रमगतस्येत्यर्थः ।

यत्किंचेति पदस्येति ।

श्रुत्यन्तरगतस्येत्यर्थः ।

यावज्जीवमग्निहोत्रमित्यत्रत्ययावत्पदस्य सायंप्रातःकालावच्छिन्नजीवनविषयत्वेऽस्ति प्रमाणमिति दृष्टान्ते विशेषं शङ्कते –

सायंप्रातःकालविधानेति ।

ननु सायं जुहोति प्रातर्जुहोति इति अग्निहोत्रे विधीयतां कालः , स त्वङ्गत्वात् प्रधानासंकोचकः. तत्राह –

कालस्य चेति ।

कालस्य पुरुषानिष्पाद्यत्वात् सिद्धत्वेन निमित्तत्वं , ततश्च नैमित्तिकस्य कर्मणः संकोच इत्यर्थः ।

तदुपपत्तेरिति ।

यावत्संपातमित्यादेः स्वर्गे तदफलेष्टापूर्तविषयत्वोपपत्तेरित्यर्थः ।

असंजातविरोधस्योपक्रमगतयावच्छब्दस्य संजातविरोधोपसंहारगतरमणीयचरणश्रुत्या कथं संकोचः? इति शङ्कते –

तत्किमिति ।

स्वयमेव संकुचितार्था यावच्छ्रुतिस्तदपेक्षितविषये उपसंहारेण नीयत इति परिहरति –

नेत्युच्यत इत्यादिना ।

रमणीयचरणनिमित्तकोऽवरोह इति वदन्त्या श्रुत्याऽर्थात्तदितरभुक्तफालकार्मविषया यावच्छ्रुतिरिति विषयो दत्त इत्यर्थः ।

यावत्संपातमिति ।

किं तद् भोक्तृकृतं कर्मोच्यते , कर्ममात्रं वा ।

नाद्य इत्याह –

यावन्त इति ।

न द्वितीय इत्याह –

यावतां वेति ।

प्रथमाभावे हेतुः - चिरेति द्वितीयाभावे हेतुः –

पुरुषान्तरेति ।

पूर्वदर्शिताधिकरणपूर्वपक्षस्य तुच्छतामाह –

सकलेति ।

हेत्वभावे कार्यायोगात् कर्मरहितावरोहशङ्का न भवतीत्यर्थः ।

पित्रादिकर्मचरणाभ्यां तदुपपादनान्मन्यमानोक्तिः सिद्धान्त्युक्तसिद्धान्त एवैकदेशिनः पूर्वपक्ष इत्याह –

अनुपभुक्तकर्मवशादिति ।

अस्मिन्मते सौत्रदृष्टशब्दार्थमाह –

दृष्टानुसारादिति ।

ननूत्पत्तिकर्मशेषे तत्फलमपि स्वर्गे एव भोक्तव्यं , समस्तज्योतिष्टोमादेः स्वर्गार्थत्वेन विधानादत आह –

न चावशेषेति ।

तिष्ठासन् स्थातुमिच्छन् भुवि शेषफलभोग इत्यर्थः । हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् ।

तन्मूला चेति ।

दृष्टन्यायमूला लौकिकी कालिदासादिस्मृतिरित्यर्थः । वेदैर्गीतां सुकृतशकलैः स्वर्गीणां भूमिभागे भोगप्राप्तिं कथयति पुरीं वर्णयन् कालिदासः । स्वल्पीभूते सुचरितफले स्वर्गीणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ अथवा - ततः शेषेणेत्याद्यैव स्मृतिर्लौकिकी ।

अस्मिन्पक्षे तन्मूलेत्यस्य विवरणं –

लौकिकीति ।

लौकिकन्यायमूलेत्यर्थः ।शक्यते चास्याः स्मृतेर्वेदोऽनुमातुम् । गुडजिह्विका मधुरोक्तिः । नैव युक्तमित्युक्तेर्नैष्ठुर्यं स्यादिति ।

यत्तु स्वर्गसुखं भुवि भोक्तव्यमिति , तत्राह –

शब्दैकगम्येऽर्थे इति ।

भाण्डस्नेहवत् सामान्यतो दृष्टेन हि कर्मशेषोऽनुमितः , तस्य च भुवि भोगः कल्पितः , तत्सर्वं स्वर्गोद्देशेन यागविधिना विरुध्यते , भौमसुखस्य स्वर्गत्वायोगादित्यर्थः । अत एव स्मार्तः शेषशब्दोऽपि न भुक्तकर्मणः शेषं वक्ति , किंतु कर्मराशिमध्येऽनुपभुक्तं कर्मान्तरमिति ।

कविरपि दिवः खण्डमिवेति पुरमुपमिमानो भुवि भोगमाह –

प्रायणेनेति ।

पूर्वदेहावसानकालीनेनेत्यर्थः ।

युगपदेव तत्फलानि भुज्येरन्निति ।

इदानीमित्यर्थः ।

ननु युगपदभिव्यक्तान्यपि कर्माणि क्रमेण फलं ददतामत आह –

न चाभिव्यक्तमिति ।

ननु स्वर्गादिभुजः स्वर्गादिभोगानन्तरं परकर्मभिः संसरन्तु नेत्याह – न चेति ॥८॥

निरनुशया एवेति ।

अग्निहोत्रादिकर्मापूर्वरहिता इत्यर्थः ॥९॥

आचारस्य यागादिवद् न प्रधानकर्मत्वेन पुरुषार्थत्वमित्याह –

स्नानादिवदिति ।

ज्योतिष्टोमे श्रूयते - ‘‘तीर्थे स्नाति तीर्थमिव हि सजातानां भवती’’ति । दर्शपूर्णमासयोरप्याम्नायते ‘‘जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू इति प्राणापानावात्मनि धत्ते’’ इति । तत्र तीर्थस्नानं जृम्भानिमित्तमन्त्रोच्चारणं च किं प्रकृतक्रतुधर्मः , उत शुद्धमनुष्यधर्मः , प्रकृतक्रतुयुक्तमनुष्यधर्मो वेति संदेहे न तावत्प्रकृतक्रतुधर्मत्वम् ; वाक्येन पुरुषधर्मत्वप्रतीतेः । प्रकरणाच्च वाक्यस्य बलवत्त्वात् । अत एव न प्रकृतक्रतुयुक्तपुरुषधर्मत्वम् ; दुर्बलस्य प्रकरणस्याविशेषकत्वात्तस्माच्छुद्धपुरुषधर्मत्वे प्राप्ते राद्धान्तितं शेषलक्षणे । न तावदिदं पुरुषं प्रति फलाय प्रधानकर्मत्वेन विधीयते ; फलकल्पनाप्रसङ्गात् , वाक्यशेषनिर्दिष्टस्य वर्तमानोपदिष्टत्वेन फलत्वानभिव्यक्तेः । गुणकर्म तु स्यात् । तच्च न पुरुषमात्रे विधातुं शक्यम् ; वैयर्थात् । अपूर्वसाधनांशे हि धर्मविधानम् अपूर्वसाधनत्वलक्षणा च न प्रकरणादृते इति दुर्बलस्यापि प्रकरणस्य वाक्येनानुज्ञातत्वात् प्रकृतक्रतुयुक्तमनुष्यधर्मत्वमेवेति । एवं यथा तीर्थस्नानादेः प्रकरणवाक्याभ्यां क्रत्वनुष्ठायिपुरुषधर्मत्वं , तथाऽऽचारस्याप्याचारहीनमिति वाक्यानुमितविधिवाक्याद् वेदार्थानुष्ठातृपुरुषधर्मत्वमित्यर्थः । अजहल्लक्षणामाह – सर्वोऽनुशय इति ॥१०॥

यथाकारी यथाचारीति करणाचरणभेदनिर्देशो ब्राह्मणपरिव्राजकन्यायेनेति भाष्योक्तमयुक्तम् ; ब्राह्मणत्वस्य यावत्पिण्डभावित्वेन जातित्वेऽपि परिव्राजकत्वस्य गार्हस्थ्याद्यवस्थायामभावेन जातित्वाभावात् करणचरणत्वयोश्चादृष्टत्वावान्तरजातित्वाद्दृष्टान्तासङ्गनादित्याशङ्क्याह –

गोबलीवर्देति ।

परापरजातिविषयगोबलीवर्दन्यायेऽनुवृत्तव्यावृत्तविषयत्वसाम्याद् ब्राह्मणपरिव्राजकशब्द उपचरित इत्यर्थः ॥११॥ तेषां कर्मिणां तददृष्टं यदा पर्यवैति परिगच्छति परिक्षीणं भवतितदा त आवर्तन्त इत्युत्तरवाक्येनान्वयः ।

प्राप्येति ।

यत्किंचिदिह लोके यः संसारी कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्माल्लोकात्पुनरस्मै लोकाय आ एति आगच्छति । पुनः शब्दात्पूर्वमप्यागत इति गम्यतेऽनादित्वात्संसारस्य । किमर्थमागमनं? कर्मणे कर्मानुष्ठानाय । तत्र तेष्वनुशयिषु मध्ये इह लोके ये पूर्वं रमणीयाचरणवन्त आसन् , ते तदनुरूपां ब्राह्मणादियोनिं शरीरमापद्येरन्निति यत् तद् अभ्याशः क्षिप्रम् अवश्यमेवेत्यर्थः । योनिशब्दः स्थानवचनः । कपूयचरणाः कुत्सिताचरणाः । वर्णा वर्णिनः । आश्रमा आश्रमिणः । विशिष्टदेशादयो मेधान्ता येषां ते तथा । संसारे मज्जमानस्य जन्तोः कदाचित्सुकृतं सुष्ठ्वभिमानपूर्वकं कृतं यत्कर्म तद्यावद् दुःखात्संसारान्मुच्यते तावत्कूटस्थमिव तिष्ठतीति योजना ॥११॥

इति द्वितीयं कृतात्ययाधिकरणम् ॥